अथ चतुर्विशोऽनुवाकः।
रुद्रदेवताकं मन्त्रमाह — सर्वो॒ वै रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु। पुरु॑षो॒ वै रु॒द्रः सन्म॒हो नमो॒ नमः॑। विश्वं॑ भू॒तं भुव॑नं चि॒त्रं ब॑हु॒धा जा॒तं जाय॑मानं च॒ यत्। सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि चतुर्विंशोऽनुवाकः॥२४॥ यो रुद्रः पार्वतीपतिः पुराणेषु प्रसिद्धः स एव सर्वो जीवरूपेण सर्वशरीरेषु प्रविष्टत्वात्। तस्मै सर्वात्मकाय रुद्राय नमोऽस्तु। प्रकृतिपुरुषयोर्मध्ये जडात्मिकां
- इदं पदमधिकम्।
१ घ. ४०। २ घ. ४१।
[[844]]
परिशिष्टत्वेन संगृहीतः- [अनु० २५-२६]
प्रकृतिमपोह्य चिदात्मकः पुरुषो यो विद्यते स एव भक्तानुग्रहाय रुद्रमूर्तिरूपेणाभासते, तस्माद्य(द्व)तः सन्महः “सदेव सोम्येदमग्र आसीत्” इतिश्रुतिप्रतिपाद्यमबाध्यं सद्रूपं तेजः। तादृशाय रुद्राय पुनः पुनर्नमस्कारोऽस्तु। यज्जडं विश्वमस्ति यजगज्जातं भूतं चेतनं प्राणिजातमस्तीति चेतनाचेतनरूपेण विचित्रं यद्भुवनं जगत्, तत्रापि यज्जगज्जातं पूर्वमेवोत्पन्नं यच्चेदानीं जायमानं स सर्वोऽपि प्रपञ्च एष रुद्रो हि। तद्व्यतिरेकेण वास्तवस्य जगतो निरूपयितुमशक्यत्वात्। तादृशाय सर्वात्मकाय रुद्राय नमस्कारोऽस्तु॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये चतुर्विंशोऽनुवाकः॥२४॥