अथैकोनर्विंशोऽनुवाकः।
दक्षिणवक्त्रप्रतिपादकं मन्त्रमाह — अ॒धोरे॑भ्योऽथ॒ घोरे॑भ्यो॒ घो॒रघोर॑तरेभ्यः।
- अत्र बलाय बलप्रमथनायेति पदद्वयं त्रुटितम्। तद्व्याख्यानं च “बलाय सकलशक्तिप्रभवत्वात्तद्रूपाय। बलप्रमथनाय स्वेच्छया सकलशक्त्युपसंहारकाय।” इत्यादि स्यात्।
१ घ. ३५।
[[841]]
[अनु० १९-२०] सभाष्यो दशमप्रपाठकः।
सर्वे॑भ्यः सर्व॒ शर्वे॑भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः , इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्येकोनविंशोऽनुवाकः ॥१९॥ अघोरनामको दक्षिणवक्त्ररूपो [यो] देवस्तस्य विग्रहा अघोराः सात्विकत्वेन शान्ताः सौम्याः। अन्ये तु घोरा राजसत्वेनोग्राः। अपरे तु तामसत्वेन घोरादपि [घोरा] घोरतराः। हे * सर्व परमेश्वर ते त्वदीयेभ्यः पूर्वोक्तेभ्यस्त्रिविधेभ्यः स(श)र्वेभ्यो [लयकाले शृणन्ति हिंसन्ति तेभ्यो] रुद्ररूपेभ्यः सर्वतः (सर्वेभ्यः) सर्वेषु देशेषु सर्वेषु च कालेषु नमोऽस्तु॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिपदि भाप्य एकोनविंशोऽनुवाकः॥१९॥