अथैकविंशोऽनुवाकः।
ऊर्ध्ववक्त्रप्रतिपादकं मन्त्रमाह — ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्र-
*तत्सृष्ट्वा तदेवानुप्राविशदिति श्रुत्या सर्वान्तयीमित्वेन परमेश्वरस्य युक्तमेव सर्वरूपत्वम्।
१ घ. ३६। २ घ ३७।
[[842]]
परिशिष्टत्वेन संगृहीतः– [अनु० २२]
ह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्येक- विंशोऽनुवाकः॥२१॥ योऽयमूर्ध्ववक्त्रो देवः योऽयं सर्वविद्यानामीशानो नियामकः। तथा सर्वभूतानामखिलप्राणिनामीश्वरो नियामकः। ब्रह्माधिपतिर्वेदस्याधिकत्वेन पालकः। तथा ब्रह्मणो हिरण्यगर्भस्याधिपतिः। तादृशो यो ब्रह्मा प्रवृद्धः परमात्मा योऽयं मे ममानुग्रहाय शिवः शान्तोऽस्तु। सदाशिवोम्, स एव सदाशिव ओमहं भवामि। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिपदि भाष्य एकविंशोऽनुवाकः॥२१॥