अथ द्विचत्वारिंशोनुवाकः।
मेधाप्रदानिन्द्रादीन्प्रार्थयितुं मन्त्रान्तरमाह - मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती। मे॒धां मे॑ अ॒श्विना॑वु॒भावाध॑त्तां॒ पुष्क॑रस्रजा, इति। योऽयमिन्द्रो या च सरस्वती देवी यौ च पुष्करस्रजौ पद्ममालायुक्तावुभावश्विनौ देवौ ते सर्वे मह्यं मेधां प्रयच्छन्तु। मेधाप्रदं मन्त्रान्तरमाह - अ॒प्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यन्मनः॑। दैवीं॑ मे॒धा सर॑स्वती॒ सा मां॑ मे॒धा सुरभि॑र्जुषता॒ ँ स्वाहा॑, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप- निषदि द्विचत्वारिंशोऽनुवाकः॥४२॥
अप्सरासु देवस्त्रीषु या मेधा प्रसिद्धा वर्तते, गन्धर्वेषु देवगायकेषु यन्मनो मेधात्मकमस्ति, दैवीं व्यत्ययेन दैवी हिरण्यगर्भादिदेवतासु स्थिता या मेधा वर्तते, सरस्वती वेदशास्त्ररूपा याऽस्ति, सा सर्वा मेधा सुरभिः शोभनगन्धा सर्वकामदुघा वा भूत्वा मां जुषतां सेवताम्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये द्विचत्वारिंशोऽनुवाकः॥४२॥
१ घ. ५८। २ घ. ५९।
[[863]]
[अनु ॰ ४३-४४] सभाष्यो दशमप्रपाठकः।