अथ त्रिंशोऽनुवाकः।
माध्याह्निकसंध्यानुष्ठानेऽभिमन्त्रितजलपानार्थं मन्त्रमाह — आपः॑ पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ माम्। पु॒नन्तु ब्रह्म॑ण॒स्पतिर्ब्रह्म॑ पू॒ता पु॑नातु॒ माम्॥ यदुच्छि॑ष्ट॒मभो॑ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम॑। सर्वं॑ पुनन्तु॒ मामापो॑ऽस॒तां च॑ प्रति॒ग्रहंँ स्वाहा॑, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि त्रिंशोऽनुवाकः॥३०॥ या आपस्ताः पृथिवीं पुनन्तु प्रक्षालनेन शोधयन्तु। सा च पृथिवी पूता शुद्धा सती मामनुष्ठातारं पुनातु शोधयतु। तथा ब्रह्मणो देवस्य पतिः पालकमाचार्यमेता आपः पुनन्तु। तेनाऽऽचार्येणोपदिष्टं ब्रह्म [वेद] स्वरूपं पूता स्वयं पूतं सन्मां पुनातु। अन्यभुक्तावशिष्टरूपमुच्छिष्टं यदस्ति तदभोज्यं भोक्तुमयोग्यं तादृशं कदाचिन्मया भुक्तम्। यद्वा दुश्चरितमन्यदपि प्रतिषिद्धाचरणरूपं मम किंचित्संपन्नं तत्संर्वं परि-
१ घ. ४७।
[[850]]
परिशिष्टत्वेन संगृहीतः– [अनु० ३१]
हृत्येति शेषः। ततो मामापः पुनन्तु। तथाऽसतां शूद्रादीनां प्रतिग्रहं च मया कृतं पुनन्तु। तदर्थमिदमभिमन्त्रितमुदकं स्वाहा मदीयवक्त्राग्नौ सुहुतमस्तु॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये त्रिंशोऽनुवाकः॥३०॥