४६

अथ षट्चत्वारिंशोऽनुवाकः।


परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां यस्ते इत॑रो देव॒याना॑त्। चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा नः॑ प्र॒जा ँ री॑रिषो॒ मोत वी॒रान्, इति॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि षट्चत्वारिंशोऽनुवाकः॥४६॥


१ घ. ६२। २ घ. ६३।

[[865]]

[अनु ॰४६-४७] सभाष्यो दशमप्रपाठकः।

परमिति। हे+ मृत्यो देवयानादर्चिरादिमार्गात्पितृयाणमार्गाञ्च * य इतरोऽन्यस्ते तव स्वः स्वभूतः पन्था अस्ति तं पन्थां पन्थानमन्वनुसृत्य परेहि गच्छ। नतु देवयानपितृयाणमार्गौ प्रत्यागच्छ। अहं त्वेताभ्यामन्यतरेण वा गमिष्यामि न त्वामीक्षे त्वन्मार्गे त्वं तिष्ठत्यभिप्रायः। कीदृशं [पन्थानम्] परम्, पूर्वोक्तमार्गद्वयादन्यम्। उतापि च नोऽस्माकं प्रजां मा रीरिषो मा हिंसय। वीरान्भृत्यानपि मा रीरिषः। नन्वहमन्धो बधिरश्च कथं प्रार्थयमानं त्वामवलोकये कथं वा त्वत्प्रार्थनां शृणोमीत्यत आह - चक्षुष्मते शृण्वते श्रोत्रवते ते तुभ्यं ब्रवीमीत्यतो मामवलोकय मत्प्रार्थनां सफलय चेति भावः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये षट्चत्वारिंशोऽनुवाकः॥४६॥