अथ द्वाविंशोऽनुवाकः।
पुनरपि तद्देवताकं मन्त्रान्तरमाह — नमो हिरण्यवाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यप- तयेऽम्बिकापतय उमापतये पशुपतये नमो॒ नमः, इति॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि द्वाविंशोऽनुवाकः॥२२॥ नमः शिवाय। कथंभूताय। पशूनामाब्रह्मस्तम्बपर्यन्तानां पतिर्नायकः पशुपतिस्तस्मै। “ब्रह्माद्याः स्तम्बपर्यन्ताः पशवः परिकीर्तिताः। तेषां हि नायको यस्माच्छिवः पशुपतिः स्मृतः॥” [इत्युक्तत्वात्] उमायाः पतिरुमापतिस्तस्मै। उमाशब्दः कविभिर्व्याख्यातः- “उ मेति मात्रा तपसे निषिद्धा पश्चादुमाख्यां सुमुखी जगाम” इति। अम्बिकायाः पार्वत्याः पतिरम्बिकापतिस्तस्मै। हिरण्योपलक्षितनवनिधिपालकत्वाद्धिरण्यपतिस्तस्मै। हिरण्यरूपाय तेजोमयाय। हिरण्यवदनवाप्या दुर्लभा वर्णा वेदाक्षराणि यस्मादुत्पद्यन्ते स हिरण्यवर्णः। यथा दरिद्राणां हिरण्यं दुर्लभं तद्वत्प्राणिनां गुरुकुले स्थित्वा वेदाक्षराणां दुर्लभत्वमिति भावः। हिरण्यबाहवे कनकायमानबाहूपलक्षितसर्वावयवाय नमः*॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये द्वाविंशोऽनुवाकः॥२२॥
- नमःशब्दद्वयं प्रत्येकं संबन्धद्योतनार्थमिति युक्तं पठितुम्।
१ घ. ३८। २ घ. ३९।
[[843]]
[अनु० २३-२४] सभाष्यो दशमप्रपाठकः।