अथ चतुश्चत्वारिंशोऽनुवाकः।
पुनरपि मेधादिसिद्धयेऽग्नीन्द्रसूर्यान्प्रार्थयते- मयि॑ मे॒धां मयि॑ प्रजां मय्यग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्रजां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ मयि मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप- निषदि चतुश्चत्वारिंशोऽनुवाकः॥४४॥ मेधां वेदशास्त्रादिग्रन्थग्रहणधारणपटुत्वं प्रजामच्छिन्नसंततिं तेजो ब्रह्मवर्चसमग्निर्मयि दधातु निदधातु। इन्द्रियं धातुक्षयादिराहित्येन वीर्यपुष्टिम्। भ्राजो दर्शनमा-
- जुषन्तामित्यस्य व्याख्यानमेतत्। मूले व्यत्ययेन बहुवचनम्।
१ घ. ६०। २ घ. ६१।
[[864]]
परिशिष्टत्वेन संगृहीतः - [अनु ॰४५-४६]
त्रेणामित्रसाध्वसकरं मुखतेजः। निगदव्याख्यातमन्यत्। आदराभिद्योतिका मयिपदाद्यावृत्तिः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये चतुश्चत्वारिंशोऽनुवाकः॥४४॥