अथ चत्वारिंशोऽनुवाकः।
तृतीयं त्रिसुपर्ण[मन्त्र]माह- ब्रह्म॑ मे॒धवा॑। मधु॑ मे॒धवा॑। ब्रह्म॑मे॒व मधु॑ मे॒धवा॑। ब्र॒ह्मा दे॒वानां॑ पद॒वीः क॑वी॒नामृषिर्विप्रा॑णां महि॒षो मृ॒गाणा॑म्। श्ये॒नो गृध्रा॑णा॒ ँ स्वधि॑ति॒र्वना॑ना॒ ँ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न्। ह॒ ँसः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धो- ता॑ वेदि॒षदति॑थिर्दुरोण॒सत्। नृ॒षद्व॑र॒सदृ॑त॒सद्ध्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत्, इति। मेधवा, मेधो यज्ञः सोऽस्यास्तीति *मेधवत्। यज्ञदानादिसाध्यविविदिषापूर्वकत्वा-
*मूले छान्दसेन डादेशेन तथा प्रयोग इत्याशयः।
१ घ. ५६।
[[860]]
परिशिष्टत्वेन संगृहीतः - [अनु ॰ ४०]
द्ब्रह्मज्ञानलाभस्य ब्रह्म मेधवदित्युच्यते। ब्रह्मा देवानां ह ँसः शुचिषदिति द्वे ऋचावणोरणीयानित्यस्मिन्ननुवाके व्याख्याते। किंच - ऋ॒चे त्वा॑ +रु॒चे त्वा॒ समित्स्र॑वन्ति स॒रितो॒ न धेनाः॑। अ॒न्त॒र्हृदा मन॑सा पू॒यमा॑नाः। घृ॒तस्य॒ धारा॑ अ॒भिचा॑कशीभि, इति। त्रयः सुपर्णाः पक्षिस्थानीया ब्रह्मविष्णुमहेश्वरा विश्वतैजसप्राज्ञा वा विराड्ढिरण्यगर्भेश्वरा वा यस्मादुत्पन्नाः स त्रिसुपर्णः सर्वदेवतासमीर्षि(स्वरूपी) परमात्मा तन्महिमप्रतिपादकत्वादयं ग्रन्थोऽपि त्रिसुपर्णशब्देनोपचर्यते। तथाचायमर्थः। हि भ[ग]- वन्नृते, ऋग्वेदरूपाय त्वा व्यत्ययेन तुभ्यमियं समिदग्नौ निक्षिप्यत इति शेषः। त्वा त्वामुद्दिश्य, ऋच आहुतिफलीभूतर्गुपलक्षितत्रयीप्रप्त्य-र्थमि[ती]यं व्याख्या। किंचाग्नौ मयाऽत्र हुता घृतस्य धारास्त्वां प्रति स्रवन्ति। का इव सरितो [न] नद्य इव। कथंभूता धाराः, धीयन्ते पीयन्ते देवैरिति धेनाः। “घेट्पाने।” पूयमानाः पवित्रायमाणाः। केन, मनसा। किंविधेन, अन्तर्हृदा त्द्दत्कोशवर्तिना। अन्तरङ्गपूर्वकं हुतत्वात्पवित्राः। अन्यथा त्वपवित्रा भवन्तीति भावः। किंचैवंविधा आज्यधारा अभिचाकशीमि समस्ताभ्यो देवताभ्यो दास्यामीति भावः। हि॒र॒ण्ययो॑ वेत॒सो मध्य॑ आसाम्। तस्मि॑न्त्सुप॒र्णो म॑धुकृत्कु॑ला॒यो भज॑न्नास्ते॒ मधु॑ दे॒वता॑भ्यः। तस्या॑ऽऽसते॒ हर॑यः स॒प्त तीरे॑ स्व॒धां दुहाना॑ अ॒मृत॑स्य॒ धारा॑म्, इति। हिरण्यय इति। आसां पूर्वोक्ताज्यधाराणां मध्ये मध्यभागे तस्मिन्नाहवनीये सुपर्णस्त्रिसुपर्ण आस्ते। किं कुर्वन्। सर्वाभ्यो देवताभ्यो मधु मधुरं हविर्भजन्विभजन्विभज्य ददानः सन्। कथंभूतस्त्रिसुपर्णः। हिरण्ययो ज्योतिर्मयः। वेतसो वर्णव्यत्ययेन वेदस्वान्बहुद्रव्यवान्। मधु मधुरं स्वर्गादिसुखं करोतीति मधुकृत्। सर्वप्राणिदेहनीडाश्रयत्वेन कुलायी।एवंविधस्य (तस्य) परमात्मनस्तीरे परितः प्रदेशेषु सप्त ऋषय आसते ।कथंभूताः। हरन्ति पापानि स्मरणमात्रेणेति हरयः। तथाऽमृतस्य धारां सुधाधारायमाणां स्वधां हव्यद्रव्यपरम्परां दुहानास्तत्तद्देवेभ्यः पूरयमाणाः। एवंविधर्षिमण्डलमध्यासीनो भगवानिति यावत्। *अस्मिंस्त्रिसुपर्णेऽवशिष्टपदव्याख्यानं पूर्ववत्।
+वैदिकपाठानुरोधी घ. ज. पुस्तकस्थोऽयं पाठः स्थापितः। छान्दसत्वादृकारस्य रुकारादेशः। अत्र ङ. छ. पुस्तकस्थमूले “ऋचे” इति पाठो विद्यते। * अस्मिन्नित्यादिकं पूर्ववदित्यन्तमधिकम्।
१ ङ. समर्षिः।
[[861]]
[अनु ॰४१] सभाष्यो दशमप्रपाठकः।
अस्य त्रिसुपर्णमन्त्रस्य महिमानं दर्शयति- य इ॒दं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात्। वी॒र॒ह॒त्यां वा ए॒ते घ्न॑न्ति। ये ब्रा॑ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति। ते सोमं॒ प्राप्नु॑वन्ति। आ॒ स॒ह॒स्रात्प॒ङ्क्तिं पुन॑न्ति। ओम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि चत्वारिंशोऽनुवाकः॥४०॥ वेदशास्त्रसंपन्नतदर्थानुष्ठानपरो ब्राह्मणोऽभिषिक्तो वा राजा वीरः। अन्यत्पूर्ववत्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये चत्वारिंशोऽनुवाकः॥४०॥