अथाष्टादशोऽनुवाकः।
उत्तरवक्त्रप्रतिपादकमन्त्रमाह — वा॒म॒दे॒वाय॒ नमो॑ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑वि- करणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नमः॒ सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ , इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषद्यष्टादशोऽनुवाकः॥१८॥ उत्तरवक्त्राय नमोऽस्तु। कथंभूताय। वामं सुन्दरं च तद्देवं दीप्यमानं चेति वामदेवं तस्मै। सर्वजगदुत्पत्तेः पूर्वभावित्वाज्ज्येष्ठाय। प्रशस्ततमत्वाच्छ्रेष्ठाय। प्रलये रोदनहेतुत्वाद्रुद्राय। अत एव सर्वप्राण्यायुःक्षयहेतुत्वात्कालाय। कं सुखं लाति स्वी करोतीति कलं विविधं जगत्क्रियते येनेति विकरणं चेति कलविकरणं तस्मै। रक्षसां बलं विकीर्यते हिंस्यते येन तद्बलविकरणं तस्मै। *सर्वाणि भूतानि दमयति शिक्षयतीति सर्वभूतदमनं तस्मै। मन्यते सर्वं जानातीति मनं सर्वज्ञमुत्कृष्टं मनमुन्मनं सर्वज्ञतमं मनं च तदुन्मनं च[मनोन्मनं] तस्मै॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि भाष्येऽष्टादशोऽनुवाकः ॥१८॥