अथ पञ्चदशोऽनुवाकः। पूर्वोक्तस्यैवाऽऽदित्यपुरुषस्य सर्वात्मकत्वलक्षणमवशिष्टमुपास्यगुणं दर्शयति — आ॒दि॒त्यो वा तेज॒ ओजो बलं यश॒श्चक्षुः॒ श्रोत्र॑मा॒त्मा मनो॑ मन्युर्मनु॑र्मृ॒त्यु स॒त्यो मित्रो वायुरा॑काशः प्रा॒णो लोकपा॒लः कः किं कं तत्स॒त्यमन्न॑म॒मृतो जी॒वो १ घ. ३१॥ २ छ. देवतानां।
[[837]]
[अनु० १५] सभाष्यो दशमप्रपाठकः।
विश्वः॑ कत॒मः स्व॑यं॒भु ब्रह्मै॒तदमृ॑त ए॒ष पुरु॑ष ए॒ष भू॒ता- ना॒मधि॑पति॒र्ब्रह्म॑णः सायु॑ज्य सलो॒कता॑माप्नोत्येतासा॑- मे॒व दे॒वता॑नाँ॒ सायु॑ज्यँ सा॒र्ष्टिताँ॑ समानलो॒कता॑- माप्नोति॒ य ए॒वं वेदे॑त्युप॒निषत्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि पञ्चदशोऽनुवाकः॥१५॥ योऽयमुपास्यत्वेनोक्त आदित्यः स एव सर्वात्मकत्वात्ते(कः। ते)जो दीप्तिः। ओजो बलकारणम्। बलं शरीरशक्तिः। यशः कीर्तिः। चक्षुः श्रोत्रमिन्द्रिय[द्वय]म्। आत्मा देहः। मनोऽन्तःकरणम्। मन्युः कोपः। मनुवैवस्वतादिः। मृत्युर्यमः। सत्यो मित्रो देवविशेषौ। वायुराकाशो भूतविशेषौ। प्राणः पञ्चवृत्तिः। लोकपाल इन्द्रादिः। कः प्रजापतिः। किमनिर्वचनीयम्। कं सुखम्। तत्परोक्षम्। सत्यं यथार्थभाषणम्। अन्नमोदनादि। अमृतो देवसमुदायो मोक्षो वा। जीवः समस्तजीवकोटिः। विश्वः सर्वं जगद्विश्वतैजसादिर्वा। कतमोऽत्यन्तं सुखम्। स्वयंभूत्पत्त्यादिवर्जितं ब्रह्म। एतत्सर्वमादित्य एवेत्यर्थः। किंचामृतो नित्य एष आदित्यः पुरुषः पूर्णत्वात्। एष आदित्यः सर्वेषां भूतानामधिपतिः प्रभुः। इतः परमेतत्परिज्ञातुः फलमाह — यः पुमानेवमुक्तप्रकारेण वेदोपास्ते स पुमान्सायुज्यादिफलं प्राप्नोति। द्विविधमुपासनं हिरण्यगर्भोपासनं तदवयवभूतदेवतोपासनं चेति। तत्र हिरण्यगर्भोपासनाद्भावनाधिक्ये सति ब्रह्मणो हिरण्यगर्भस्य सायुज्यं सहभावं तादात्म्यं प्राप्नोति। भावनामान्द्ये सलोकतां हिरण्यगर्भेण सहैकलोकनिवासं प्राप्नोति। देवतोपास्तावपि भावनाधिक्ये सत्येतासामेव भूरा(वेन्द्रा)दीनां देवतानां सायुज्यं प्राप्नोति। भावनायां मध्य(म)त्वे सति सार्ष्टितां समानैश्वर्यतां प्राप्नोति। मान्धे तु समानलोकतां प्राप्नोति। +उत्तरमन्त्रजपविवक्षयोपास्तिप्रकारमुपसंहरति। इत्येवं पूर्वोक्तैरनुवाकैरुक्तोपनिषद्रहस्यभूता विद्या समाप्तेति शेषः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञीक्यामुपनिषदि भाष्ये पञ्चदशोऽनुवाकः॥१५॥
- अत्र घ. पुस्तके (३२) अङ्को वर्तते। उत्तरत जपविवक्षयेति, जपशब्दवर्जितं वा, पठिस्तुं युक्तम्।
[[838]]
परिशिष्टत्वेन संगृहीतः- [ अनु० १६]