१३

अथ त्रयोदशोऽनुवाकः।


पूर्वानुवाकान्ते ह्रदयपुण्डरीक उपास्यं यन्महेश्वरस्वरूपं निर्दिष्टं तस्मिन्नुपास्यगुणविशेषा अस्मिन्ननुवाके विस्तरेण प्रदर्श्यन्ते। तत्र प्रथमामृचमाह — स॒ह॒स्त्र॒शीर्षं दे॒वं॒ वि॒श्वाक्षं॑ वि॒श्वशं॑भुवम्। विश्वं॑ ना॒राय॑णं दे॒व॒म॒क्षरं॑ प॒रमं प॒दम्, इति। देवं पूर्वोक्तं महेश्वरं ध्यायेदिति शेषः। कीदृशं देवम्। सहस्त्रशीर्षं सहस्त्रशीर्षत्वेना (शब्देनात्रा) परिमितत्वमुपलक्ष्यते। अनन्तशिरस्कमित्यर्थः। सर्वजगदातत्मकं विराड्रूपं महेश्वरस्य देहः। तथा सत्यस्मदादिशिरांसि सर्वाण्यपि तदीयान्येवेत्यनन्तशिरस्त्वम्। अनेनैव न्यायेन विश्वानि सर्वाण्यस्मदीयान्यक्षाणीन्द्रियाणि तदीयान्येवेति विश्वाक्ष[स्त]म्। विश्वस्य सर्व[स्य] जगतः शं मुखमस्माद्भवतीति विश्वशंभुः (भूः) तादृशम्। उक्ते सहस्त्रशीर्षे विराड्रूपे देहेऽवस्थितस्य महेश्वरस्य निजस्वरूपं द्वितीयार्धेनोच्यते। विश्वं जगदात्मकम्, आरोपितस्य जगतोऽधिष्ठानव्यतिरेकेण वास्तवरूपाभावात्। नारायणशब्दस्य निर्वचनं पुराणेषु दर्शितम् — “आपो नारा इति प्रोक्ता आपो वै नरसूनवः। अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः” इति॥ जगत्कारणेषु पञ्चभूतेष्ववस्थितमित्यर्थः। स एवेन्द्रमित्रदिरूपेणावस्थितत्वाद्देव इत्युच्यते। तथा च शाखान्तरे मन्त्र आम्नातः- “इन्द्रं मित्रं वरुणमग्निमाहुः” इति। न क्षर [ती]ति, अश्नुत इति वा तस्याक्षरत्वम्। कारणत्वेनोत्कर्षात्परमत्वम्। पुनः कथंभूतम्। [पदं] पद्यते ज्ञानिभिः प्राप्यते लक्ष्यत इति पदम्। द्वितीयामृचमाह — वि॒श्वतः पर॑मान्नि॒त्यं॒ वि॒श्व ना॑राय॒णँ ह॑रिम्। विश्वमे॒वेदं पुरु॑ष॒स्तद्विश्व॒मुप॑जीवति, इति। विश्वतो जगतो जडवर्गात्परमाद्विभक्तिव्यत्ययः। परममुत्कृष्टम्। ऋग्भेदेन पुनरुक्तिपरिहारो द्रष्टव्यः। स्तुतिरुपत्वादनेन प्रकारेण घ्यातव्यत्वाच्च नास्ति पुनरुक्तिदोषः। विनाशरहितत्वाच्च नित्यत्वम्। [*सर्वात्मकत्वाद्विश्वत्वम्। नारायणत्वं

*त्रुटितोऽयमेतचिह्नान्तर्गतो ग्रन्थश्चतुःषष्ट्यनुवाकपाठानुरोधिभाष्यात्संगृहीतः। प्रकृतर्ग्भाष्यस्य तत्रात्र चैक्यात्।

[[832]]

परिशिष्टत्वेन संगृहीताः- [अनु० १३]

पूर्वमेवोक्तम्। पापस्याज्ञानस्य च हरणाद्धरित्वम्। ] यदिदं विश्वमिदानीमज्ञानदृष्ट्या प्रदृश्यते तत्सर्वं वस्तु तत्त्वदृष्ट्या पुरुषः परमात्मैव। स च परमात्मा तद्विश्वमुपजीवति, स्वस्य व्यवहारनिर्वाहार्थमाश्रयति। तृतीया[मृच]माह — पतिं विश्व॑स्या॒ऽऽत्मेश्व॑रँ॒ शाश्व॑तंँ शि॒वम॑च्युतम्। ना॒राय॒णं महाज्ञे॒यं॒ वि॒श्वात्मा॑नं प॒राय॑णम्, इति। विश्वस्य जगतः पालकत्वात्पतिम्। आत्मनां जीवनां नियामकत्वादीश्वरम्। निरन्तरं वर्तमानत्वाच्छाश्वतम्। परमङ्गलत्वाच्छिवम्।. [न च्यवत इत्यच्युतम्।] नारायणत्वं पूर्वमुक्तम्। ज्ञेयेषु मध्ये प्रौढत्वान्महाज्ञेयम्। जगदुपादानत्वेन तदभेदाद्विश्वात्मत्वम्। उत्कृष्टाधारत्वात्परायणत्वम्। सर्वमप्यारोपितं जगदधिष्ठाने वर्तते। चतुर्थीमृचमाह — ना॒राय॒ण प॑रो ज्यो॒ति॒रात्मा ना॑राय॒णः प॑रः। ना॒राय॒ण प॑रं ब्र॒ह्मत॒त्त्वं ना॑राय॒णः प॑रः॥ ना॒राय॒ण प॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः, इति। पुराणेषु नारायणशब्देन व्यवह्रियमाणो यः परमेश्वरः स एव परमुत्कृष्टं सत्यज्ञानादिवाक्यप्रतिपादितस्य ब्रह्मणस्तत्त्वम्। अतो नारायणः एवाऽऽत्मा न त्वपरो मूर्तिविशेषः। तथा परो ज्योतिर्यदेतदुत्कृष्टं ज्योतिश्छन्दोगैः परं ज्योतिरुपसंपद्येत्याम्नातं तदपि नारायण एव। तस्मान्नारायणः परमात्मा। पुनरपि नारायणस्य सर्वात्मकत्वमुच्यते। नारायणः। छान्दसत्वात्सर्वत्र विसर्गलोपः। *परब्रह्म वेदान्तवेद्यं चिद्वस्तुतत्वमबाधितं यथार्थवस्तु, परः सर्वोत्कृष्टो जाड्यादिगुणव्यतिरिक्तः। ध्याता वेदान्ताधिकारी। ध्यानं प्रत्यगात्मगोचरो वृत्तिविशेषः। परः पापिनां शत्रुः। एवंविधो नारायणो ध्येय इत्यर्थः। पञ्चमी[मृच]माह — यञ्च॑ किं॒चिज्ज॑गत्स॒र्वं॒ दृ॒श्यते॑ श्रूय॒तेऽपि॑ वा (१)। अन्त॑र्ब॒हिश्व॑ तत्स॒र्वं॒ व्या॒प्य ना॑राय॒णः स्थि॑तः, इति। अस्मिन्वर्तमाने जगति यत्किंचित्समीपवर्ति वस्तुजातं दृष्यतेऽपि वा दूरस्थं

*एतदादि यथार्थवस्त्वित्यन्तं नारायणशब्दार्थस्य स्पष्टीकरणम्।

[[833]]

[अनु० १३] सभाष्यो दशमप्रपाठकः।

श्रूयते तत्सर्वं वस्तुजातमयं नारायणोऽन्तर्बहिश्च व्याप्यावस्थितः। यथा कटकमुकुटाद्याभरणस्योपादानकारणं सुवर्णमन्तर्बहिर्व्याप्यावतिष्ठते तद्वत्। षष्ठी मृचमाह] — अन॑न्त॒मव्य॑यं क॒विँ स॑मु॒द्रेऽन्तं॑ वि॒श्वशं॑भुवम्। प॒द्म॒को॒शप्र॑तीका॒शँ॒ ह्र॒दयं॑ चाप्य॒धोमु॑खम्, इति॥ अत्र पूर्वार्धेन नारायणस्य वास्तवरूपं संक्षिप्योपन्यस्यते। अनन्तं देशपरिच्छेदरहितम्। अव्ययं विनाशरहितम्। कविं चिद्रूपेण सर्वज्ञम्। समुद्रेऽतिबहुलत्वेन समुद्रसदृशे संसारऽन्तमवसानरूपम्। यदा नारायणस्य स्वरूपं जानाति तदैव संसारः क्षीयत इत्यर्थः। विश्वशंभुवं विश्वस्य संसार[सुख]स्योत्पत्तिकारणरूपम्। “एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति” इति श्रुत्यन्तरात्। ईदृशं नारायणरूपमि(मु)[पासीते]ति शेषः। उत्तरार्धेनोपासनस्थानमुच्यते। पद्मकोशप्रतीकाशं यथाऽष्टदलकमलस्य कोशो मध्यच्छिद्रं तत्सदृशं, तञ्च ह्रदयशब्दवाच्यम्। लौकिकं पद्ममूर्ध्वाभिमुखं त्दृदयपद्मं त्वधोमुखमिति [वि]शेषः। सप्तमीमृचमाह — अधो नि॒ष्ट्या वि॑तस्त्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति। ज्वा॒ला॒मा॒लाकु॑लं भा॒ती॒ वि॒श्वस्या॑ऽऽयत॒नं म॑हत्, इति॥ निष्टिर्ग्रीवाबन्धस्तस्या अधस्ताद्वर्तते। तत्रापि नाभ्यामुपरि नाभिशस्योर्ध्वभागे वितस्त्यान्ते द्वादशाङ्गुलपरिमिता वितस्तिः, [तस्या अन्तेऽवसानभूत] एवंविधप्रदेशे पूर्वोक्तं यद्धृदयपुण्डरीकं [तिष्ठति] वर्तते, तत्र महत्परब्रह्म भाति। दीर्घश्छान्दसः। कथंभूतम्। विश्वस्य ब्रह्माण्डस्याऽऽयतनमाधार[भूत]म्। ज्वालामालाभिः प्रकाशपरम्पराभिराकुलं युक्तम्। अष्टमीमृचमाह — संत॑त शिलाभि॑स्तु॒ लम्ब॑त्याकोश॒संनि॑भम्। तस्यान्ते॑ सुषिं॒रँ सू॒क्ष्मं तस्मि॑न्त्स॒र्वे प्रति॑ष्ठितम्, इति॥ आकोशः पद्ममुकुलं तत्संनिभं तत्सदृशं ह्रदयकमलं लम्बति ह्रदय(शरीर) मध्येऽधोमुखत्वेन लम्बते। तञ्च शिराभिर्नाडीभिः [संततं] परितः सम्यग्व्याप्तम्। “शतं चैका च ह्रदयस्य नाड्यः” इति श्रुत्यन्तरात्। तस्य ह्रदयस्यान्ते समीपे सूक्ष्मं सुषिरं छिद्रं सुपुम्नानाडीनालं तिष्ठति। तस्मिन्सुषिरे सर्वभिदं जगत्प्रतिष्ठितमाश्रितम्। तत्र मनसि प्रविष्टे सति सर्वजगदाधारस्य ब्रह्मणोऽभि[व्यज्य]मानत्वात्।

*मूले छान्दसत्वाद्ध्रस्व इति भावः।

[[834]]

परिशिष्टत्वेन संगृहीतछ– [अनु० १३]

नवमी[मृच]माह — तस्य॒ मध्ये॑ म॒हान॑ग्निर्विश्वार्चि॑र्वि॒श्वतो॑मुखः। सोऽग्र॑भु॒ग्विभ॑जन्तिष्ठन्नाहा॑रमजरः कविः। ति॒र्य॒गूर्ध्वम॑धःशा॒यी॒ र॒श्मय॑स्तस्य॒ संत॑ता, इति॥ तस्य सुषुम्नानालस्य मध्ये महान्प्रौढोऽग्निर्वर्तते। स च विश्वार्चिर्बहुलज्वालोपेतः। अत एव ज्वालाविशेषैः परितोऽवस्थितासु [सर्वासु नाडीषु] संसरणाद्विश्वतोमुखो बहुविधमुखः। सोऽग्निरग्नभुक्। स्वस्य पुरतः प्राप्तमन्नं भुङ्क्त इत्यग्रभुक्। स च भुक्तमाहारं शरीरे सर्वावयवेषु विभजन्प्रसारयंस्तिष्ठन्नवतिष्ठत इत्यर्थः। तथा च भगवतोक्तम् — “अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्” इति॥ तस्माद्रुक्तमन्नमसौ जरयति न तु स्वयं जीर्यत इत्यजरः अत एव कविरभिज्ञः कुशल इत्यर्थः। किंच तस्याग्ने रश्मयः किरणास्तिर्यगूर्ध्वमधः शेरत इति [तिर्यगूर्ध्वप्रधःशायी] वचनव्यत्ययः। संतता सर्वतो व्याप्ताः। दशमी[मृच]माह — सं॒ता॒पय॑ति स्वं दे॒हमापा॑दतल॒मस्त॑कः। तस्य॒ मध्ये॒ वह्नि॑शिखा अ॒णीयो॑र्ध्वा व्य॒वस्थि॑तः, इति॥ [आपादतलमस्तकं] पादतलमारभ्य मस्तकपर्यन्तम्। वर्णव्यत्ययः । कृत्स्त्रमपि स्वकीयं देहं सर्वदा संतापयति। सोऽयं शरीरगतः संतापोऽग्निसद्धावे लिङ्गम्। तस्य ज्वालाविशेषैः कृत्स्नदेहव्यापिनोऽग्नेर्मध्ये वह्निशिखा काचिज्ज्वालाऽणीयाऽत्यन्तसूक्ष्मोर्ध्वा सुषुम्नानाडीनालेनोर्ध्वं ब्रह्मरन्ध्रपर्यन्तं प्रसृत्य व्यवस्थितो विशेषेणावस्थिता। एकादशीमृचमाह — नी॒लतो॑यद॑मध्य॒स्था॒द्वि॒द्युल्लेखेव॒ भास्व॑रा। नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ता भा॑स्वत्य॒णूप॑मा. इति॥ तोयमुदकं ददातीति तोयदो मेघः। स च वर्षितुं जलपूर्णत्वान्नीलवर्णस्तादृशस्य मेघस्य मध्ये स्थिता विद्युल्लेखेव सेयं पूर्वोक्ताऽग्निशिखा भास्वरा प्रभावती, नीवारबीजस्य शूकं दीर्घपुच्छं यथा तनु भवति तद्वदियं शिखा तन्वी सूक्ष्मा, बहिः (बाह्य)-

  • गकारपाठोऽपि वैदिकेषु प्रसिद्धः।

[[835]]

[अनु० १३-१४] सभाप्यो दशमप्रपाठकः।

वह्नि) शिखेव पीता पीतवर्णा स्यात्, [भास्वती] दीप्तियुक्ता भवेत्, सा च तन्वि (चाणूपमा) *लौकिकानां तनूनां सूक्ष्मवस्तूनामुपमा भवितुं योग्या। द्वादशीमृचमाह — तस्याः॑ शिखा॒या म॑ध्ये प॒रमा॑त्मा व्य॒वस्थि॑तः। स ब्रह्म॒ स शिवः॒ स हरिः॒ सेन्द्रः॒ सोऽक्ष॑रः पर॒मः स्व॒राट् (२), इति॥ अपि॑ वा॒ संत॑ता॒ षट्च॑॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि त्रयोदशोऽनुवाकः॥१३॥ तस्याः पूर्वोक्ताया वह्निशिखाया मध्ये जगत्कारणभूतः परमात्मा विशेषेणावस्थितः। तस्योपासनार्थमल्पस्थानत्वेऽपि न स्वयमल्पः किंतु सर्वदेवात्मकः। ब्रह्मा चतुर्मुखः। शिवो गौरीपतिः। हरिरिन्द्रिरापतिः। इन्द्रः स्वर्गधिपतिः।अक्षरो जगद्धेतुर्मायाविशिष्टोऽन्तर्यामी। “क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते” इति भगवतोक्तत्वात्। परमो मायारहितः शुद्धश्चिद्रुपः। अत एव पारतन्त्र्याभावात्स्वराट्स्वयमेव राजा।सहस्त्रशीर्षमित्यादिवाक्यप्रतिपादितं पद्मकोशप्रतीकाशमित्यादिवाक्योक्तप्रकारेण ध्यायेदिति तात्पर्यार्थः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये त्रयोदशोऽनुवाकः॥१३॥