०४

अथ चतुर्थोऽनुवाकः।


इतः परं केवलपापक्षयार्था मन्त्रा उच्यन्ते। आज्यमेवात्र होतव्यं नान्यन्मन्त्रलि-ङ्गाभावात्। आज्यस्य सर्वहोमसाधारणत्वात्। फलान्तरानुक्तेः पापक्षय एव फलम्। भूर॒ग्नये॑ पृथि॒व्यै स्वाहा॒ भुवो॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॒ सुव॑रा- दि॒त्याय॑ दिवे स्वाहा॒ भूर्भुवः॒ सुव॑श्चन्द्रम॑से दि॒ग्भ्यः स्वाहा॒ नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुवः॒ सुव॒रग्न ओम् ( ४ ), इति॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप- निषदि चतुर्थोऽनुवाकः॥ ४॥

  • अयं तुशब्दोऽधिक इव भाति। १ घ.॥ १७॥ २ घ.॥ १८॥

[[817]]

[अनु० १] सभाष्यो दशमप्रपाठकः। भूरादयस्तिस्रो लोके प्रसिद्धा इदमाहुतिद्रव्यं स्वीकृत्यास्मत्पापं निवारयन्त्विति शेषः। हेऽग्ने त्वमपि मत्प्रार्थितमोम्, कर्तुमङ्गी कुरु॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापपनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये चतुर्थोऽनुवाकः॥ ४॥