२८

अथाष्टाविंशोऽनुवाकः।


जीवनहेतुक्षेत्रलाभादिद्वारा मुक्तिहेतुं पृथिवीदेवताकं मन्त्रमाह — अदितिर्दे॒वा ग॑न्ध॒र्वा म॑नु॒ष्याः॑ पि॒तरोऽसु॑रा॒स्तेषाँ सर्वभू॒तानां मा॒ता मे॒दिनी॑ मह॒ता म॒ही सा॑वि॒त्री

[[848]]

परिशिष्टत्वेन संगृहीतः– [अनु० २९] गा॑य॒त्री जग॑त्यु॒र्वी पृ॒थ्वी ब॑हु॒ला विश्वा॑ भू॒ता क॑त- मा काया सा स॒त्येत्य॒मृतेति॑ वसि॒ष्ठः, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिपद्यष्टाविंशोऽनुवाकः॥२८॥ अदितिशब्दोऽखण्डितेति व्युत्पत्त्या भूमिमाचष्टे। अत एव निघण्टुकारेण पृथिवीनामसु पठितः। देवादयः पञ्च जातिविशेषा अदितिरूपाः। एते तु सर्वप्राणिदेहानामुपलक्षकाः। अतस्तेषां सर्वभूतानां देहोपादानत्वादियमदितिर्माता जननी। मेदिनी मधुकैटभमेदसा जाता। अथवा मेदस्विनी कठिनेत्यर्थः। *महती गुणाधिका धैर्ययुक्ता वा। तञ्च सर्वप्राणिकृतोपद्रवसहिष्णुत्वेनावगन्तव्यम्। मही पूज्या। सावित्री सवितुः प्रेरकस्यान्तर्यामिणः संबन्धिनी। गायत्री गायकान्स्वोपासकांस्त्रायते रक्षतीत्यर्थः। जगती जगदाश्रयभूता। उर्व्यनेकसस्याढ्या। पृथ्वी, अनेकविस्तारवती । बहुला निबिडावयवा। विश्वा सर्वात्मिका। [भूता] प्राणिदेहोत्पत्तेः पूर्वमेव विद्यमाना। कामताऽतिशयेन सुखरूपा। काया सर्वप्राणिदेहरूपेण परिणता। सा प्रसिद्धा। सत्या व्यवहारदशायां बाधरहिता। इत्येवं वसिष्ठो महामुनिराह। तथैवामृता मरणरहिता चतुर्युगपर्यावर्तनेऽप्यवस्थितेवमप्यर्थं वसिष्ठ एवाऽऽह। अतोऽस्य मन्त्रस्य वसिष्ठ ऋषिरित्यर्थः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्येऽष्टाविंशोऽनुवाकः॥२८॥