अथ विंशोऽनुवाकः।
प्राग्वक्त्रप्रतिपादकं मन्त्रमाह — तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि। तन्नो॑ रुद्रः प्रचो॒दया॑त्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि विंशोऽनुवाकः॥२०॥ प्राग्वक्त्रदेवस्तत्पुरुषनामकः। द्वितीयार्थे चतुर्थी। तत्पुरुषं देवं विद्महे गुरुशास्त्रमुखाज्जानीमः ज्ञात्वा च महादेवाय तं महादेवं धीमहि ध्यायामि(म)। त[त्त]स्मात्कारणाद्रुद्रदेवो नोऽस्मान्प्रचोदयात्, ध्यानज्ञानार्थं प्रचोदयतु॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिपदि भाष्ये विंशोऽनुवाकः॥२०॥