अथ सप्तत्रिंशोऽनुवाकः।
पूर्वोक्तोपासनास्वसमर्थस्याऽऽदित्यदेवताविषयं जप्यं मन्त्रमाह - घृणिः॒ सूर्य॑ आदि॒त्यो न प्रभां वा॒त्यक्ष॑रम्। मधु॑ क्षरन्ति॒ तद्र॑सम्। स॒त्यं वै तद्रस॒मापो॒ ज्योती॒ रसो॒ऽमृतं ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोनिषदि सप्तत्रिंशोऽनुवाकः॥३७॥
भगवानदित्यो वाति वैहायसेन मार्गणाहर्दिवं गच्छति लोकानुपकर्तुम्। किंविधः। जगत्प्रसवहेतुत्वात्सूर्यः। दीप्तिमत्त्वाद्घृणिः। क्षरणराहित्येन नित्यत्वादक्षरमक्षरः। केव, प्रभा न। नकार उपमार्थः। आदित्यसंबन्धिनी प्रभेव। आदित्यस्योपमानान्तराभावात्। स्वप्रभा गोलकीभूता व्योममार्गेण गच्छति चेद्यथा प्रभा वान(तथाऽ) यमित्यभूतार्थमुपमानम्। अपिच तद्रसं तस्मात्पूर्वोक्तादादित्याज्जन्यं रसमुदकं मधु मधुरं यथा तथा क्षरन्ति नद्यो वहन्ति। आदित्यलब्धवृष्ट्युदकमेव नद्यो वहन्ति, अन्यथा भूमावुदकाभाव इति भावः। उत्तरार्धेनाऽऽदित्यब्रह्मणः सर्वात्मकत्वमुच्यते। तदादित्यलक्षणं ब्रह्म सत्यं यथार्थभाषणम्। रसं मधुरादिरसज्ञातम्। आपः सिन्धुनद्यादिगतमुदकम्। ज्योतिश्चन्द्राग्न्यादि। रसः पदार्थमात्रसारः। अमृतं सुधा। ब्रह्म त्रयोविद्या। भूर्भुवः सुवस्त्रयो लोकाः। ओमोंकारः। एतत्सर्वमादित्य एवेति मनसा विभावयेदिति भावः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये सप्तत्रिंशोऽनुवाकः॥६७॥
१ घ. ५४।
[[857]]
[अनु ॰३८] सभाष्यो दशमप्रपाठकः। ८५७