अथ नवमोऽनुवाकः।
अथ लब्धानां वेदानामविस्मरणाय जप्यं मन्त्रमाह — नमो॒ ब्रह्म॑णे धा॒रणं॑ मे अ॒स्त्वनि॑राकरणं धा॒रयि॑ता भूयासं॒ कर्ण॑योः श्रु॒तं मा च्यो॑ढ्वं॒ ममा॒मुष्य॒ ओम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि नवमोऽनुवाकः॥ ९॥ ब्रह्मणे जगत्कारणाय नमोऽस्तु। तत्प्रसादान्मदीये चित्ते ग्रन्थतदर्थयोर्धारणमस्तु। अनिराकरणं निराकरणं विस्मरणं यथा न भवति तथा धारयिता भूयासम्। अमुष्येत्थं प्रार्थयमानस्य मम कर्णयोर्यत्किंचिद्वेदशास्त्रादिकं यदा कदाचि- १ घ. २२॥ २ छ. ०र्थ्यार्थाय। अ०। ३ ध. २३॥
[[820]]
परिशिष्टत्वेन संगृहीतः — [अनु० १०-११] दपि श्रुतमासीत्तत्सर्वं [हे] देव मा च्योढ्वं मा विनाशय। ततोऽहर्मो स्थिरं धारण-मिति शेषः॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये नवमोऽनुवाकः॥ ९॥