अथाष्टचत्वारिंशोऽनुवाकः।
अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्तेरमु॑ञ्चः। प्रत्यौ॑हताम॒श्विना॑ मृ॒त्यम॑स्माद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोप- निषद्यष्टचत्वारिंशोऽनुवाकः॥४८॥
अमुत्रभूयादिति। बृहतां वेदवाचां पतिः पालको बृहस्पतिस्तत्संबुद्धौ हे बृहस्पते परमात्मन्यमस्य संबन्धि यद्भयं तस्मान्माममुञ्चो मोचय। अभिशस्तेरपयशसोऽपि माममुञ्चः। एतद्द्वयान्मोचयित्वाऽथानन्तरम्। अमुत्रभूयात्। व्यत्ययः। अमुत्रभवेन परलोकभवेन सुखेन मां संयोजयेति शेषः। किंचाश्विनाऽश्विनौ देववैद्यावस्मान्मत्तः सकाशान्मृत्युं प्रत्यौहतां दूरी कुर्वाताम्। हेऽग्ने देवानां संबन्धिना भिषजा वैद्यभूतने त्वयाऽहं रक्षणीयोऽस्मीति शेषः। शचीभिरिन्द्रपत्नीभिः संयोजयेत्यपि शेषः। हविर्नयनद्वारा देवताक्षुन्निवारकत्वादग्नेर्भिषक्त्वं द्रष्टव्यम्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्येऽष्टचत्वारिंशोऽनुवाकः॥४८॥