०८

अथ ष्टमोऽनुवाकः।


अर्थ(थ) ज्ञानप्रतिपादककृत्स्नवेदान्तप्राप्तिकामेन जप्यं मन्त्रमाह — यश्छन्द॑सामृ॒षभो वि॒श्वरू॑प॒श्छन्दो॑भ्य॒श्छन्दाँ॑स्यावि॒वेश॑। सचा ँ शिक्यः पुरोवाचो॑पनि॒षदिन्द्रो॑ ज्ये॒ष्ठ इ॑न्द्रि॒याय॒ १ घ. २१॥

[[819]]

[अनु० १] सभाष्यो दशमप्रपाठकः।

ऋषि॑भ्यो॒ नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुवः॒ सुव॒श्छन्द॒ ओम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिष द्यष्टमोऽनुवाकः॥ ८॥ यः प्रणवश्छन्दसां वेदानां मध्य ऋषभ(भो) ज्येष्ठो विश्वरूपः सर्वजगदात्मकः। एतदेवर्षभत्वं विश्वरूपत्वं च सांहित्यामुपनिषदि प्रपञ्चितम्। तादृशः प्रणवश्छन्दोभ्यो वेदेभ्यः प्रादुर्भूत इति शेषः। वेदसारत्वेन प्रजापतेः प्रत्यभादित्यर्थः। स च पुनश्छन्दांसि गायत्र्यादीन्याविवेश। छन्दोभिरुपलक्षितेषु मन्त्रेषु प्रयोक्तव्यः। तथा च प्रपञ्चसारेऽभिहितम् — “अस्य [तु] वेदादित्वात्सर्वम[नूनां] प्रयुज्यते ह्यादौ” इति। तेन प्रणवेन प्रतिपांद्य इन्द्रः परमैश्वर्ययुक्तः परमात्मोपनिषत्पुरोवाच। उपनिषद्ब्र( षदं ब्र)ह्म[विद्यां] वेदान्तसिद्धान्तमुक्तवान्। कीदृश इन्द्रः। सचां सतां शिक्यः सद्भिः कर्मानुष्ठायिभिरुपासकैर्ज्ञानिभिश्च प्राप्तुं शक्यः। ज्येष्ठः कारणत्वेन सर्वस्मात्प्रथमः। किमर्थं विद्यामुक्तवान्, तदुच्यते। ऋषिभ्य ऋषीणामन्तर्मुखानां(णां) जिज्ञासूनामिन्द्रियाय ज्ञानसामर्थ्याय । अतोऽहं तत्प्रतिबन्धनिवारणाय देवेभ्यश्च पितृभ्यश्च नमस्करोमि। भूर्भुवःसुवर्लोकत्रयावस्थितं छन्दो मन्त्रब्राह्मणात्मकं वेदमों प्राप्नोति(मि)॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्येऽष्टमोऽनुवाकः॥ ८॥