अथैकोदशोऽनुवाकः।
अथ विहितानुष्ठानरूपं पुण्यं ज्ञानसाधनतया प्रशंसति। निषिद्धाचरणरूपं तु ज्ञानप्रतिबन्धकतया निन्दति — यथा॑ वृ॒क्षस्य॑ सं॒पुष्पि॑तस्य दू॒राद्ग॒न्धो वा॑त्ये॒वं पुण्य॑स्य
- अत्र घ. पुस्तके (२४) अङ्को वर्तते।
[[821]]
[अनु० १] सभाष्यो दशमप्रपाठकः। क॒र्मणो॑ दू॒राद्ग॒न्धो वा॑ति॒ यथा॑ऽसिधा॒रां क॒र्तेऽव॑हि- तामव॒क्रामे॒ यद्युवे॒ युवे॒ हवा॑ वि॒ह्वयि॑ष्यामि क॒र्तं प॑ति- ष्या॒मीत्ये॒वम॒मृता॑दा॒त्मानं॑ जु॒गुप्से॑त्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषद्ये- कादशोऽनुवाकः॥ ११॥ यथा वृक्षस्योद्यानादौ स्थितस्य चम्पकादिलक्षणस्य संपुष्पितस्य सम्यग्विका-सितपुष्पोपेतस्य यो गन्धः [सुरभिरस्ति सोऽयं] दूराद्दूरदेशाद्वाति वायुना सहाऽऽग- च्छति, एवं पुण्यस्य कर्मणो ज्योतिष्टोमादेः सत्कीर्तिः सुगन्धसमाना दूराद्वाति। मनुष्यलोकात्स्वर्गे गच्छति। तस्मात्पुण्यमनुष्ठेयम्। अथ पापस्य दृष्टान्त उच्यते — यथा लोके कश्चित्कदाचित्केनचिद्धेतुना [कर्ते] गर्ते गर्तस्योपरि तिर्यक्काष्ठवदवहितां प्रसारितामसिधारामहमवक्रामे पादाभ्यामुपर्युपरि गच्छामि(मी)[तीच्छति तदा] यद्यदि युवे युवे याम्यायामि तदाऽसिधारया पादयोर्द्दढस्पर्शो भविष्यति। [ततः] पादच्छेदस्य(दः स्यात्।) यदि दृढस्पर्शाभावः [कंर्त] कर्ते गर्ते पतिष्यामि। अभयथा दुःखमेवेति विह्वयिष्यामि विह्वलितो भविष्यामि तस्मादस्मात्कर्मण उपरम इति चिन्तयति *यथैवं मुमुक्षुरप्यमृतान्मोक्षप्राप्तिहेतोरात्मानमन्तःकरणं स्थिरीकृत्य पापाज्जुगुप्सेत्। यदि पापं प्रकटं करिष्यामि तदा लोकैरहं निन्द्ये यदि रहसि+ तदा नरके याम्यैरहं पीड्ये तस्माद्बही रहसि च न पापं करिष्य इत्युपरम्यताम्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि भाष्य एकादशोऽनुवाकः॥ ११॥