५०

अथ पञ्चाषोऽनुवाकः।


शल्कै॑र॒ग्निमि॑न्धा॒न उ॒भौ लो॒कौ स॑नेम॒हम्। उ॒भयो॑र्लो॒कयो॑र्ऋ॒द्ध्वाऽति॑ मृ॒त्युं त॑राम्य॒हम्॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि पञ्चाशत्तमोऽनुवाकः॥५०॥ शल्कैरिति। हे भगवञ्शल्कैः सप्निद्रूपैः शुष्ककाष्ठैरग्निमाहवनीयादिकमिन्धानो दीपयन्नहमुभौ लोकाविहपरलक्षणौ सनें प्राप्नुयां त्वदनुग्रहात्। एतेन लोकद्वयं सत्कर्मणा फलतीत्युक्तं भवति। अत एवोभयोर्लोकयोर्व्यत्ययेनोभौ लोकावृद्ध्वा लब्ध्वा मृत्युमहमतितराम्यमृतो भवामि। यावदायुरैहिकान्भोगान्भुक्त्वाऽन्ते देवो भवामीत्यभिप्रायः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधैययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये पञ्चाशोऽनुवाकः॥५०॥