अथ सप्तमोऽनुवाकः।
पुनरपि पूर्वोक्तप्रयोजनकाहुतिचतुष्टयमन्त्रा उच्यन्ते — पा॒हि नो॑ अग्न॒ एक॑या। पा॒ह्यु॑त द्वि॒तीय॑या। पा॒ह्यूंर्ज॑ तृ॒ती- य॑या। पा॒हि गी॒र्भिश्च॑त॒सृभि॑र्वसो॒ स्वाहा॑, इति॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि सप्तमोऽनुवाकः॥ ७॥ हेऽग्ने हे वसो जगन्निवासहेतो त्वमेकयर्ग्वेदलक्षणया गिराऽभिष्ठुतः सन्नोऽस्मान्पहि। तदर्थमिदमाज्यं तुभ्यं स्वाहा सुहुतमस्तु। स्वाहाशब्दः सर्वत्रानुषज्यते। उतापि च द्वितीयया यजुर्वेदरूपा गिराऽभिष्ठुतः सन्नोऽस्मान्पाहि स्वाहा। किंच तृतीयया सामावेदात्मिकया गिराऽभिष्ठुतः सन्नः संबन्ध्यूर्जमन्नमन्नरसं च पाहि स्वाहा। अपि चर्ग्यजुः सामाथर्वणरूपाभिश्चतसृभि[र्गीर्भिरभि]ष्टुतः सन्नः पाहि स्वाहा॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये सप्तमोऽनुवाकः॥ ६॥