अथ षोडशोऽनुवाकः।
इतः परं नूतनशिवालयादिकं कृत्वा तत्र लिङ्गप्रतिष्ठापनावसरे प्रत्यहं पार्थिवलिङ्गप्रतिष्ठापनावसरे च विनियुक्ता जपमात्रेण पापक्षयार्थाश्च पार्वतीपतिनमस्कारार्था मन्त्रा उच्यने। “सर्वलिङ्गँ स्थापयति” इति च मन्त्रलिङ्गात्। [तत्पाठस्तु] — निध॑नपतये॒ नमः। निध॑नपतान्तिकाय॒ नमः। ऊर्ध्वाय॒ नमः। ऊर्ध्वलिङ्गाय॒ नमः। हिरण्याय॒ नमः। हिरण्यलिङ्गाय॒ नमः। सुवर्णाय॒ नमः। सुवर्णलिङ्गाय॒ नमः। दिव्याय नमः। दिव्य- लिङ्गाय॒ नमः। भवाय॒ नमः। भवलिङ्गाय॒ नमः। शर्वाय॒ नमः। शर्वलिङ्गाय॒ नमः। शिवाय॒ नमः। शिवलिङ्गाय नमः। ज्वलाय॒ नमः। ज्वललिङ्गाय॒ नमः। आत्माय॒ नमः। आत्मलिङ्गाय॒ नमः। परमाय॒ नमः। परमलिङ्गाय॒ नमः। एतत्सोमस्य॑ सूर्य॒स्य॒ सर्वलिङ्गँ॑ स्थाप॒य॒ति॒ पाणिमन्त्रं॑ पवि॒त्रम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि षोडशोऽनुवाकः॥१६॥ पार्वतीपतये नमोऽस्तु। कथंभूताय। नितरां बहूनि धनानि निधनानि तेषां पतिः कुबेररूपेण तस्मै। निधनानि पातीति निधनपः। भक्तेभ्यस्तनोति विस्तारयतीति तः। निधनपश्चासौ तश्चेति निधनपतः। भक्तानां समीपत्वादन्तिकः। स चासौ स चेति पुनः कर्मधारयः, तस्मै। ऊर्ध्वायोर्ध्वलोकेषु देवतारूपेण विद्यमानायेत्यर्थः। ऊर्ध्वलिङ्गायोर्ध्वलोकेष्वपि गीर्वाणैर्लिङ्गरूपेण स्थापयित्वा पूज्यमानायेत्यर्थः। हिरण्याय सर्वात्मकत्वात्कनकरूपाया। हिरण्यलिङ्गाय कनकनिर्मितलिङ्गाकाराय। शोभतो वर्णः कान्तिर्यस्य तत्सुवर्णं रजतं [तद्रूपाय]। हिरण्यस्योक्तत्वात्सुवर्णशब्दो रूढिमुत्सृज्य योगेन रजतं वदति। सुवर्णलिङ्गाय रजतनिर्मितलिङ्गाकाराय। दिव्याय द्युलोकसुखरूपाय। दिव्यलिङ्गायेन्द्रादिसंस्थापितद्युलोकस्थालिङ्गाकाराय। भवाय संसाररूपाय, भवत्युत्पद्यते ब्रह्माण्ड यस्मादिति वा भवस्तमै। भवलिङ्गाय भवशब्देन भवन्तः संसारिणो लक्ष्यन्ते, तैर्भूलोके पूज्यमानशिलामयादिलिङ्गकाराय। शृणाति प्रलये ब्रह्माण्डं हिनस्तीति शर्वस्तस्मै। शं महत्सुखं वाति गच्छति प्राप्नोतीति शर्वः,
१ ङ. रार्थ म। २ घ. ३३॥
[[839]]
[अनु० १७] सभाष्यो दशमप्रपाठकः। ८३९
शर्वरूपं च तल्लिङ्गं शिवलिङ्गपूजनस्य कल्याणकारित्वात्*। ज्वलाय ज्योतिमर्यत्वात्। ज्वललिङ्गाय भूलोके विद्यमानद्वादशज्योतिर्लिङ्गरूपाय। आत्माय निखिलजगदात्मकाय। लीनं सुरनरादिसर्वप्राणिगुहासु गोपितं ब्रह्म वेदान्तरूपेण गमयति विज्ञापयतीति लिङ्ग आत्मा सर्वजन्तुरूपश्चा (पः , स चा) सौ लिङ्गश्चेत्यात्मरूप(लिङ्ग)स्तस्मै। यस्मादुत्कृष्टो नास्ति स परमस्तस्मै। पाति जगदिति पः। रमते मोक्षसाम्राज्य इति रमः। स चासौ स चेति कर्मधारायः। लीनं विलीनमपि सर्वज्ञत्वाद्गच्छत्यवगच्छति जानातीति लिङ्गः। परमश्चासौ लिङ्गश्चेति परमलिङ्गस्तस्मै परमलिङ्गाय नमः +। एतत्। वचनविभक्तिव्यत्ययः। एतैः पूर्वोक्तैर्मन्त्रैः सर्वलिङ्ग रससुवर्णाद्यन्यतर(म) निर्मितं लिङ्गमात्रं स्थापयति सर्वोऽपि त्रैवर्णिको [लो] कः प्रतिष्ठापयति। लिङ्गं कथंभूतम्। सोमस्य सूर्यस्य, औपलक्षण्येन समस्तदेवतानां कारणभूतमिति शेषः। पाण्युपलक्षितसर्वावयवायमाना मन्त्रा वेदवाक्यविशेषा यस्य तत्पाणिमन्त्रम्, त्रयीमयशरीरमिति यावत्। पवित्रयति पापिनः स्मरणमात्रेणेति पवित्रम्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये षोडशोऽनुवाकः॥१६॥