अथ षष्ठोऽनुवाकः।
पूर्वत्र भूरग्नय इत्यनुवाके सर्वसाधारणाः पापक्षयार्था होममन्त्रा उक्ताः। अथ प्रतिबन्धनिवारणेन मुमुक्षोर्ज्ञानप्राप्त्यर्थं होममन्त्रा उच्यन्ते — पाहि नो अग्न एन॑से स्वा॒हा। पाहि नो विश्ववेद॑से स्वा॒हा। यज्ञं पाहि विभाव॑सो स्वा॒हा। सर्वं पाहि शतक्र॑तो स्वा॒हा, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषदि षष्ठोऽनुवाकः॥ ६॥ १ घ. १९॥ २ घ. २०॥ १०३
[[818]]
परिशिष्टत्वेन संगृहीतः — [अनु० १] हेऽग्ने नोऽस्मानेनसो ज्ञानप्रतिबन्धकात्पापात्पाहि रक्ष। तुभ्यमिदं स्वाहा सुहुत-मस्तु। नोऽस्माकं विश्वेवेदसे कृत्स्नतत्त्वज्ञानसिद्धार्थ पाहि तत्साधनसंपादनेन पालय। तदर्थं तुभ्यमिदं स्वाहा सुहुतमस्तु। विशेषेण भानं दीप्तिर्विभा सैव वसु धनं यस्याग्नेः सोऽयं विभावसुः। हे विभावसो यज्ञं विविदिषाहेतुत्वेनास्माभिरनुष्ठीयमानं पाहि, निर्विघ्नेन समाप्तिं नीत्वा पालय। शतसंख्याः क्रतवो येनाग्निना निष्पाद्यन्ते सोऽयं शतक्रतुः। हे शतक्रतो सर्वं ज्ञानसाधनं गुरुशास्त्रादिकं पाहि॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये षष्ठोऽनुवाकः॥ ६॥