अथ सप्तदशोऽनुवाकः।
अथत्रैवर्णिकानां शास्त्राधिकारिणां ज्ञानोत्पादनाय महादेवसंबन्धिषु पञ्च[सु] वक्त्रेषु मध्ये पश्चिमवक्त्रप्रतिपादकमन्त्रमाह — सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः। भवे भवे नातिभवे भवस्व माम्॥ भवोद्भवाय नमः, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके दशमप्रपाठके नारायणोपनिपदि सप्तदशोऽनुवाकः॥ १७॥ सद्योजातनामकं यत्पश्चिमवक्त्रं तद्रूपं परमेश्वरं प्रपद्यामि प्राप्नोमि। तादृशाय सद्योजाताय वै नमो*ऽस्तु। हे सद्योजात भवे भवे तत्तज्जन्मनिर्मितं मां न भवस्व *एतदग्रे “तद्रूपाय। शिवाय मङ्गलरूपाय। शिवलिङ्गाय कल्याणज्ञापकाय। “इति पठितुं युक्तम्। + नमःशब्दावृत्तिः प्रत्येकं संबन्धसूचनार्थेति युक्तं पठितुम्। * अत्र पुनः पुनर्नमोऽस्त्विति युक्तम्। १ घ. ३४।
[[840]]
परिशिष्टत्वेन संगृहीतः– [अनु० १८-१९]
न प्रेरयेत्यर्थः। किं तर्ह्यतिभवे जन्मातिलङ्घननिमित्तं भवस्व तत्वज्ञानाय प्रेरय। भवोद्भवाय संसारादुद्धर्त्रे सद्योजाताय नमोऽस्तु॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठक नारायणापनिषदि सप्तदशोऽनुवाकः॥१७॥