४९

अथैकोनपञ्चाशोऽनुवाकः।


हरि॒ ँ हर॑न्त॒मनु॑यन्ति दे॒वा विश्व॒स्येशा॑नं वृष॒भं म॑ती॒नाम्। ब्रह्म॒ सरू॑प॒मनु॑ मे॒दमागा॒दय॑नं॒ मा विव॑धी॒र्विक्र॑मस्व॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोप- निषद्येकोनपञ्चाशोऽनुवाकः॥४९॥ हरिमिति। हे परमात्मंस्त्वां सर्वे देवा अनुयन्ति भृत्यभावेनानुसरन्ति। त्वां कथंभूतम्। हरिं विष्णुरूपम्। तथा भक्तानां पापं हरन्तम्। विश्वस्य जगत ईशानम्। मतीनां सर्वप्राणिबुद्धीनां बृषभं श्रेष्ठत्वेन नियन्तारं पुण्यापुण्ययोः सर्वप्राणिबुद्धिप्रेरकमिति यावत्। तदुक्तम् - “धियो यो नः प्रचोदयात्” इति। किंच त(त्व)दनुग्रहाद्ब्रह्म वेदचतुष्टयं मा मामन्वागादन्वागच्छतु। कथंभूतं ब्रह्म, समान्यपशब्दादिवैषम्यरहितानि रूपाणि प्रकृतिप्रत्ययादीनि यस्य तत्सरूपम्। पुनः कथंभूतम्।


१ घ. ६५। २ घ. ६६

[[867]]

[अनु॰५०-५१] सभाष्यो दशमप्रपाठकः।

इदं सर्वैस्त्रैवर्णिकैः प्रत्यक्षत्वेनाधीयमानम्। किंचायनमस्माभिः संपादितं मोक्षमार्गं मा विवधीर्मा हिंसय। किंच दातुं विक्रमस्व पराक्रमं कुरु, दातुमुद्यमं कुर्वित्यर्थः॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्य एकोनपञ्चाशोऽनुवाकः॥४९॥