अथैकचत्वारिंशोऽनुवाकः।
ब्रह्मज्ञानप्रतिबन्धकानि यानि महापातकानि तन्निवृत्तये जप्यास्त्रिसुपर्णमन्त्रास्त्रयोऽभिहिताः. तत्र ब्राह्मणजातीयमात्रवधो ब्रह्महत्या पञ्चसु महापातकेषु मध्ये प्रबलं महापातकं ततोऽप्यधिकं भ्रूणहननं तस्मादप्यधिकं वीरहननमीदृशानामपि निवर्तको यावज्जीवं त्रिसुपर्णजपः। तत्रार्वाचीनानां सुरापा-नादीनां निवर्तक इति किमु वक्तव्यम्। इत्थं प्रतिबन्धनिवृत्त्युपायमुक्त्वा जीवात्मन ईश्वरेणाभेदज्ञानं यदस्ति तस्य ज्ञानस्य नैरन्तर्येण साधनं मेधाधीनमतो मेधाभिमानिनीं देवतां प्रार्थयितुमेकामृचमाह– मे॒धा दे॒वी जु॒षमा॑णा न॒ आगा॑द्विश्वाची॑ भ॒द्रा सु॑मन॒स्यमा॑ना। त्वया॒ जुष्टा॑ नु॒दमा॑ना दु॒रुक्ता॑न्बृ॒हद्व॑देम वि॒दर्थे सु॒वीराः॑, इति। ग्रन्थतदर्थयोर्धारणशक्तिर्मेधा [तदभिमानिनी] देवी जुषमाणा [प्रीयमाणा] सती नोऽस्मान्प्रत्या[गादा]गच्छतु। कीदृशी देवी। विश्वमञ्चतीति विश्वाती सर्वावगाहनक्षमेत्यर्थः। अत एव भद्रा कल्याणी। सुमनस्यमाना शोभनं मनोऽस्मदनुग्राहकमिच्छन्ती। हे देवि त्वया जुष्टा अनुगृहीता वयं दुरुक्तान्पुरुषार्थानुपयोगिनो वेदबाह्या[ञ्शब्दा]न्नुदमानाः क्षिपमाणा वेदैकनिष्ठाः सुवीराः शोभनपुत्रशिष्यादिरूपा विदथे यज्ञेऽनुष्ठिते सति शुद्धान्तःकरणा भूत्वा बृहद्वदेम परब्रह्मतत्त्वं कथयामः। द्वितीयामृचमाह - त्वया॒ जुष्ट॑ ऋ॒षिर्भ॑वति देवि॒ त्वया॒ ब्रह्मा॑ऽऽग॒तश्री॑रुं॒तं त्वया॑।
१ घ.॥५७॥
[[862]]
परिशिष्टत्वेन संगृहीतः - [अनु ॰ ४२]
त्वया॒ जुष्ट॑श्चि॒त्रं वि॑न्दते वसु॒ सा नो॑ जुषस्व॒ द्रवि॑णो न मेधे, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप- निषद्येकचत्वारिंशोऽनुवाकः॥४१॥
हे देवि मेधे मेधाख्ये त्वया जुष्टः सेवितोऽनुगृहीत ऋषिरतीन्द्रियदर्शी भवति। तथा त्वया जुष्टः पुरुषो ब्रह्मा हिरण्यगर्भो भवति। उतापि च त्वया जुष्टः पुरुष आगतश्रीः प्राप्तसंपद्भवति। अत एव त्वया जुष्टः पुरुषश्चित्रं गवाश्वहिरण्यधान्यादिकं विविधं वसु धनं विन्दते लभते। हे मेधे देवि सा तादृशो त्वं नोऽस्मान्द्रविणो न द्रविणपतिरिव। द्रविणशब्देन तत्पतिर्लक्ष्यते। जुषस्व, सेवस्व अनुगृहाणेत्यर्थः। यथा धनपत्यनुगृहीतो दरिद्रः कृतार्थो भवति तद्वत्त्वायाऽनुगृहीतोऽहमिति भावः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यमुपनिषदि भाष्य एकचत्वारिंशोऽनुवाकः॥४१॥