अथ पञ्चमोऽनुवाकः।
महत्त्वकामस्य तत्फलका होममन्त्रा उच्यन्ते — भूर॒ग्नये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा॒ भुवो॑ वा॒यवे॑ चा॒न्तरि॑- क्षाय च मह॒ते च॒ स्वाहा॒ सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा॒ भूर्भुवः॒ सुव॑श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा॒ नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुवः॒ सुव॒र्मह॒रोम्, इति॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापपनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये पञ्चमोऽनुवाकः॥ ५॥ तिस्रो देवता महर्महत्त्वं सर्वपूज्यत्वं दद्युरिति शेषः। महत इत्यग्न्यादीनां विशे-षणं वचनलिङ्गविपरिणामेना[न्यत्राप्य]न्वेतव्यम्। एतत्सर्वं मान्त्रिक्यो देवता ओमङ्गी कुर्वन्तु। समानमन्यत्॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापपनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये पञ्चमोऽनुवाकः॥ ५॥