३५

अथ पञ्चत्रिंशोऽनुवाकः।


गायत्र्या आवाहनमन्त्रमाह - ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ भ्राजो॑ऽसि दे॒वानां धाम॒नामा॑ऽसि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वा- युरभिभूरो॑ गायत्रीमावा॑हया॒मि॒ सावित्रीमावा॑ह- या॒मि॒ सरस्वतीमावा॑हया॒मि॒ छन्दर्षीनावा॑हया॒मि॒ श्रियमावा॑हया॒मि॒ गायत्रिया गायत्री च्छन्दो विश्वामित्र ऋषिः सविता देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्हृदय ँ रुद्रः शिखा पृथिवी योनिः प्राणा- पानव्यानोदानसमाना सप्राणा श्वेतवर्णा सांख्या- यनसगोत्रा गायत्री चतुर्वि ँ शत्यक्षरा त्रिपदा॑ षटकु॒क्षिः पञ्चशीर्षोपनयने वि॑नियोगः, - इति।

हे गायत्रि त्वमोजोऽसि बलहेतुभूताष्टमधातुरूपाऽसि। सहोऽसि शत्रूनभिभवितुं शक्तिरसि। बलमसि शरीरगतव्यवहारसामर्थ्यरूपाऽसि। भ्राजोऽसि दीप्तिरूपाऽसि। देवानामग्नीन्द्रादीनां धाम तेजो यदस्ति तन्नामाऽसि तदेव त्वन्नामेत्यर्थः। देवानां[धा]मासीत्यर्थः। विश्वं सर्वजगद्रूपं त्वमेवासि। विश्वायुः संपूर्णायुःस्वरूपाऽसि। उक्तस्यैव व्याख्यानं सर्वमसि सर्वायुरिति। अभिभूः सर्वस्य पापस्य तिरस्कारहेतुः। ॐ प्रणवप्रतिपाद्यपरमात्माऽसि। तादृशीं गायत्रीं मदीये मनस्येवाऽऽवाहयामि। *अन्यत्स्पष्टम्।


*सावित्रीमावाहयामीत्यवशिष्टग्रन्थार्थो दत्तात्रेयदिगम्बरानुचरविरचितनारायणोपनिषत्प्रकाशात्संगृह्यते - “सावित्रीं सवितुर्ब्रह्म साक्षात्कारयितुर्ज्ञानप्रकाशकस्य परमात्मन इमामावाहयामि सरस्वतीं ब्रह्मजलधारणप्रश्चोतनाभ्यां वेदाः सरांसि तन्मयत्वात्तद्वतीं सरस्वतीं चतुर्विशत्यक्षरमन्त्ररूपामावाहयामि। तदङ्गानि च्छन्दर्षीन्गायत्र्याः सर्वमन्त्रमयत्वेन सर्वाणि च्छन्दांसि सर्वोश्चषींन्देवताश्च सर्वा आवाहयामि। श्रियं गायत्री सर्ववेदमयि तस्मात्सर्ववेदानां श्रियमावाहयामि। इत्येकगायत्र्यावाहनेनाऽऽत्मनि सर्वमावाहयामीति संकल्पं कृत्वा तामावाह्य तच्छन्दआदि स्मृत्वा ध्यानमाचरेत्। तत्र मन्त्रः - गायत्रिया गायत्री च्छन्दो विश्वामित्र ऋषिः सविता देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्हृदय ँ रुद्रःशिखा पृथिवी योनिः प्राणापानव्यानोदानसमाना सप्राणा श्वेतवर्णा सांख्यायनसगोत्रा गायत्री चतुविँशत्यक्षरा त्रिपदा षट्कुक्षिः पञ्चशीर्षोपनयने विनियोगः। इति। गायत्र्या गायत्री छदः। विश्वामित्र ऋषिर्मन्त्रद्रष्टा। सविता सर्वे प्रसुवानः परमात्मा देवता तन्मन्त्रत्वात्। इति च्छन्दर्षिदेवतास्मरणम्। ध्यानम् - अग्निः प्रसिद्धो मुखं मुखस्थानीयो गायत्र्या इति संबध्यते। ब्रह्मा चतुर्मुखः शिरः शिरस्थानीयः प्रथमजत्वात्। विष्णुर्हृदयं हृदयं सर्वस्य(त्र) सूक्ष्मत्वेन स्थितिरतः स्थितेः कर्ता विष्णुर्हृदयम्। रुद्रः शिखा सर्वावयवातीता तथा रुद्रः प्रलयकरणादतः शिखास्थानीयः।”

[[854]]

परिशिष्टत्वेन संगृहीतः - [अनु ॰३५]

गायत्र्यावाहनादूर्ध्वं प्राणायामार्थं मन्त्रमाह - ओं भूः। ओं भुवः। ओ ँ सुवः। ओं महः। ओं जनःय ॐ तपः। ओ ँ स॒त्यम्। ओं तत्स॑वि॒तुर्वेरे॑ण्यं॒ भर्गो दे॒वस्य॑ धीमहि। धियो॒ यो नः॑ प्रचो॒दया॑त्। ओमापो॒ ज्योती॒ रसो॒ऽमृतं। ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्, इति॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि पञ्चत्रिंशोऽनुवाकः॥३५॥

भुरादि(दयः सत्यान्त(न्ता) लोकप्रतिपादिकाः सप्त व्याहृतयः। तेषां च लोकानां प्रणवप्रतिपाद्यह्मस्वरूपत्वविवक्षया प्रत्येकं प्रणवोञ्चारणम्। तत्सवितुरित्यादिको गायत्रीमन्त्रः। तत्प्रतिपाद्यस्य ब्रह्मत्वविवक्षया तदादौ प्रणवोच्चारणम्। मन्त्रस्य चायमर्थः। सवितुः प्रेरकस्यान्तर्यामिणो देवस्य वरेण्यं वरणीयं श्रेष्ठं तद्भर्गस्तेजो धीमहि ध्यायामः। यः सविता परमेश्वरो नोऽस्मदीया धियो बुद्धिवृत्तीः प्रचोदयात्प्रकर्षेण तत्त्वबोधे प्रेरयति तस्य तेजो ध्यायाम इति पूर्वत्रान्वयः। आपो ज्योतिरित्यादि गायत्र्याः शिरः, तस्याऽऽद्यन्तयोः प्रणवद्वयं पूर्ववदुच्चार्यते। या आपो नदीसमुद्रादिगताः सन्ति यच्च ज्योतिरादित्यादिकमस्ति योऽपि रसो मधुराम्लादिः षड़्विधोऽस्ति यदप्यमृतं देवैः पीतमस्ति तत्सर्वर्मो प्रणवप्रतिपाद्यं ब्रह्म। भूर्भुवः सुवरों पूर्ववद्व्याख्येयम्। अस्य मन्त्रस्य प्राणायामाङ्गत्वमृतनादोपनिषदि श्रूयते - “सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह। त्रिः पठेदायतप्राणः प्राणायामः स उच्यते” इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये पञ्चत्रिंशोऽनुवाकः॥३५॥


पृथिवी योनिर्योनिस्थानीया सर्वप्रसवहेतुत्वात्। प्राणापानव्यानोदानसमाना प्राणादयः पञ्च प्रवहादिवायुरूपाः सन्त्यस्यां सा तथोक्ता। सप्राणा सह प्राणैरिन्द्रियैर्दि(र्वा)गादिभिः सप्राणा। श्वेतवर्णा प्रथमं शुद्धगुणप्रधानत्वात्। सांख्यायनसगोत्रा संख्यां गुणसंख्यानमाहुस्ते सांख्याः। सांख्यैरीयते गम्यते प्राप्यते सर्वगुणनिरासात्स सांख्यायनः परमात्मा ब्रह्मसन्मात्रं सांख्यायनेन समानमेकं गोत्रं कुलमुद्भवोऽस्याः सांख्यायनसगोत्रा, इति। देवतारूपत्वेन ध्यानमुक्त्वा मन्त्ररूपत्वेन विवक्षुः पुनर्गायत्रीमुपादत्ते - गायत्री मन्त्ररूपा चतुर्विशत्यक्षरा चतुर्विशतिरक्षराण्यस्याः सा तथोक्ता। तेन त्रिपदा त्रयः पाता अस्याः सा त्रिपदा षट्कुक्षिः षड्वेदाङ्गानि कुक्षयोऽस्याः सर्ववेदरूपायाः सा षट्कुक्षिः। पञ्चशीर्षा चतुर्णो वेदानां चत्वार उपनिषद्भागा ज्ञानप्रतिपादिनः कर्मोपासनाकाण्डयोरुपरि स्थिताश्चत्वारि शीर्षाणि शिरांसि, तथेतिहासपुराणानि पञ्चमो वेदो ज्ञानप्रतिपादकत्वात्पञ्चमं शीर्षमस्याः सा पञ्चशीर्षा। इति ध्यात्वाऽनेन मन्त्रेण वटोरुपनयन उपनीतकरणे विनियोग इत्येवं स्मृत्वा पठित्वा च गायत्रीमन्त्रं जपेत्" इति॥


१ घ. ५२।

[[855]]

[अनु ॰३६] सभाष्यो दशमप्रपाठकः। ८५५