०३

अथ तृतीयोऽनुवाकः।


अतः परं पापक्षयार्थद्वाराऽन्नकामस्य होममन्त्रानाह। भूसंस्काराद्याज्यसंस्कारान्तं स्वगृह्योक्तविधया कर्म कृत्वैतैर्मन्त्रैराज्यं मन्त्रलिङ्गादन्नं वा होतव्यम्। अयं प्रधानयागः स्विष्टकृदादि च पुनर्गृह्येण विधिना कर्तव्यम् — भूरन्न॑म॒ग्नये॑ पृथि॒व्यै स्वाहा॒ भुवोऽन्नं॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा॒ सुव॒रन्न॑मादि॒त्याय॑ दि॒वे स्वाहा॒ भूर्भुवः॒ सुव॒रन्नं॑

  • एतदग्ने “अ॒ग्निश्च॒त्वारि॑” च इति परिगणनं क्वचित्प्रसिद्धम्। १ घ.॥ १६॥

[[816]]

परिशिष्टत्वेन संगृहीतः — [अनु० १] च॒न्द्रम॑से दि॒ग्भ्यः स्वाहा॒ नमो॑ दे॒वेभ्यः॑ स्व॒धा पि॒तृभ्यो॒ भूर्भुवः॒ सुव॒रन्न॒मोम् ( ३ ), इति॥

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोप- निषदि तृतीयोऽनुवाकः॥ ३॥ भूर्भुवः सुवरिति त्रीणि पदान्यव्ययानि त्रैलोक्याधिष्ठानदेवतावाचकानि च। भूः पृथिव्यधिष्ठानदेवता मह्यमन्नं दद्यादिति शेषः। तदर्थं च चरुरूपमन्नं मयाऽस्मिन्स्मार्ताग्नौ स्वाहा सुहुतमस्तु। कस्मै। अग्नये पृथिव्यधिष्ठिताय पृथिव्या अग्न्यधिष्ठात्र्यै च। पर्यायद्वयेऽपीत्थमेव व्याख्याप्रकारः। चतुर्थपर्याये तु भूः, भुवः, सुवः, एतास्तिस्रो-ऽधिष्ठात्र्यो मह्यमन्नं दद्युरिति शेषः। समानमन्यत्। एवं प्रधानयाग(गं) स्विष्टकृता कृत्वाऽन्ते प्राङ्मुखीभूय नमो देवेभ्य इति मन्त्रेण देवान्दक्षिणामुखः स्वधा पितृभ्य इति मन्त्रेण पितॄंश्चोपतिष्ठते। स्वधाशब्दः पितृप्रियं नमस्काराद्युपचारं ब्रूते। दैव्यत्वाद्धोमस्य *तु(?)। पिण्डदानादिपैतृकप्रकरणे पठितोऽयमेव स्वधाशब्दः पितॄनुद्दिश्येदं कव्यं स्व-धासु निहितमस्त्वित्यमुमर्थं ब्रूते। ओंकारोऽभ्यनुज्ञां कथयति। अस्मत्प्रार्थितमन्नं दातुं भूर्भुवः सुवस्तिस्रो देवता ओम्, दद्यामेत्यङ्गी कुर्वन्त्वित्यर्थः। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधे- ययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये तृतीयोऽनुवाकः॥ ३॥