अथ षट्त्रिंशोऽनुवाकः।
जपादूर्ध्वं गायत्रीविसर्जनमन्त्रमाह - उ॒त्तमे॑ शिख॑रे जा॒ते॒ भू॒म्यां प॑र्वत॒मूर्ध॑नि। ब्रा॒ह्मणे॑भ्योऽभ्य॑नुज्ञा॒ता॒ ग॒च्छ दे॑वि य॒थासु॑खम्, इति। भूम्यामवस्थितो यः पर्वतो मेरुनामकस्तस्य मूर्धन्युपरिभागे यदुत्तमं शिखरमस्ति* तस्मिंस्तथाविधा गायत्री देवता तिष्ठति तस्मात्कारणाद्देवि ब्राह्मणेभ्यस्त्व[दुपासकेभ्यस्त्व]दनुग्रहेण परितुष्टेभ्योऽनुज्ञानमभिव्याप्य यथासुखं स्वकीयं सुखमनतिक्रम्य स्वस्थाने तस्मिन्नुत्तमे शिखरे गच्छ। स्तुतो मया वरदा वेद॑मा॒ता॒ प्रचोदयन्ती पवने॑ द्विजा॒ता। आयुः पृथिव्यां द्रविणं ब्र॑ह्मव॒र्च॒सं॒ मह्मं दत्त्वा प्रजातुं ब्र॑हलो॒कम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि षट्त्रिंशोऽनुवाकः॥३६॥ स्तुत इति। पूर्वस्मिन्मन्त्रेऽपरोक्षतयोक्तोऽर्थोऽस्मिन्मन्त्रे परोक्षतया स्पष्टः क्रियते। अत्रेदं वैदिकं रहस्यम्। ब्रह्मलोक आदित्यमण्डलं चोभयमपि गायत्र्या अवस्थानं विकल्पेनान्यतरदिति केचिदाचक्षते। पु(अ)त एवास्माभिः पूर्वस्मिन्मन्त्रेणानु (न्त्रेऽनु)क्तमप्यादित्यमण्डलं गायत्रीनिवासत्वेन मत्वाऽ*ध्याहृत्य व्याख्यातम्। एतस्मिंस्तु मन्त्रैः(न्त्रे) [श्रुतिः] स्वयमेव भगवत्या गायत्र्या वसतित्वेन ब्रह्मलोकं ब्रवीति। तथाचेत्थं व्याख्या तत्र भवति। भगवती गायत्री ब्रह्मलोकं ब्रह्मणो भारतीपतेर्लोकं प्रयात्विति वाक्यपरिशेषः। कीदृशं ब्रह्मलोकम्। अतलादिभ्योऽधस्तनेभ्यो भूरादिभ्य ऊर्ध्वतनेभ्यः समस्तेभ्यो लोकेभ्यः प्रकृष्टत्वेन जातः परमात्मनः सकाशादुत्पन्न इति प्रजातस्तम्। प्रजातमिति वक्तव्ये प्रजातुमिति प्रयोगश्छान्दसः। किं कृत्वा, दत्त्वा। किम्, आयुः शताब्दात्मकमुपजीवनम्। पुनर्द्रविणं सुवर्णमणिमुक्तादि। पुनर्ब्रह्मवर्चसं स्वाध्यायाध्ययनतदर्थविचारतदर्थानुष्ठापनै(ष्ठानै)र्जनितं मुखतेजः। यद् दृष्ट्वा लोका आचक्षते देदीप्यमानोऽयं साक्षाज्ज्वलन्निव पावक इति। कस्मै मह्यम्। कथंभूताय पृथिव्यां विद्यमानाय। कथंभूता गायत्री। द्विजाता द्विजातिभिस्त्रैवर्णिकैरुपास्यमाना। यद्वा द्वयोः सूर्यमण्डलब्रह्मलोकयोर्जाता प्रादुर्भूता। “जनो प्रादुर्भावे” अस्मान्निष्ठाप्रत्ययः।
- जातपदस्य फलितव्याख्यानमस्तीत्येतत्। +पूर्वत्र त्वेवं न दृश्यते। एतदनुरोधेन तत्तत्र यावदपेक्षितं कल्पनीयम्।
१ घ. ५३।
[[856]]
परिशिष्टत्वेन संगृहीतः - [अनु ॰३७]
पुनः कथंभूता। प्रचोदयन्ती, अन्तर्यामिरूपेण प्राणिमात्रं प्रेरयित्री। पवने व्यत्ययेन पवनः। अत्र लुप्तोपमोपादानम्। यथा प्राणवायुश्चतुर्विधं प्राणिज्ञातं प्रेरयतीतस्ततो गमनागमनादिकं कारयति तथेति। तथा वेदमाता चतुर्णां वेदानां जननी। वरान्स्वोपासकेभ्यो वाञ्छितार्थान्ददातीति वरदा। कथंभूता सती, मयोपासकेन स्तुतो बहुलग्रहणाद्व्यत्ययेन स्तुता सतीत्यर्थः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये षट्त्रिंशोऽनुवाकः॥ ३६॥