३१

अथैकत्रिंशोऽनुवाकः।


सायंसंध्याकाले जलपानार्थं मन्त्रमाह — अग्रिश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः। पापेभ्यो॑ रक्ष॒न्ताम्। यदह्ना पाप॑मका॒र्षम्। मनसा वाचा॑ हस्ता॒भ्याम्। पद्यामुदरे॑ण शि॒श्ना। अह॒स्त- द॑वलु॒म्पतु। यत्किंच दुरि॒तं मयि॑। इदमहं माम- मृ॑तयो॒नौ। सत्ये ज्योतिषि जुहोमि स्वा॒हा, इति॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि द्येकत्रिंशोऽनुवाकः॥३१॥ योऽयमग्निरस्ति यश्च मन्युः क्रोधाभिमानी देवो ये च मन्युपतयः क्रोधस्वामिनस्तन्नियामका देवाः सन्ति, ते सर्वेऽपि मन्युकृतेभ्यो मदीयकोपनिष्पादितेभ्यः पापेभ्यो [मा मां] रक्षन्तां पापिनं मां तत्पापविनाशनेन पालयन्तु। किंचातीतेनाह्ना तस्मिन्नहनि यत्पापमकार्षं कृतवानस्मि। केन साधनेन, मनआदिभिः शिश्नान्तावयवैः। तत्सर्वं पापमहरवलुम्पतु अहरभिमानी देवो विनाशयतु। परहिंसादिचिन्तनं मानसं पापम्। अप्रियानृतादिभाषणं वाचिकम्। अभिचारहोमादिकं हस्तकृतम् पादेन गोब्राह्मणस्पर्शादिकं पादकृतम्। अभोज्यभोजनमुदरकृतम्। अगम्यागमनं शिश्नकृतम्। अथवा किमनेन परिमितगणनेन, यत्किमपि दुरितं मयि निष्पन्नमिदं पापजातं सर्वं तत्कर्तारं मां च लिङ्गशरीररूपममृतयोनौ मरणहिते जगत्कारणे सत्ये बाधरहिते ज्योतिषि स्वयंप्रकाशे वस्तुनि जुहोमि प्रक्षिपाम्यहम्, अनेन होमेन तत्सर्वं भस्मी करोमि। तदर्थमभिमन्त्रितं जलं स्वाहा मदीयमुखाग्नौ स्वाहुतमस्तु॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्य एकत्रिंशोऽनुवाकः॥३१॥

[[851]]

[अनु ॰३२-३३] सभाष्यो दशमप्रपाठकः। ८५१