२९

अथैकोनत्रिंशोऽनुवाकः।


वृष्ट्यभावकृतोपद्रवपरिहारेणोपकारिणमब्देवताकं मन्त्रमाह — आपो॒ वा इ॒दँ सर्वं विश्वा॑ भू॒तान्पापः॑ प्रा॒णा वा आपः॑ पशव आपोऽन्न॒मापोऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्छन्दा॒स्यापो॒ ज्योती॒ष्यापो॒ यजूँ॒ष्यापः॑ स॒त्यमापः॒ सर्वा दे॒वता॒ आपो॒ भूर्भवः॒ सु॒वराप॒ ओम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिपद्येकोनत्रिंशोऽनुवाकः॥२९॥


*महतेत्यस्य व्याख्यानभेतत्।

१ घ. ४५। २ घ. ४६।

[[849]]

[अनु० ३०] सभाष्यो दशमप्रपाठकः। ८४९ यदिदं जगदस्ति तत्सर्वमापो वै जलमेव। कथमिति प्रपञ्चते। विश्वा भूतानि सर्वाणि शरीराण्यापो जलम्। रेतोरूपेण तदुत्पादकत्वात्। प्राणा वै शरीरवर्तिवायवोऽप्यापः। उदकेन प्राणानामाप्यायनात्। अत एव च्छन्दोगा आमनन्ति-“आपोमयः प्राणा न पिबतो विच्छेत्स्यते” इति। पशवो गवादयोऽप्यापः क्षीररूपेण तत्र परिणत्वात्। अन्नं व्रीहियवादिकमापः। जलस्यान्नहेतुत्वं प्रसिद्धम्। अमृतमापः। सम्यग्राजत इति सूत्रात्मा हिरण्यगर्भः सम्राट्। विस्पष्टं राजत इति ब्रह्माण्डदेहः पुरुषो विराट्। इन्द्रियादिनैरपेक्ष्येण स्वयमेव राजत इत्यव्याकृताभिमानीश्वरः स्वराट्। छन्दांसि गायत्र्यादीनि। ज्योतींष्यादित्यादीनि। यजूंष्यनिययताक्षरा मन्त्राः। सत्यं यथार्थकथनम्। सर्वा देवता इन्द्रादयः। भूर्भुवः सुवस्त्रयो लोकाः। सम्राडादिलोकत्रयान्तार्थरूपेणाऽऽपः स्तूयन्ते। एताश्चाऽऽपो मूलकारणपरमात्मरूपेण प्रणवप्रतिपाद्या इति वक्तुमोंकारः पठितः॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्य एकोनत्रिंशोऽनुवाकः॥२९॥