अथ द्वदशोऽनुवाकः।
यथोक्तप्रशंसोपेतपुण्यानुष्ठानेन निषिद्धाचरणवर्जितेन शुद्धान्तःकरणस्य पुरुषस्य तत्त्वमुपदेष्टुमयमनुवाक आरभ्यते। तत्र प्रथमामृचमाह — अ॒णोरणी॑यान्मह॒तो मही॑याना॒त्मा गुहायां॒ निहि॑तोऽस्य ज॒न्तोः। तम॑क्रतुं पश्यति वीतशो॒को धा॒तुः प्र॒सादा॑न्महि॒मान॑मीशम्, इति॥ सच्चिदानन्दरसः परमेश्वरः सर्वाधिष्ठानत्वेन सर्वस्य जगतः स्वरूपत्वादात्म-शब्देनोच्यते। आत्मशब्दः स्वरूपवाचीति प्रसिद्धम्। मायाकार्यभूते लौकिकव्यवहारे सूक्ष्म-
- यथेत्यधिकम्। + करिष्यासीति संबध्यते। १ घ. २५॥
[[822]]
परिशिष्टत्वेन संगृहीतः — [अनु० १२] त्वेन प्रसिद्धः परमाणुव्द्यणुकादिरणुशब्दवाच्यः। तस्मादप्ययमात्माऽतिशयेन सूक्ष्म-त्वादणीयान्। आकाशदिगादयः परिमाणाधिक्याल्लोके महच्छब्दवाच्याः। ततोऽप्यय-मात्माऽतिशयेनाधिकत्वान्महीयान्। परमाणुव्द्यणुकादीनामस्मदादिप्रत्ययगम्यत्वाभा-वेऽपि योगिजनचक्षुर्गम्यत्वमस्ति तदप्यात्मनो नास्तीत्यभिप्रेत्याणीयस्त्वमुक्तम्। आकाशदिगादीनामेकब्रह्माण्डवर्तित्वात्तादृशब्रह्माण्डलक्षकोट्यधिष्ठानत्वमभिप्रेत्य महीयस्त्वमुक्तम्। तादृशः परमात्माऽस्य देवमनुष्यादिरूपस्य जन्तोर्गुहायां निहितः। गुहाशब्देन हृदयपुण्डरीकवर्तिनी बुद्धिरुपलक्ष्यते। ‘गुहू संवरणे’, इत्यस्माद्धातोरुत्पन्नो गुहाशब्दः। बुद्धिश्च त्दृदयपुण्डरीकेण संवृता तन्मध्यवर्तित्वात्। तस्यां बुद्धावस्य परमा-त्मनो निहितत्वं नाम विद्ययोपलभ्यत्वम्, नतु बुद्धावाधेयत्वम्। सर्वजगदाधारस्य तदसंभवात्। [तं] तथाविधं गुहावस्थितमीशं शमदमादिगुणयुक्तोऽधिकारी पुरुषः पश्यति साक्षात्करोतिः। स चाधिकारो धातुः प्रसादादुपजायते। धाता जगतो विधाता परमेश्वरस्तस्य प्रसादोऽनुग्रहः। तथा च पूर्वाचार्यैरुक्तम् — ईश्वरानुग्रहादेषां पुंसामद्वैतवासना। महाभयकृतत्राणा द्विंत्राणां यदि जायते॥ कीदृशमीशम्। अक्रतुं संकल्परंहितम्। स्नानपानादिभोगजातं समीचीनमिति संकल्पनं जीवस्यैव न त्वीश्वरस्य, संकल्पहेतुभूतान्तःकरणोपाधेरभावत्। अतो निरुपा-धिकत्वान्महिमानमतिशयेन महान्तमीश्वरम्। ईदृशं परमेश्वरं साक्षात्कृत्य वीतशोको जन्ममरणादिशोकरहितो भवति। द्वितीयामृचमाह — स॒प्त प्रा॒णाः प्र॒भव॑न्ति॒ तस्मा॑त्स॒प्तार्चिषः॑ स॒मिधः॑ स॒प्त जिह्वाः। स॒प्त इ॒मे लो॒का येषु॒ चर॑न्ति प्रा॒णा गु॒हाश॑या॒न्निहिताः स॒प्त स॑प्त, इति॥ शुद्धान्तःकरणैर्यो ज्ञातव्यः परमात्मोक्तस्तस्य शाखाचन्द्रन्यायेनोपलक्षणार्थं जगत्कारणत्वमुच्यते। तस्मात्परमात्मनो मायाशाक्तिविशिष्टात्सप्त प्राणाः प्रभवन्ति। अन्यत्र सप्त वै शीर्षण्याः प्राणा इत्युक्तत्वाच्छिरोवर्तिसप्तच्छिद्रगताः सप्तसंख्याकाश्च-क्षुरादयः प्राणाः परमेश्वरादुत्पद्यन्ते। द्वे चक्षुषी द्वे ने(श्रो)त्रे द्वे नासिके मुखमेकमिति सप्तत्वम्। तेषां चक्षुरादीनां स्वस्वविषयप्रकाशनशक्तयः सप्तार्चिषः। तैरर्चिर्भिर्गृह्य-माणत्वेन सप्तसंख्याका विषयाः समिधः। विषयैरिन्द्रियाणि समिध्यन्ते प्रकाशयुक्तानि क्रियन्ते। यथैकस्यापि चक्षुरिन्द्रियस्य गोलकभेदेन द्वित्वम्, तथा रूपस्याप्येकस्य वामदक्षिणारूपनिर्वाहकचक्षुर्भेदाद्द्वित्वं द्रष्टव्यम्। एवं शब्दगन्धयोर्द्वित्वे सति विषयाः सप्त संपद्यन्ते। अथवा समिच्छब्देन सप्तसंख्या न संबध्यते किंतु जिह्वाशब्देन।
[[823]]
[अनु० १] सभाष्यो दशमप्रपाठकः। अग्नौ(ग्नि) जिह्वानां च सप्तत्वामाथर्वणिकैराम्नातम् — काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः इति। ताः परमेश्वरात्प्रभवन्ति। इमे भूरादयः सप्तसंख्याका लोकास्तस्मात्प्रभवन्ति। येषु सप्तसु लोकेषु देवमनुष्यादिशरीरवर्तिनः प्राणाश्चरन्ति तादृशा लोका उत्पन्ना इति पूर्वत्रान्वयः। गुहा बुद्धिस्तस्यां शेत उपलभ्यत इति गुहाशयः परमेश्वरस्तस्मान्निहिता उत्पन्नाः सप्तर्षयः सप्त समुद्रा इत्यादिकाः सप्तसंख्याकाः पदार्थविशेषाः। अथ तृतीयामाह — अतः॑ समु॒द्रा गि॒रय॑श्च॒ सर्वे॒ऽस्मात्स्यन्द॑न्ते॒ सिन्ध॑वः॒ सर्व॑रूपाः। अत॑श्च॒ विश्वा॒ ओष॑धयो॒ रसा॑च्च॒ येनै॑ष भूतस्ति॑ष्ठत्यन्तरा॒त्मा, इति। [सर्वे क्षीरोदधिप्रभृतयः समुद्रविशेषा] मेरुप्रभृतयो गिरिविशेषाश्चा[तोऽ]स्मा-त्परमेश्वरादुत्पन्नाः। सर्वरूपा नानादिगभिमुखाः सिन्धवः स्यन्दन्ते प्रवहन्ति। ब्रीहिय-वाद्या विश्वाः सर्वा ओषधयश्चोत्पन्नाः। कथंभूतात्परमात्मनः। रसात् विद्वदनुभवनी-यात्। रसो वै स इति पूर्वमुक्तत्वात्। एषोऽहंप्रत्ययेन गम्यमानः। अन्तरात्मास्थूलदेह-चिदात्मनोर्मध्यवर्ती यो लिङ्गदेही(हः)। येनौषधिरसेन भूतोऽधिष्ठितः संस्तिष्ठति। अत इति पूर्वेणान्वयः। [चतुर्थीमृचमाह — ] ब्र॒ह्मा दे॒वानां॑ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृगाणा॑म्। श्ये॒नो गृध्रा॑णाँ॒ स्वधि॑तिर्वना॑नाँ॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न्, इति।
अन्तर्बहिर्वर्तिनां प्राणसमुद्रादीनामचेतनानां सृष्टिमुक्त्वा चेतनेषु परमेश्वर-स्योत्कृष्टरूपेणावस्थानमुच्यते। देवानामग्नीन्द्रादीनां मध्ये ब्रह्मा चतुर्मुखो भूत्वा परमेश्वरो नियामकत्वेनावतिष्ठते। तथा कवीनां काव्यनाटकादिकर्तॄणां पुरुषाणां मध्ये पदवीत्वेनावतिष्ठते। व्याकरणनिष्पन्नः सुशब्दविशेषः पदं तद्वेति गच्छतीति पदवीः। शब्दसमार्थ्याभिज्ञो व्यासवाल्मीक्यादिरूप इत्यर्थः। विप्राणां वैदिकमार्गवर्तिनां ब्राह्म-णानां मध्य ऋषिस्त[त्त]द्गोत्रप्रवर्तको वसिष्ठादिरूपो बभूव। मृगाणां चतुष्पदानां मध्ये शक्त्याधिक्ययुक्तो महिषो बभूव। गृधोपलक्षितानां सर्वेषां पक्षिणां मध्ये प्रबलः श्येनो बभूव। वनानां वृक्षसमूहरूपाणां छेदनार्थं स्वधितिः परशुर्बभूव। १ ङ. ०दिव०।
[[824]]
परिशिष्टत्वेन संगृहीतः - [अनु ॰ १२]
यागहेतुभूतवल्लयात्मकः सोमो भूत्वा रेभन्मन्त्रशब्दयुक्तः सन्पवित्रं शुद्धिकारणं गङ्गाजलकुशदर्भादिकद्रव्यजातं सर्वमत्येति। पञ्चमीमृचमाह - अ॒जामेकां॒ लोहि॑तशुक्लकृ॒ष्णां व॒ह्वीं प्र॒जां ज॒नय॑न्ती॒ ँ सरू॑पाम्। अ॒जो ह्येको॑ जु॒षमा॑णोऽनु॒शेते॒ जहा॑त्येनां भु॒क्तभो॑गा॒माजो॑ऽन्यः(१) +, इति॥ व्यवहारदशायां परमेश्वरस्य चतुर्मुखब्रह्मादिशरीरेषु विशेषेणावस्थानमभिधाय यथोक्तजगत्सृष्टेर्मूलकारणभूतां मायाशक्तिमुपजीव्य बद्धमुक्तपुरषव्यवस्था प्रदर्श्यते। न जायत इत्यजा मूलप्रकृतिरूपा माया। न ह्यनादेस्तस्या जन्म संभवति। सा च मायैका। इतरस्य सर्व[स्य] जगतस्तत्कार्यत्वात्। यदाऽसौ तेजोवन्नानि त्रीणि रूपाण्युत्पाद्य तद्रूपाऽवतिष्ठते तदानीं लोहितशुक्ल[कृष्ण]वर्णैरुपेता भवति। तथा छन्दोगा आमनन्ति - “यदग्ने रोहित ँ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य” इति। अन्नशब्देनात्र पृथिव्युपलक्ष्यते। रजःसत्त्वतमोगुणा वा लोहितादिशब्दैरुपलक्ष्यन्ते। गुणत्रयात्मिका मायेत्युक्तं भवति। सा च देवतिर्यङ्मनुष्यादिरूपां गुणत्रितयात्मकत्वेन सरूपां बहुविधां प्रजां जनयन्ती। न जायत इत्यजो जीवस्तस्यापि मायावदनादित्वादुत्पत्तिर्नास्ति। तादृशो जीवो द्विविधः। आसक्तो विरक्तश्च। तयोर्मध्य एक आसक्तो जीवः पूर्वोक्तामजां मायां जुषमाणः प्रीतिपूर्वकं सेवमानोऽनुशेते तदनुसारेणैव वर्तते। विषयानेव भुञ्जानो विवेकरहितो जन्ममरणप्रवाहरूपेण संसरतीत्यर्थः। अन्यो विरक्तो जीवो भुक्तभोगामेनां मायां जहाति परित्यजति। विरक्तेः पूर्वमेव भोगान्भुक्त्वा (गा भुक्ता) नतूपरिष्ठाद्भोक्ष्यन्ते तादृशैर्भोगैभुक्ता भुक्तभोगा तां मायां तत्त्वविवेकेन बाधतामि (त इ) त्यर्थः। षष्ठीमृचमाह - ह॒ ँसः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत्। नृ॒षद्व॑र॒सदृ॑त॒सब्द्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत्, इति।
यः पुमान्विवेकेन मायां परित्यजति तस्य सर्वमपि जगद्ब्रह्मरूपेणावभासत इत्ययमर्थोऽत्र प्रदर्श्यते। एतदर्थमादौ जगदनूद्यते। हन्ति सर्वदा गच्छतीति हंस आदित्यः। स च [शुचौ] शुद्धे मण्डले ज्योदिर्मये सीदतीति शुचिषत्। सूत्रात्मस्वरूपेण जगन्निवासहेतुत्वाद्वसुर्वायुस्तद्रूपः सन्नन्तरिक्षे सीदतीत्यन्तरिक्षसत्। होमनिष्पादक आहवनीयाद्यग्निर्होता तद्रूपेण सोमयागा[द्य] ङ्गभूतायां वेद्यां सीदतीति वेदिषत्। अमावास्यादितिथिविशेषमनपेक्ष्य भोजनयाच्ञार्थं तत्र तत्र गच्छन्पुरुषो वैदेशिकोऽतिथिस्तद्रूपेण
- अत्र घ. पुस्तके (२६) अङ्को वर्तते।
[[825]]
[अनु ॰ १२] सभाष्यो दशमप्रपाठकः।
दुरोणेषु गृहेषु परकीयेषु सीदतीति दुरोणसत्। नृषु मनुष्येषु कर्माधिकारिजीवरूपेण सीदतीति नृषत्। वरे श्रेष्ठे क्षेत्रे काशीद्वारवत्यादौ पूजनीयरूपेण सीदतीति वरसत्। ऋते सत्ये वैदिके कर्मणि फलरूपेण सीदतीति ऋतसत्। व्योम्न्याकाशे नक्षत्रादिरूपेण सीदतीति व्योमसत्। अद्भ्यो नदीसमुद्रादिगताभ्यः शङ्खमकरादिरूपेण जायत इत्यब्जाः। गोभ्यः क्षीरादिरूपेण जायत इति गोजाः। ऋतं सत्यं वचनं तस्मात्कीर्तिरूपेण जायत इति ऋतजाः। अद्रिभ्यो वृक्षादिरूपेण जायत इत्यद्रिजाः। हंस इत्यारभ्याद्रिजा इत्यन्तेनोक्तं यज्जगदस्ति तज्जगदृतं सत्यं बृहद्ब्रह्म। अज्ञानिदृष्ट्या जगद्रूपेण भासमानं सर्वं ज्ञानिदृष्ट्या ब्रह्मैवेत्यर्थः।
सप्तमीमृचमाह -
घृ॒तं मि॑मिक्षिरे घृतम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तमु॑वस्य॒ धाम॑।
अ॒नु॒ष्व॒धमाव॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम्, इति।
भोग(ग्य)जातस्य ज्ञानभो(यो)ग्यदेहानुकूल्यं प्रार्थ्य[मिति तदर्थं] ज्ञानसाधनयागादिकर्महेतोरग्नेरानुकूल्यं प्रार्थयते। पूर्व(र्वे) यजमाना अग्नावाहवनीयादिरूपे घृतं मिमिक्षिरे सिक्तवन्तः। मिह सेचन इति धातुः। तढ्घृतमस्याग्नेर्योनिरुत्पत्तिकारणं घृतेन ज्वालाभिवृद्धिदर्शनात्। ततोऽयमग्निर्घृते श्रितो घृतमाश्रित्यावस्थितः। घृतमु घृतमेवास्याग्नेर्धाम स्थानं तेजोहेतुर्वा। हेऽग्नेऽनुष्वधं स्वधामन्वस्मदीयं हविः- स्वरूपमनुश्रु(सृ)त्याऽऽवह देवानत्राऽऽनय। आनीय च मादयस्व सुत्दृष्टान्कुरु। हे ऋ(वृ)षभ श्रेष्ठ स्वाहाकृतं स्वाहाकारेणास्नाभिर्दत्तं हव्यं वक्षि वह देवान्प्रापय।
अष्टमीमृचमाह-
स॒मु॒द्रादू॒र्मिर्मधु॑मा॒ ँ उदा॑रदुपा॒ ँ शुना॒ सम॑मृत॒त्वमा॑नट्।
घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभिः, इति॥
समुद्रात्प्रभूतात्परमात्मन ऊर्मिसदृशः प्रपञ्चो मधुमान्भोग्यत्वेन माधुर्ययुक्त उदारदुदगच्छदुत्पन्न इत्यर्थः। यथा लोके समुद्रात्तरङ्ग उत्पद्यत एवं चिदेकरसात्परमात्मनो जडं भोग्यजातं समुत्पन्नम्। घृ क्षरणदीप्त्योरिति धातोरुत्पन्नो घृतशब्दः। घृतं दीप्तं स्वप्रकाशं ब्रह्मेत्यर्थः। तस्य ब्रह्मणो यन्नाम प्रणवरूपं गुह्यं सर्ववेदेष्वस्ति। तथाच काठकैराम्नांतम् - “सर्वे वेदा यत्पदमामनन्ति” इति प्रस्तुत्य “तत्ते पदं संग्रहेण ब्रवीभ्योमित्येतत्” इति। तेन प्रणवरूपेणोपांशुना ध्यानकाले शनैरुच्चार्यमाणेनामृतत्वमुत्पत्तिविनाशरहितं ब्रह्मतत्त्वं समानट्सम्यगानशो प्राप्नोतीत्यर्थः। तच्च प्रणवाख्यं नाम देवानां जिह्वा देवैर्ध्यानपरैर्निरन्तरमुच्चार्यमाणत्वेन जिह्वेव सर्वदा मुखमध्ये वर्तते। किंचेदं प्रणवरूपममृतस्य विनाशरहितस्य मोक्षस्य नाभी रथचक्रस्य
[[826]]
परिशिष्टत्वेन संगृहीतः - [अनु ॰ १२] नाभिरिवाऽऽश्रयभूतम्। अनेन हि मुक्तिरूपं फलं लभ्यते। अत एव कठैराम्नातम् - “एतदेवाक्षरं [ज्ञात्वा] यो यदिच्छति तस्य तत्” इति। एतस्यामृचि प्रणवस्य मोक्षसाधनत्वमुक्तम्।
नवमीमृचमाह - व॒यं नाम॒ प्रब्र॑वामा घृ॒तेनास्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः। उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑शृङ्गोऽवमीद्गौ॒र ए॒तत्, इति॥ वयं ज्ञानार्थिनः पुरुषा अस्मिञ्ज्ञानयज्ञे घृतेनाऽऽदीप्तेन स्वप्रकाशेन ब्रह्मणा निमित्तभूतेन प्रणवरूपं [नाम] प्रब्रवाम। सर्वदोच्चारयामः(म)। ततो नमो[भि]र्नमस्कारैर्युक्ता वयं चित्ते ब्रह्मतत्त्वं सर्वदा धारयामः(म)। ज्ञानस्य यज्ञत्वं भगवतोक्तम् - “स्वाध्यायज्ञानयज्ञाश्च यतयः शंसि(संशि)तव्रताः” [इति।] शस्यमानमस्माभिः प्रणवेन स्तूयमानमुपशृणवत्पार्श्ववर्तिभिस्तत्त्ववेदिभिः श्रूयमा-णमेतद्ब्रह्मतत्त्वं चतुःशृङ्गोऽकारोकारमकारनादरूपशृङ्गचतुष्टयोपेतो गौरः श्वेतः प्रणवाख्य ऋषभोऽवमीद्वान्तवान्। ब्रह्मतत्त्वं प्रत्यपादयदित्यर्थः। अकारादीनां प्रणवमात्राणां शृङ्गत्वमुत्तरतापनीये श्रुतम् - “शृङ्गेष्वशृङ्गं संयोज्य” इति। निष्कामैरनुष्ठेयत्वेन निर्मलत्वात्प्रणवस्य गौरत्वम्। वृषभरूपत्वं च संहितोपनिषद्याम्नातम् - “यश्छन्दसामृषभो विश्वरूपः” इति। *वचनेन प्रतिपादनमुपलक्ष्यते(?)।
दशमीमृचमाह - च॒त्वारि॒ शृङ्गा त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अ॒स्य। त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्या॒ ँ आवि॑वेश, (२) इति॥ शृङ्गा प्रणवस्य यान्यकारादीनि [शृङ्गाणि] तानि चत्वारि। अस्य प्रणवप्रतिपाद्यत्वेन प्रणवरूपस्य ब्रह्मणस्त्रयः। पद्यते गभ्यते ब्रह्मत्वमेभिरिति पादाः। अध्यात्मं विश्वतैजसप्राज्ञाः। अधिदैवं विराड्ढिरण्यगर्भाव्याकृतानि। द्वे शीर्षे उत्तमाङ्गस्थाने चि [दचि]द्रूपे द्वे शक्ती। तथैवास्य ब्रह्मणो भूरादयः सप्त लोका हस्ता [सो] हस्तस्थानीयाः। त्रिधा बद्धोऽकारोकारमकारेषु विश्वतैजसप्राज्ञैर्विराड्ढिरण्यगर्भाव्याकृतैश्च त्रिप्रकारेण संबद्धो वृषभः प्रणवो महस्तेजोरूपं ब्रह्मतत्त्वं रोरवीति, अतिशयेन प्रतिपादयति। तदेव प्रतिपाद्यत्वं स्पष्टी क्रियते - देवः परमेश्वरो मर्त्यान्मनुष्यदेहानाविवेश सर्वतः प्रविष्टः। “स एष इह प्रविष्ट आ नखाग्रेभ्यः” इति श्रुत्यन्तरात्।
- एतत्प्रभृत्युपलक्ष्यत इत्यन्तो ग्रन्थः प्रकृतानुपयोगीव भाति।
१ घ.॥२७॥
[[827]]
[अनु ॰ १२] सभाष्यो दशमप्रपाठकः।
एकादशीमृचमाह -
त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन्।
इन्द्र॒ एक॒ ँ सूर्य॒ एकं जजान वे॒नादेक ँ॑ स्व॒धया॒ निष्ट॑तक्षुः, इति॥
त्रिधा हितं शरीरे विश्वतैजसप्रज्ञाख्येन त्रिप्रकारेण ब्रह्माण्डे विराड्ढिरण्यगर्भाव्याकृताख्येन च त्रिप्रकारेणावस्थितं घृतं दीप्तं स्वप्रकाशं ब्रह्मतत्त्वं देवासो देववत्सात्त्विका अन्तर्मुखाः पुरुषा गवि वाचि तत्त्वमस्यादिवेदरूपायामेवान्वविन्दन्ननुक्रमेण लब्धवन्तः। कीदृशं घृतम्। पणिभिर्गुह्यमानम्। पण व्यवहारे स्तुतौ चेति धातुः। पणिभिः स्तोतृभिरुपदेष्टृभिराचार्यैः परमरहस्यत्वेन गोप्यमानम्। त्रिधा हितमित्येतदेवोच्यते। इन्द्रः परमैश्वर्ययुक्तो विराट्पुरुष एकं जागरणरूपं जजानोत्पादितवान्। सूर्यशब्दस्तेजस्वित्वेन हिरण्यगर्भमुपलक्षयति। स च हिरण्यगर्भ एकं स्वप्नरूपं जजान। वेन(वे)तिधातुः कान्तिकर्मा। वेनात्सर्वदुःखराहित्येन कमनीयादव्याकृतादेकं सुषुप्तिरूपं निष्पन्नमिति शेषः। स्वस्मिन्नेव धीयतेऽवस्थाप्यत इत्याश्रयान्तररहिता ब्रह्मरूपा चित्स्वधारूपेणोच्यते। “स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि” इति श्रुत्यन्तरात्। तया स्वधया ब्रह्मरूपा(प)याऽन्विताः पूर्वमुक्ता इन्द्रसूर्यवेना निष्टतक्षुः। जागरणादिकं निष्पादितवन्तः। एताभ्यां द्वाभ्यामृग्भ्यां प्रणवतत्प्रतिपाद्यार्थौ प्रपञ्चितौ।
द्वादशीमाह - यो दे॒वानां प्रथ॒मं पु॒रस्ता॒द्विश्वा॒धियो॑ रु॒द्रो म॒हर्षिः। हि॒र॒ण्य॒ग॒र्भं प॑श्यत॒ जाय॑मान॒ ँ स नो॑ दे॒वः शु॒भया॒ स्मृत्याः संयु॑नक्तु, इति। यो देवो हिरण्यगर्भं पश्यत साक्षात्करोति। कीदृशं हिरण्यगर्भम्। देवानां प्रथममग्नीन्द्रादीनामादिभूतम् । पुरस्ताज्यमानमग्नीन्द्राद्युत्पत्तेः पूर्वमेवोत्पाद्यमानम्। अनेन प्राथम्यं स्पष्टीकृतम् ।कीदृशो देवः । विश्वाधियो विश्वस्य जगतः कारणत्वेन तस्मादधिकः *। रुद्रः। रुद्वैदिकः शब्दस्तं द्रवति प्राप्नोति वेदप्रतिपाद्य इत्यर्थः। महर्षिर्ऋषीणामतीन्द्रियद्रष्टृणां मध्ये महान्। यः सर्वज्ञः सर्वविदित्यादिश्रुतिप्रतिपाद्य इत्यर्थः। महर्षिर्ऋषीणामतीन्द्रियद्रष्टृणां मध्ये महान् ।यः सर्वज्ञः सर्वविदित्यादि श्रुतिप्रतिपाद्य इत्यर्थः। स देवस्तादृशः परमेश्वरो नोऽस्माञ्शुभया स्मृत्या सर्वसंसारनिवर्तकत्वेन शोभनया ब्रह्मतत्त्वानुस्मृत्या संयुनक्तु संयुक्तान्करोतु। सोऽयं मन्त्रो ब्रह्मविद्यालब्धये जपितव्य इति मन्त्रलिङ्गादवगभ्यते।
*ककारस्थाने व्यत्ययेन यकार इति भावः।
१ ङ. नुग्रहेण।
[[828]]
परिशिष्टत्वेन संगृहीतः- [अनु० १२] त्रयोदशीमाह — यस्मा॒त्परं॒ नाप॑र॒मस्ति॒ किंचि॒द्यस्मान्नाणी॑यो॒ न ज्यायो॑ ऽस्ति॒ कश्चि॑त्। वृक्ष इ॑व स्तब्धो दि॒वि ति॑ष्ठ॒त्येक॒स्तेने॒दं पूरु॑षेण॒ सर्व॑म्, इति। यदुक्तं शुभया स्मृत्या संयुनक्त्विति तत्र स्मरणीयं तत्त्वमत्र निर्दिश्यते। यस्मा-द्ब्रह्यतत्त्वात्परमुत्कृष्ट [मपरं निकृष्टं] वा वस्तु किंचिदपि नास्ति। [*यस्माद्ब्रह्मतत्त्वादणीयोऽत्यल्पं वस्तु नास्ति। तथा ज्यायोऽधिकमापि कश्चित्किंचिदपि वस्तु नास्ति।] परापरशब्दाभ्यां गुणोत्कर्षनिकर्षौ विवक्षितौ। ज्यायोणीयःशब्दाभ्यां परिमाणोत्कर्षापकर्षौ विवक्षितौ। सर्वप्रकारोत्कर्षापकर्षनिषेधेनाद्वितीयत्वं सिध्यति। तथा वृक्षो गमनागमनरहित एकत्रैव स्तब्धोऽवतिष्ठते तद्वदयमेवद्वितीय एकः परमेश्वरः स्तब्धो निर्विकारो दिवि द्योतनात्मके स्वप्रकाशरूपे तिष्ठति। तेन पुरुषेण चिदेकरसेनाऽऽ (न परमा) त्मना सर्वमिदं जगत्पूर्णम्। जगदाकारो नास्ति ब्रह्मतत्त्वमेव स्थितमेवेत्य(मित्व)र्थः। चतुर्दशीमृचमाह — न कर्म॑णा न प्र॒जया॒ धने॑न॒ त्यागे॑नैके अमृतत्वमा॑न॒शुः। परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां वि॒भ्राज॑दे॒तद्यत॑यो वि॒शन्ति॑, इति। यथोक्तब्रह्मतत्वस्मरणस्यातरङ्गं सर्वत्यागरूपं साधनमत्रोच्यते। अग्निहोत्रादिकं सहस्त्रसंवत्सरसत्रान्तं यत्कर्म तेन कर्मणा तदमृतत्वं न लभ्यते। “प्रजया पितृभ्यः” इति श्रुतेः पितृविषयादृणाद्विमोचनहेतुर्या पुत्रादिरूपा प्रजा तयाऽ[प्य]मृतत्वं न लभ्यते। दाने सर्वं प्रतिष्ठितं तस्माद्दानं परमं वदन्तीतिश्रुतेर्धनदानस्य बहुविधफलसाधनत्वावगमात्तस्य दानस्य निष्पादकं यद्धनमस्ति तेन धनेनाप्यमृतत्वं न लभ्यते। किं तर्हि कर्मप्रजाधनादीनां सर्वेषां लौकिकवैदिकव्यापाराणां त्यागेनैके केचिदेवान्तर्मुखा अमृतत्वमानशुः प्राप्रुवन्ति। यदमृतत्वं यतय इन्द्रियनियमनशीला विशन्ति प्राप्रुवन्ति त[दे]दमृतत्वं नाकं परेण स्वर्गादप्युत्कृष्टं सद्गुहायां स्वकीयबुद्वावेकाग्रायां निहितमवस्थितं सद्वि[भ्राजद्वि]भ्राजते विशेषेण दीप्यतेऽन्तर्मुखैरनुभूयत इत्यर्थः। पञ्च्यदशीमृचमाह — वे॒दा॒न्त॒विज्ञान॒सुनि॑श्चिता॒र्थाः संन्या॑सयो॒गाद्यत॑य शुद्ध॒सत्त्वाः॑। ते ब्र॑ह्मलो॒के तु॒ परा॑न्तकाले॒ परा॑मृता॒त्परि॑मुच्यन्ति॒ सर्वे, इति।
- त्रुटितोऽयमेतच्चिह्नान्तर्गतो ग्रन्थश्चतुःषष्ट्यनुवाकानुरोधिभाष्यात्संगृहीतः। प्रकृतग्र्भाष्यस्य तत्रात्र चैक्यात्।
१ ङ. स्मृत्याः। २ छ. स्मरणाय।
[[829]]
[अनु० १२] सभाष्यो दशमप्रपाठकः।
पूर्वस्यामृचि त्यागस्य मोक्षसाधनत्वमुक्तम्। अत्र हि (अन्यत्र) – “तरति शोकमात्मवित्” “ज्ञानदेव [तु] कैवल्यं प्राप्यते येन मुच्यते” इत्यादिश्रुतिस्मृतिषुज्ञानस्य(स्यैव) मोक्षहेतुत्वमुच्यते। अतोऽस्यामृचि विरोधपरिहाराय ज्ञानसंन्यासयोर्मोक्षे पृथगुपयोग उच्यते। वेदान्ता उपनिषद्वाक्यानि तैरुत्पन्नं सर्वसंसारनिवर्तकत्वेन विशिष्टं ज्ञानं यदस्ति तेन सुनिश्चितो जीवब्रह्मैक्यलक्षणोऽर्थो यैः पुरुषैस्ते वेदान्तविज्ञानसुनिश्चितार्थाः। संन्यासः पूर्वोक्त(त्त्कः)प्रजादित्यागस्तत्पूर्वको [*योगः प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपाणां पञ्चानां चित्तवृत्तीनां निरोधः] “योगश्चित्तवृत्तिनिरोधः” [*इति पतञ्जलिना सूत्रितत्वात्। तस्माद्योगाच्छुद्धसत्त्वा विषयभोगव्यावृत्तचित्ताः ]। अत एव यतयो नियमशीलाः। एतेन ज्ञानं तत्वप्रकाशनेनाविद्यानिवर्तकं त्यागस्तु विषययो(भो)गनिवृत्तिद्वारा चित्तशुद्धिहेतुरिति पृथगुपयोग उक्तो भवति। ब्रह्मणो लोको दर्शनं साक्षात्कारस्तस्मिन्नु्त्पन्ने सति संसारिविलक्षणास्ते पुरुषाः। वैलक्षण्यद्योतनार्थस्तुशब्दः। तादृशाः पुरुषाः सर्वे [परिमुच्यन्ति] परिमुच्यन्ते। ज्ञानिषु देवमनुष्यत्वादिकृत उत्तमाधमभावोऽप्रयोजक इति विवक्षया सर्व इत्युक्तम्। कदा मुच्यन्त इत्याशङ्क्य परान्तकाल इत्युक्तम्। सत्यज्ञाने यो देहपातावसरः सोऽयमपरान्तकालः पुनर्देहग्रहणस्य विद्यमान्वात्। नष्टे त्वज्ञाने यो देहपातावसरः सोऽयं परान्तकालः पुनर्देहग्रहणरहित्वात्। तस्मिन्परान्तकाले संसारबन्धनाद्विमुच्यन्ते। ननु तत्व(त्वा)ज्ञानिनोऽपि प्रलयकाले स्थूलसूक्ष्मशरीरद्वयबन्धनान्मुच्यन्त एवेत्याशङ्क्य परामृतादि[त्युत्कम्। ] जगत्कारणत्वेनोत्कृष्टं परं तत्वज्ञानमन्तरेण विनाशरहितत्वादमृतं तादृशात्परामृतादव्याकृतादज्ञानिनः प्रलयकालेऽ[पि] न मुच्यन्ते ज्ञानिनस्तु देहपातावसर एव तादृशादव्याकृतादपि मुच्यन्त इति [वि]शेषः।
षोडशीमृचमाह —
द॒ह्यं॒ वि॒पा॒पं प॒रमे॑श्मभूतं॒ यत्पु॑ण्डरी॒कं पु॒रम॑ध्यसँ॒स्थम्।
त॒त्रा॒पि॒ द॒ह्यं ग॒गनं॑ विशोक॒स्तस्मि॑न्यद॒न्तस्तदुपा॑सित॒व्यम्, इति।
तत्वं ज्ञातुमसमर्थस्य सूक्ष्मोपाय उच्यते। यदेतत्पुण्डरीकमष्टदलमस्ति। कीदृशम्। [दह्यं] दहरमल्पम्। विपापं शुद्धं शरीरसंबन्धिदोषैरपरामृष्टत्वात्। परस्याऽऽत्मनो मेश्मभूतं वकारस्थाने मकारश्छान्दसः। वेश्मभूतं गृहभूतं सर्वदा तत्रोप-
- त्रुटितोऽयमेतञ्चिह्नान्तर्गतो ग्रन्थश्चतुःषष्ट्यनुवाकानुरोधिभाष्यात्संगृहीतः। प्रकृतर्ग्भाष्यस्य तत्रात्र चैक्यात्।
१ छ. “सारन्निव”।
[[830]]
परिशिष्टत्वेन संगृहीतः– [अनु० १२]
लभ्यत्वात्। पुरस्य शरीरस्य मध्ये संस्थितं राज्ञ इव पुरमध्ये प्रासादः। तत्रापि दहरे पुण्डरीके दह्यं [दहरं] सूक्ष्मं गगनमाकाशवदमूर्तं ब्रह्मरूपमस्ति। ब्रह्मणः सर्वगतत्वेऽपि घटाकाशवत्पुण्डरीकस्थानापेक्षया दह्यत्वमुपचर्यते। तथा च श्रुत्युन्तरम्-“[अथ] यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्” इति। दहराकाशस्य च ब्रह्मत्वं दहराधिकरणे निर्णीतम्। अत एव विशोकः शोकरहितं गगनशब्दवाच्यं ब्रह्म। एवं सति तस्मिन्पुण्डरीकेऽन्तर्मध्ये यद्ब्रह्मतत्वमस्ति तदुपासितव्यं विजातीयप्रत्ययरहितेन सजातीयप्रत्ययप्रवाहेण चिन्तनीयम्। सप्तदशीमृचमाह — यो वेदादौ स्वरः प्रो॒क्तो॒ वे॒दान्ते॑ च प्र॒तिष्ठि॑तः। तस्य॑ प्र॒कृति॑लीन॒स्य॒ यः॒ प॑रः स म॒हेश्व॑रः (३), इति। अजो॑ऽन्य॒ आवि॑वेश॒ सर्वे॑ च॒त्वारि॑च॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि द्वादशोऽनुवाकः॥*१२॥ वेदानाम् — “अग्रिमीळे पुरोहितम्” “इषे त्वोर्जे त्वा” इत्या[दीनामा] दिरुपक्रमस्तस्मिन्नुपक्रमे यः स्वरो यो वर्णः प्रणवरूपोऽस्ति [+स च स्वरः प्रणवो वेदान्ते चोपनिषद्योमित्येतदक्षरमिदं सर्वमित्यादिकायां प्रतिष्ठितः प्रतिपादितः,] स च स्वरः प्रणवो ध्यानकालेऽव्याकृते जगत्कारणे लीनो भवति। अकारोकारमकारेषु विराड्ढिरण्यगर्भाव्याकृतानि ध्यात्वा विराड्रूपमकारमुकारे प्रविलाप्य तं चोकारं हिरण्यगर्भरूपं मूलप्रकृतिरूपे मकारे प्रविलापयेत्। तस्य च प्रकृतौ लीनस्य प्रणवस्य यः परश्चतुर्थमात्रारूपेण नादे ध्यातव्य उत्कृष्टोऽस्ति सोऽयं महेश्वरो विज्ञेयः। अनेन मन्त्रेण पूर्वोक्तं गगनशब्दवाच्यं वस्तु प्रपञ्चितम्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि द्वादशोऽनुवाकः॥*१२॥
- अत्र घ.पुस्तके (२८) अङ्को वर्तते। +त्रुटितोऽयमेतञ्चिह्नान्तर्गतो ग्रन्थश्चतुःषष्टधनुवाकानुरोधिभाष्यात्संगृहीतः। प्रकृतर्ग्भाष्यस्य तत्रात्र चैक्यात्।
[[831]]
[अनु० १३] सभाष्यो दशमप्रपाठकः।