२६

अथ षड्विंशोऽनुवाकः।


अथग्निहोत्रकर्मणि होमसाधनद्रव्यस्य कारणभूतं वृक्षविशेषं विधत्ते — यस्य॒ वैक॑ङ्कत्यग्निहोत्र॒हव॑णी भवति॒ प्रत्ये॒- १ घ. ४२।

[[845]]

[अनु० २६-२७] सभाष्यो दशमप्रपाठकः।

[अनु०२६-२७] सभाष्यो दशमप्रपाठकः। वास्याऽऽहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रति॑ष्ठित्यै, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि षड्विंशोऽनुवाकः॥२६॥ अग्निहोत्रे हविर्हूयते यया दर्व्या सेयमग्निहोत्रहवणी, सा च वैकङ्कती विकङ्कताख्येन वृक्षेण निष्पादिता यस्याग्निहोत्रिणो भवत्यस्याग्निहोत्रिण आहुतयस्तयाऽग्निहोत्रहवण्या प्रक्षिप्ताः सत्यः प्रतितिष्ठन्त्येव फलप्रदा भवन्त्येव। अथो अपि च प्रतिष्ठित्यै, अनुष्ठातुश्चित्तशुद्धिद्वारा तत्वज्ञानप्रतिष्ठार्थं संपद्यन्ते। मुमुक्षोश्चित्तशुद्धिद्वारा वेदोक्तानां कृत्स्नकर्मणां मोक्षसाधनत्वं द्योतयितुमुपलक्षणत्वेन कर्माङ्गभूतो विकङ्कतवृक्षो विहितः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिपदि भाष्ये षड्विंशोऽनुवाकः॥२६॥