अथ त्रिचत्वारिंशोऽनुवाकः।
पुनरपिं मेधार्थ मन्त्रमाह- आ मां॑ मे॒धा सु॒रभि॑र्वि॒श्वरू॑पा॒ हिर॑ण्यवर्णा॒ जग॑ती जग॒म्या। ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑- माना॒ सा मां॑ मे॒धा सु॒प्रती॑का जुषन्ताम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप- निषदि त्रिचत्वारिंशोऽनुवाकः॥४३॥ मेधाशक्तिर्मां प्रत्या समन्तादागच्छत्विति शेषः। कीदृशो मेधा। सुरभिः शोभनगन्धा कामदुघा वा। विश्वरूपा सकलशास्त्रधारणक्षमत्वेन बहरूपा। हिरण्यवर्णा देवताशरीरे हिरण्यसमानवर्णोपेता। जहती सर्वत्र वर्तमानत्वेन जगदात्मिका। जगम्या पुरुषार्थकामैर्भृशं गन्तुं योग्या। ऊर्जस्वती बलवती। पयसा गोक्षीरादिरसेन पिन्वमानाऽस्मान्प्रीणयन्ती । सा तथाविधगुणयुक्ता मेधा सुप्रतीका सुखी भूत्वा मां *जुषतां सेवताम्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये त्रिचत्वारिंशोऽनुवाकः॥४३॥