१४

अथ चतुर्दशोऽनुवाकः।


इदानीमादित्यमण्डले परब्रह्मण उपासनामाह — आ॒दि॒त्यो वा ए॒ष एतन्मण्डलं॒ तप॑ति तत्र॒ ता ऋच॒स्तदृ॒चा मंण्डलँ॒ स ऋचां लो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न्म॒ण्डले॒ऽचि॑- र्दी॒प्यते॒ तानि॒ सामा॑नि॒ स सा॒म्नां लो॒कोऽथ॒ य ए॒ष ए॒त- स्मि॑न्म॒ण्डले॒ऽर्चिषि पुरु॑ष॒स्तानि॒ यजूँ षि॒ स यजु॑षा मण्ड- लँ॒ स यजु॑षां लो॒कः सैषा त्र॒य्येव॑ वि॒द्या त॑पति॒ य ________________________ * लौकिकानामणूनामिति युक्तं पठितुम्। + अत्र घ. पुस्तके (३०) अङ्को वर्तते।


१ ड. वाक्ये प्र।

[[836]]

परिशिष्टत्वेन संगृहीतः– [अनु० १४-१५]

ए॒षो॑ऽन्तरा॑दि॒त्ये हि॑र॒ण्मयः॒ पुरु॑षः, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि चतुर्दशोऽनुवाकः॥१४॥ नारायणशब्दवाच्यो यः परमेश्वरः पूर्वोनुवाकेऽभिहितः स एष आदित्यो वै सोपधिकः सन्नादित्यरूपेणैव वर्तते। तस्य चाऽऽदित्यस्यैतदस्माभिर्दृश्यमानं मण्डलं वर्तुलाकारमुष्णं तेजस्तपति संतापं करोति। तत्र तस्मिन्मण्डले ता अध्यापकप्रसिद्धा अग्निमीळ इत्यादिका ऋचो वर्तन्ते तत्तस्मात्कारणान्मण्डलमृचा निष्पादितमित्यर्थः (ति शेषः)। स मण्डलभाग ऋग्भिर्निष्पादित ऋचामृगभिमानिदेवानां लोको निवासस्थानम्। एवमृगात्मकत्वं मण्डलस्य ध्यात्वाऽथानन्तरं सामात्मकत्वं तत्र ध्यातव्यम्। कथमिति, उच्यते। एतस्मिन्मण्डले य एष यदेतदर्चिर्दीप्यते भास्वरं तेजः प्रकाशते तान्यर्चिःस्वरूपाणि बृहद्रथंतरादिसामानीति ध्यायेत्। सोऽर्चिर्भागः साम्नां सामाभिमानिदेवानां लोको निवासस्थानम्। अथ सामध्यानानन्तरं यजुरात्मकत्वं ध्यातव्यम्। कथमित्युच्यते। य एष शास्त्रे प्रसिद्ध एतस्मिन्दृश्यमाने मण्डले तदीयेऽर्चिषि[च] पुरुषो देवतात्मा वर्तते तानि देवतारूपाणि यजूंषीषे त्वेत्यादीनि [ध्यायेत्। स यजुरात्मकः पुरुषो यजुषा निष्पादितं मण्डलमिति ध्येयः। स] यजुर्भागो यजुषां यजुरभिमानिदेवतानां लोको निवासस्थानम्। सैषा मण्डलतदर्चिस्तत्रत्यपुरुषरूपा त्रय्येवर्ग्यजुःसामात्मिकैव विद्या तपति प्रकाशते। यः पुरुषोऽत्राभिहित एषोऽन्तरादित्य आदित्यमण्डलमध्ये हिरण्मयो विद्यते। हिरण्मयत्वं शाखान्तरे प्रपञ्चितम् — “अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्ण.” इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये चतुर्दशोऽनुवाकः॥१४॥