अथ त्रयोविंशोऽनुवाकः।
पूर्वोक्तप्रकारेणोपासीनस्य पुरुषस्योपास्यनमस्कारार्थमेकामृचमाह — ऋ॒तँ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम्। ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि त्रयोविंशोऽनुवाकः॥२३॥ यदेतत्परं ब्रह्म तत्सत्यमबाध्यम्। सत्यत्वं च द्विविधं व्यावहारिकं पारमार्थिकं च। हिरण्यगर्भरूपं व्यावहारिकं सत्यं तान्निकारणेन पारमार्थिकं सत्यं प्रतिपादयितुमृतं सत्यमिति विशेष्यते। अत्यन्तं सत्यमित्यर्थः। तादृशं ब्रह्म भक्तानुग्रहायोमामहेश्वरात्मकपुरुषरूपं भवति। तत्र दक्षिणे महेश्वरभागे कृष्णवर्ण उमाभागे वामे पिङ्गलवर्णः। स च योगेन स्वकीयं रेतो ब्रह्मरन्ध्रे धृत्वोर्ध्वरेता भवति। त्रिनेत्रत्वाद्विरूपाक्षः। तादृशं परमेश्वरमनुश्रुत्येति शेषः। विश्वरूपाय जगत्कारणत्वेन सर्वजगदात्मकाय *विरूपाक्षाय पुरुषायैष नमस्कारोऽस्तु॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये त्रयोविंशोऽनुवाकः॥२३॥