३३

अथ त्रयस्त्रिंशोऽनुवाकः।


प्राणायामादिषु सर्वत्राऽऽवश्यकस्योंकारस्य प्रसङ्गादृष्यादिकमुच्यते - ओमित्येकाक्ष॑रं ब्र॒ह्मा। अग्निर्देवता ब्रह्म॑ इत्या॒र्षम्। गायत्रं छन्दं परमात्मं॑ सरू॒- पम्। सायुज्यं वि॑नियो॒गम्, इति॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनि- षदि त्रयस्त्रिंशोऽनुवाकः॥३३॥ ओमिति यदेकाक्षरमस्ति तद्ब्रह्म समस्तब्रह्माण्डोत्पत्तिस्थितिभङ्गकारणम्। तस्य देवता वाच्यभूतं वस्त्वग्निः। अग्निशब्दोऽत्र रूढ्या देवताविशेषवाचको न भवति, अपि तु योगेन पमात्मवाचकः। अङ्गति सर्वं जगद्व्याप्नोतीत्यग्निः। अग्निशब्दोपलक्षितं ब्रह्मेति यत्तदार्षमृषिः। मन्त्रोऽपि ब्रह्म, ऋषिरपि ब्रह्म, देवताऽपि ब्रह्म, सर्वं स्वयमेवेत्यर्थः। गायत्रं दैवी गायत्री छन्दः। विनियोगं विनियोगः। सायुज्यं


१ घ. ४९। २ घ. ५०।

[[852]]

परिशिष्टत्वेन संगृहीतः - [अनु ॰३४]

सायुज्ये परब्रह्मावाप्तौ। कथंविधे सायुज्ये, [परमात्मं] परमात्मलक्षणे। तथा सरूपं सरूपे सर्वजगत्समानरूपे। सर्वात्मक इति यावत्। सर्वत्र व्यत्ययो बोध्यः॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये त्रयस्त्रिंशोऽनुवाकः॥३३॥