३९

अथैकोनचत्वारिंशोऽनुवाकः।

द्वितीयं त्रिसुपर्ण[मन्त्र]माह - ब्रह्म॑ मे॒धया॑। मधु॑ मे॒धया॑। ब्रह्म॑मे॒व मधु॑ मे॒धया॑। अ॒द्या नो॑ देव सवितः प्र॒चाव॑त्सावीः॒ सौभ॑गम्। परा॑ दु॒ष्ष्वप्नि॑- य ँ सुव। विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव। यद्भ॒द्रं तन्म॒ आसु॑व। मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति सिन्ध॑वः। माध्वीर्नः स॒न्त्वोष॑धीः। मधु॒ नक्त॑मु॒तोषसि॒ मधु॑प॒त्पार्थिव॒ ँ रजः॑। मधु॒ द्यौर॑स्तु नः पि॒ता। मधु॑मान्नो वन॒स्पति॒र्मधु॑मा ँ अस्तु॒ सूर्यः। माध्वी॒र्गावो॑ भवन्तु नः, इति।

यद्ब्रह्म सर्वजगत्कारणं सर्ववेदान्तवेद्यं तन्मेधया गुरूपदिष्टमहावाक्यतदर्थधारणशक्त्या लभ्यतामिति शेषः। मध्वित्यादि पूर्वपत्। हे सवितः प्रेरक देवाद्यास्मिन्दिने नोऽस्माकं विद्यार्थिनां प्रजावत्छिष्यप्रशिष्यादित्रयो(प्रजो)पेतं सौभगमाचार्यरूपं भाग्यं सावीः प्रेरय यच्छेत्यर्थः। [दुष्ष्वप्नियं] दुःस्वप्नियं दुःखप्न्यं दुष्टस्वप्नसदृशं द्वैतप्रतिभासं परासुव निराकुरु। अपि च हे सवितः प्रेरक देव दुरितानि ज्ञानप्रतिबन्धकानि पापानि विश्वानि परासुव निराकुरु। भद्रं कल्याणमसंभावनाविपरीतभावनारहितं तत्त्वज्ञानं यदस्ति तन्मे मह्यमुपासकायाऽऽसुव साकल्येन प्रयच्छ। [ऋतायते, ऋतं परं ब्रह्म तदिच्छते मह्मं] वाता वायवो मधु माधुर्योपलक्षितं सुखं यथा भवति तथा वान्त्विति शेषः। प्रबले तु वायौ रोगोत्पत्त्या तत्त्वज्ञानविघ्नः संपद्यतेऽतः स मा भूदिति वायोरानुकूल्यं प्रार्थ्यते। एवमुत्तरत्रापि तत्तदानुकूल्यं द्रष्टव्यम्। सिन्धवो नद्यो मधु क्षरन्ति मधुरमारोग्यकरमुदकं संपादयन्त्वित्यर्थः। ओषधीव्रीहियवादयोऽपि नोऽस्माकं माध्वीर्मधुराः पथ्यरूपाः सन्तु। नक्तं रात्रावुतापि चोषसि प्रभाते दिवसेऽपि विद्यार्थिनो मे मधु मधुरमनुकूलं सुखमस्तु। कालकृतो विघ्नो मा भूदित्यर्थः। पार्थिवं रजः पृथिव्यामधःस्थितं शयनादिस्थानगतं रजोऽपि मधुमन्माधुर्योपेतं कण्टकपाषाणादिराहित्येनानुकूलमस्तु। नोऽस्माकं पिता पितृसदृशी

[[859]]

[अनु ॰४०] सभाष्यो शमप्रपाठकः। द्यौरपि मध्वस्तु। अतिवृष्ट्यादिप्रातिकूल्यरहिताऽस्तु। “द्यौः पिता पृथिवी माता” इति मन्त्रान्तराद्दिवः पितृत्वम्। वनस्पतिरत्र(पि) चूतपनसादिर्नोऽस्मान्प्रति मधुमान्मधुरफलोपेतो जीवनहेतुरस्तु। सूर्योऽपि प्रभूतं संतापमकृत्वा मधुमान्माधुर्येणानुकूलप्रकाशनेन युक्तोऽस्तु। गावोऽपि नोऽस्मान्प्रति माध्वीर्जीवनहेतुमधुरक्षीरोपेता भवन्तु। अस्य त्रिसुपर्णमन्त्रस्य महिमानं दर्शयति - य इ॒मं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात्। भ्रू॒ण॒ह॒त्यां वा ए॒ते घ्न॑न्ति। ये ब्रा॑ह्म॒णास्त्रिसु॑- पर्णं॒ पठ॑न्ति। ते सोमं॒ प्राप्नु॑वन्ति। आ॒ सहस्रात्प॒ङ्क्तिं पुन॑न्ति। ओम्, इति॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्ये- कोनचत्वारिंशोऽनुवाकः॥३९॥ ब्राह्मणगर्भस्य राजगर्भस्य वा हननं भ्रूणहत्या। अन्यत्पूर्ववत्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययु- क्तायां याज्ञिक्यामुपनिषदि भाष्य एकोनचत्वारिंशोऽनुवाकः॥३९॥