अथ दशमोऽनुवाकः।
अथ ज्ञानसाधनं चित्तैकाग्र्यरूपं तपोऽस्ति, “मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः” इति श्रुतेः। तत्तपः श्रौतस्मार्तसर्वकर्मस्वरूपतया प्रशंसति। यद्वा तथाविधतपः-सिद्ध्यर्थं जप्यं मन्त्रमाह — ऋ॒तं तपः॑ स॒त्यं तपः॑ श्रु॒तं तपः॑ शा॒न्तं तपो॒ दम॒स्तपः॒ शम॒स्तपो॒ दानं॒ तपो॒ यज्ञं॒ तपो॒ भूर्भुवः॒ सुव॒र्ब्रह्मै॒तदुपा॑स्यै॒तत्तपः॑, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि दशमोऽनुंवाकः॥ १०॥ ऋतं मनसा यथार्थवस्तुचिन्तनम्। सत्यं वाचा यथार्थं भाषणम्। श्रुतं वेदस्य पूर्वोत्तरभागार्थावबोधायोभयोर्मीमांसयोः श्रवणम्। शान्तं शान्तिर्बा[ह्येन्द्रियाभ्यन्तरे-न्द्रियोपरतिः] दमो दमनं यथोक्तोपवासादिभिः शरीरकर्षणम्। शमः शत्रुप्वपि क्रोधरा-हित्यम्। दानं धनेषु स्वत्वनिवृत्तिः परस्वत्वापादनपर्यन्तम्। यज्ञोऽग्निहोत्रादीनि [कर्माणि]। तदेतत्सर्वमर्वाचीनं तपः। भूरादिलोकत्रयात्मकविराङ्देव(ह) रूपं यद्ब्रह्मास्ति हे मुमुक्षवेतद्ब्रह्मोपास्य विजातीयप्रत्ययरहितं सजातीयप्रत्ययप्रवाहं कुरु। एतहुपासनं तपः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि दशमोऽनुवाकः॥ १०॥