३८

अथाष्ठात्रिंशोऽनुवाकः।


अथ ज्ञानप्रतिबन्धकब्रह्महत्यादिपापनिवृत्तिहेतवस्त्रिसुपर्णनामका मन्त्रा उच्यन्ते। तत्र प्रथममन्त्रमाह - ब्रह्म॑मेतु॒ माम्। मधु॑मेतु॒ माम्। ब्रह्म॑मे॒व मधु॑मेतुं॒ माम्। यास्ते॑ सोम प्र॒जा व॒त्सोऽभि॒ सो अ॒हम्। दुष्ष्व॑प्रह- न्दु॑रुष्षह। यास्ते॑ सोम प्राणा ँ स्ताञ्जु॑होमि, इति। ब्रह्म परं तत्त्वं मामेतु प्राप्नोतु। मधु परमानन्दमाधुर्योपेतं वस्तु मामेतु प्राप्नोतु। तदेव पुनः प्रार्थ्यते। मधुरं ब्रह्मैव मामेतु, न त्वन्यत्क्षुद्रदैवतादिकमिति भावः। हे सोमोमा ब्रह्मविद्या तया सह वर्तमान परमात्मंस्ते तव याः प्रजा देवमनुष्यादयः सन्ति ता अभिलक्ष्य स तादृशस्त्वत्सेवको वत्सो बालक एतासां त्वदीयप्रजानां मध्ये बालवदहं त्वदीयकरुणायोग्यः। अतो हे दुष्ष्वप्नहन्संसाररूपस्य दुःखप्रस्य घातक परमेश्वर दुरुष्षह दुःसहं भवं विनाशयेत्यर्थः। हे सोम परमात्मंस्ते त्वदीयाः [प्राणवृत्तयो याः सन्ति तान्वृत्तिप्राणांस्त्वयि जुहोमि प्रक्षिपामि। मदीयमनोवागादयः] प्राणास्त्वया निर्मितत्वात्त्वदीया अतस्त्वय्येवोपसंहरामि। विषयेभ्य इन्द्रियाणि निरुध्य त्वदेकचित्तो भवामीत्यर्थः।

उक्तस्य त्रिसुपर्णमन्त्रस्य माहात्म्यं ब्राह्मणरूपेण दर्शयति - त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात्। ब्र॒ह्म॒ह॒त्यां वा ए॒ते घ्न॑न्ति। ये ब्रा॑ह्म॒णास्त्रिसु॑पर्णे॒ प॑ठन्ति। ते सोमं॒ प्राप्नु॑वन्ति। आ॒ स॒ह॒स्रात्प॒ङ्किं पुन॑न्ति। ओम्, इति॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप- निषद्यष्टात्रिंशोऽनुवाकः॥ ३८॥

विद्यान्तराणि नापृष्टः कस्यचिद्ब्रूयादिति शास्त्रमनुसृत्य शिष्येण याच्ञायां कृतायां पश्चादुपदिशन्ति। इमं तु त्रिसुपर्णमन्त्रं शिष्ययाच्ञामन्तरेणैव ब्राह्मणायोपदिशेत्। तेनोपदेशेन ये ब्राह्मणास्त्रिसुपर्णं पठन्ति सर्वदा त्रिसुपर्णमन्त्रं जपन्त्येते पुरुषा ब्रह्महत्यां विनाशयन्ति। ते सोमं* प्राप्नुवन्ति। ये तस्यां(ते यस्यां) पङ्क्ता-


  • सोमयागफलम्।

१ घ. ५५।

[[858]]

परिशिष्टत्वेन संगृहीतः - [अनु॰ ३९] वश्नन्ति तां पङ्किं सहस्रपर्यन्तं पुनन्ति शुद्धां कुर्वन्ति। तस्मादों प्रणवप्रतिपाद्यः परमात्मैव त्रिसुपर्णमन्त्रस्य देवतेत्यर्थः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्येऽष्टात्रिंशोऽनुवाकः॥३८॥