४५

अथ पञ्चचत्वारिंशोऽनुवाकः।


अनयर्चा परमात्मनः सकाशात्स्वाभीष्टं याचते - अपै॑तु मृ॒त्युर॒मृतं॑ न॒ आगन्वैवस्व॒तो नो॒ अभ॑यं कृणोतु। प॒र्णं वन॒स्पते॑रिवा॒भि नः॑ शीयता ँ र॒यिः सच॑तां नः॒ शची॒पतिः॑, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि पञ्चचत्वारिंशोऽनुवाकः॥४५॥ हे परमात्मन्मृत्युरस्मत्तोऽपैतु दूरी भूयात्। अत एव नोऽस्मान्प्रत्यमृतं मोक्ष आगन्नागच्छतु। अत एव वैवस्वतो यमो नोऽस्मभ्यमभयं नारकदुःखाभावं कृणोतु करोतु। अपि [च] नोऽस्मदीयं पापं वनस्पतेरश्वत्थादेः पक्कपर्णमिवाभिशीयतामभितो विशीर्य नश्यतु। अपि च नोऽस्मान्नयिर्महदैश्वर्यं सचतां प्राप्नोतु। रयिः कीदृशः। शचीपतिः , इन्द्रोपभोग्य इत्यर्थः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये पञ्चचत्वारिंशोऽनुवाकः॥४५॥