अथ सप्तविंशोऽनुवाकः।
चित्तशुद्धिहेतूनां कर्मणां संग्रहेणोपयोगमस्मिन्मोक्षप्रकरणे सूचयित्वा प्रतिबन्धनिवारकात्रक्षोन्धान्मन्त्राञ्जप्यत्वेनाभिधत्ते — कृ॒णु॒ष्व पाज॒ इति॒ पञ्च॑, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि सप्तविंशोऽनुवाकः॥२७॥ यस्य वैकङ्कत्यग्निहोत्रहवणीत्यनुवाकान्ते कृणुष्व पाज इति पञ्चेति प्रतीकत्वेन पठिताः संहितायां प्रथमकाण्डे द्वितीयपाठके पठिताः पञ्चर्चो [जपितव्या इति शेषः। ताश्च] व्याख्यास्यामः। कृणुष्व पाज इति पञ्चानुष्टुप्छन्दस्का वामदेवदृष्टा अग्निदेवताकाः। अस्मिन्नृक्पञ्चके भगवानग्निरभिष्टूयते। कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ इभे॑न। तृ॒प्वीमनु प्रसि॑तिं द्रूणा॒नोऽस्ता॑ऽसि विध्य॑ रक्षसस्तपि॑ष्ठैः॥ कृणुष्वेति। हेऽग्नेऽस्मदीयकामक्रोधादिशत्रुसंहारार्थं पाजो बलमस्मभ्यं कृणुष्व कुरुष्व। तत्र दृष्टान्तः। पृथ्वीं विस्तीर्णां प्रसितिं न प्रसितिमिव जालमिव। नकार उपमार्थः। सीयन्ते बध्यन्ते पक्षिणो यय प्रकर्षेण सा प्रसितिर्जालम्। “षिञ्बन्धने” इति धातुः। यथा पक्षिभक्षका निषादास्तद्बन्धनार्थं जालं विस्तिर्णं प्रसारयन्ति तथा भो भगवन्नग्ने १ घ. ४३। २ घ. ४४।
[[846]]
परिशिष्टत्वेन संगृहीतः– [अनु० २७] बलं प्रसारयेत्यर्थः। ततो राजेव नृप इवामवान्सहायवान्सन्निभेन गजेन तदुपलक्षितचतुरङ्गबलेन शत्रून्प्रति याहि गच्छ। अमन्ति भजन्ति स्वामिनमित्यमाः सेवकाः, तद्वानमवान्। यथा राजा चतुरङ्गबलसहितः सञ्शत्रून्संहर्तुं गच्छति तथा त्वमपि भो भगवन्नग्रेऽस्मदीयशत्रून्संहर्तुं गच्छेत्यर्थः। त्वं कथंभूतः। तृष्वीं प्रसितिमनु द्रुणानः। अत्र विभक्तिव्यत्ययः। तृष्व्या शीघ्रं संहारसाधनया प्रसित्या शत्रूननु पलायनकाले पश्चाद्द्रूणानो हिंसयन्। “द्रु हिंसायाम्” इति धातुः। अस्ता। “असु क्षेपे” इति धातुः। बाणानां प्रक्षेपकोऽसि। यस्मादेवं तस्माद्रक्षसो दैतेयांस्तपिष्ठैरतिसंतापहेतुभिरायुधैर्विध्य ताडय। अस्मिन्मन्त्रे बाह्माभ्यन्तरशत्रुनिवृत्तिरग्निप्रार्थनायाः फलम्। तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑स्पृश धृष॒ता शोशु॑चानः। तपूँ॑ श्यग्ने जु॒ह्वा॑ पत॒ङ्गा न सं॑दितो॒ विसृ॑ज॒ विष्व॑गु॒ल्काः॥ तवेति। भो भगवन्नग्ने भ्रमासः सर्वत्र प्राणिनः पीडयितुं भ्रमणशीला आशुयाऽहोरात्रयोः शीघ्रं यान्तीतस्ततः संचरन्तित्याशुया। जसो लोपश्छान्दसः। एवंविधा ये पिशाचाः पतन्ति। “पत्लृ गतौ”। इतस्ततो गच्छन्ति। तान्पतङ्गान्पतनशीलान्पिशाचांस्तपूंषि प्रपञ्चतपनशीलानि रक्षांसि च धृषता प्रगल्भेन। “ञिधृषा प्रागल्भे” इति धातुः। तव तेजसेति शेषः। अनुस्पृश दहेत्यर्थः। त्वं कथंभूतः। शोशुचानोऽन्तर्बहिःशत्रूनतिदुःखयन्। यद्वा शोशुचानो देदीप्यमानः। “शुच दीप्तौ” इति धातुः। पुनः कथंभूतः। जुह्वा स्त्रुचा हूयमानधृतपुरोडाशादिरूपहविष्या(ष्मा)निति शेषः। पुनः कथंभूतः। “दो अवखण्डने”। राक्षसैः सभ्यङ्न दितः खण्डितोऽसंदितः। एवंविधस्त्वं शत्रूणां बाह्यानामान्तराणां च विष्वगुपर्यधस्तिर्यक्सर्वत उल्का अलातज्वाला विसृज प्रसारयेत्यर्थः। प्रति स्पशो विसृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धः। यो नो दूरे अघशसो यो अन्त्यग्ने मा किष्टे व्यथिरादघर्षिते॥ प्रतीति। भो भगवन्नग्ने तूर्णितमोऽतिक्षिप्रतमस्त्वं स्पर्शः। “स्पश बाधने” शकारान्तो द्वितीयाबहुवचनम्। बाधकाञ्शत्रून्प्रति विसृज पाशैर्बद्ध्वा नयेत्यर्थः। किंचास्या अस्मदीयाया विशः पुत्रादिप्रजायाः पायुः पाति रक्षतीति पायु रक्षको भव। किंच नोऽस्माकं दूरेऽन्त्यन्तिके च योऽघशंसोऽघं पापं शंयतीच्छतीत्यघशंसः। “शसि” इच्छायाम्। तमपि पराकुर्विति शेषः। अहमप्यदब्धः शत्रुभिरनुपहिंसितो भवामि। “दम्भु हिंसायाम्”। किं च किः कोऽपि छान्दसोऽयं प्रयोगः। व्यथिर्व्यथको राक्षसस्ते तव पुरस्तान्माऽऽदधर्षीन्माऽऽधृष्टोऽभूदित्यर्थः। अग्निदर्शनस्य राक्षसपिशाचादिपलायनहेतुत्वात्। तथा च नीतिशास्त्रम् —
[[847]]
[अनु० २८] सभाष्यो दशमप्रपाठकः। “दिवा सूर्यप्रतापेन रात्रौ वह्निप्रतापतः। पिशाचराक्षसादीनां दूरतस्तु पलायनम्॥ तस्माद्रात्रौ मनुष्याणां वने मार्गे गृहेऽपि वा। वह्निसेवनमाहात्म्यात्पिशाचादिपलायनम्” इति॥ उद॑ग्ने तिष्ठ॒ प्रत्यात॑नुष्व॒ न्य॑मित्रा॑ ओषतात्तिग्महेते। यो नो॒ अरा॑तिँ समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑म्॥ उदिति। भो भगवन्नग्नेऽस्माननुग्रहीतुमुत्तिष्ठ। अस्मान्प्रति दयामातनुष्व। अमित्रान्कामादीन्नितरामोषताद्भस्मी कुरु। “उप दाहे”। किं च भोस्तिग्महेते भोस्तीक्ष्णायुध नोऽस्माकमुपरि यः कश्चिदरातित्वं चक्रे कृतवांस्तमस्मद्रोहिणं शुष्कमतसं न कक्षवृक्षादिमिव धक्षि दग्धं कुरु। नीचा नाचैरधो नरकमार्गे च कुरु। भोः समिधान देदीप्यमान वह्ने। “ञिइन्धि दीप्तौ”। सर्वमेतदस्मदीयं कार्यं साधयेत्यर्थः। ऊ॒र्ध्वो भ॑व प्रतिवि॒ध्याध्य॒स्मदाविष्कृ॑णुष्व॒ दैव्या॑न्यग्ने। अव॑ स्थि॒रा त॑नुहि यातु॒जूनां जा॒मिमजा॑मिं प्रभृ॑णीहि॒ शत्रू॑न्॥ ऊर्ध्व इति। भो भगवन्नग्नेऽस्मद्विभक्तिव्यत्ययः। अस्माकं कामादीन्ऱिपूनध्यधिकं प्रतिविध्य ताडय। अत एव दैव्यानि देवतासंबन्धीनि सत्कर्माणि सदुपासनानि चाऽऽविष्कृणुष्व प्रकटय। अत एवोर्ध्वः सत्यलोकप्रभृत्यूर्ध्वलोकप्रदो भव। किंच यातुधानानां पुण्यलोकविरोधिनां रक्षसां स्थिराणि धनूंष्यवतनुहि, अवतीर्णमौर्वीकाणि कुरु। किंच जामिमालस्यादिकं परित्यज्य प्रमृणीहि विनाशय। किंचाजामिमनालस्यं यथा भवति तथा जगत्संहर्तुमुद्युक्ताञ्शत्रून्प्रमृणीहि। “भू हिंसायाम्”। जामिताऽऽलस्यपीडीदावित्यभिधानात्। पञ्चानामृचामयमभिप्रायः। भो भगवन्नग्ने त्रैलोक्यनायकास्मदीयान्तर्बहिःशत्रून्निमूल्य सत्कर्मसु प्रवर्त्यान्तःकरणं विमलीकृत्य शतं संवत्सरान्भार्यापुत्रादिभिः सह भुक्तिं दत्वा मरणादूर्ध्वं सकुटुम्बाय मह्यं मुक्तिं प्रयच्छेति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये सप्तविंशोऽनुवाकः॥२७॥