अथ द्वार्त्रिंशोऽनुवाकः।
प्रातःसंध्याकाले जलपानार्थं मन्त्रमाह - सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृतै॒भ्यः। पापेभ्यो॑ रक्ष॒न्ताम्। यद्रात्रिया पाप॑मका॒र्षम्। मनसा वाचा॑ हस्ता॒भ्याम्। पद्भ्यामुदरे॑ण शि॒श्ना। रात्रि॒स्तद॑वलु॒म्पतु। यत्किंच॑ दुरि॒तं मयि॑। इदमहं माममृ॑तयोनौ। सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा, इति॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनि- षदि द्वात्रिंशोऽनुवाकः॥३२॥
सूर्येऽहर्निष्पादके सूर्योपाधिके। अन्यत्सर्वं पूर्ववद्ध्याख्येयम्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषादे भाष्ये द्वात्रिंशोऽनुवाकः॥३२॥