अथ सप्तचत्वारिंशोऽनुवाकः।
वातं प्रा॒णं मन॑सा॒ऽन्वार॑भामहे प्र॒जाप॑तिं॒ यो भुव॑नस्य गो॒पाः। स नो॑ मृ॒त्योस्त्रा॑यतां॒ पात्व ँह॑सो॒ ज्योग्जी॒वा ज॒राम॑शीमहि॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि सप्तचत्वारिंशोऽनुवाकः॥४७॥ वातमिति। वयं तं प्रजापतिं परमात्मानं मनसाऽन्तरङ्गेणान्वारभामहे। कथंभूतं प्रजापतिम्। प्राणं समस्तपिण्डाण्डस्थप्राणापानादिरूपम्। वातमन्तरिक्षस्थवायुरूपम्। एतेन पिण्डाण्डब्रह्माण्डोभयविधारकत्वं प्रजापतेरुक्तं भवति। तं कम्। यः प्रजापतिर्भुवनस्य ब्रह्माण्डस्य गोपा रक्षकः [स] प्रजापतिर्नोऽस्मान्मृत्योः सकाशात्त्रायताम्। अंहसः पापाच्च पातु। किंच ज्योग्जीवाश्विरंजीवनाः सन्तो वयं [जरां] वार्धकावस्थामशीमहि प्राप्नुमः। पूर्णषुरुषायुषा भवेमेत्यर्थः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये सप्तचत्वारिंशोऽनुवाकः॥४७॥
+अयं मन्त्रस्तैत्तिरीयारण्यके षष्टप्रपाठके सप्तमानुवाके वर्तते, तत्र सायणभाष्ये पूर्वार्धव्याख्यानमन्यथाऽस्ति तद्यथा - “हे मृत्यो देवयानादितरो यः पन्थास्ते स्वस्तव स्वभूतस्तं परं पन्थांदेवयानादितरं तं मार्गमनुपरेहि। अऩुक्रमेण प्राप्नुहि।” इति * देवयानादित्यस्योपलक्षणत्वाभिप्रायेणेदम्।
१ घ. ६४।
[[866]]
परिशिष्टत्वेन संगृहीतः- [अनु॰ ४८-४९]