३४

अथ चतुस्त्रिंशोऽनुवाकः।


संध्यात्रय(ये) मार्जनादूर्ध्वं गायत्र्या आवाहनमन्त्रमाह- आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒ संमि॑तम्। गा॒यत्रीं॑ छन्द॑सां मा॒तेदं ब्र॑ह्म जु॒षस्व॑ मे। यददह्ना॑त्कुरु॑ते पा॒पं॒ तद- ह्ना॑त्प्रति॒मुच्य॑ते। यद्रात्रिया॑त्कुरु॑ते पा॒पं॒ तद्रात्रिया॑त्प्रति- मुच्य॑ते। सर्व॑व॒र्णे म॑हादे॒वि॒ संध्यावि॑द्ये स॒रस्व॑ति, इति॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनि- षदि चतुस्त्रिंशोऽनुवाकः॥३४॥ वरदाऽस्मदभीष्टवरप्रदा देवी गायत्रीछन्दोभिमानिनी देवताऽक्षरं विनाशरहितं संमितं सम्यग्वेदान्तप्रमाणेन निश्चितं ब्रह्म जगत्कारणं परं तत्त्वमुद्दिश्याऽऽयात्वागच्छतु। अस्माकं ब्रह्मतत्त्वं बोधयितुमागच्छत्वित्यर्थः। अयमेवार्थ उत्तरार्धेन स्पष्टीक्रियते। छन्दसां गायत्रीत्रिष्टुबादीनां वेदानां वा माता जननी देवता [गायत्रीं] गायत्री गायत्रीशब्दाभिधे (+येनोऽस्माभिर्ध्ये) या नोऽस्मानि(मे ममे)दं ब्रह्म वेदान्तप्रतिपाद्यं तत्त्वं जुषस्व जोषयतु। उपदिशत्वित्यर्थः। किंच हे संध्याविद्ये सायंप्रातःसंधौ भवा संध्या तादृशी या विद्याऽनुष्ठानरूपा तत्संबुद्धौ संध्याविद्ये सरस्वति त्वद्भक्तो यदह्नाद्यस्मिन्नहनि पापं कुरुते तदह्नात्तस्मिन्नहनि तेन पापेन प्रतिमुच्यते विमुच्यतां शुद्धो भूयादिति भावः। यद्रात्रियाद्यस्यां रात्रौ। अन्यत्समानम्। एते छान्दसाः प्रयोगाः॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये चतुस्त्रिंशोऽनुवाकः॥३४॥


  • धनुश्चिह्नान्तर्गतमधिकप्रयोजनम्।

१ छ. गायत्री। २ घ. ५१

[[853]]

[अनु॰३५] सभाष्यो दशमप्रपाठकः।