२५

अथ पश्चविंशोऽनुवाकः।


कद्रु॒दाय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से। वो॒चेम॒ शत॑मँ ह्र॒दे॥ सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै रु॒द्राय॒ नमो॑ अस्तु, इति। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि पञ्चविंशोऽनुवाकः॥२५॥ कद्रुद्रायेति। “कत्थ प्रशंसायाम्” इति धातोरुत्पन्नः कच्छब्दः प्रशंसामाह। ततः कद्रुदः प्रशस्तो रुद्रस्तस्मै। प्रचेतसे प्रकृष्टज्ञानयुक्ताय। [मीढुष्टमाय] “मिह सेचने” इति धातुः। अभीष्टानां कामानामपिशयेन सेचकायं। स्तोतुः कामप्रदायेत्यर्थः। तव्यसे, अत्राऽऽदौ सकारस्य च्छान्दसो लोपः। स्तव्याय स्तोतुः योग्यायेत्यर्थः। हृदे हृदयवर्तित्वेन तद्रूपाय, शंतममतिशयेन सुखकरं स्तुतिरूपं वाक्यं वोचेम कथमेय। सर्वो हीति पूर्ववत्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि पञ्चविंशोऽनुवाकः॥२५॥