अथ द्वितीयोऽनुवाकः।
तत्रा(अथा)निष्टपरिहारार्थत्वेन जप्या मन्त्रास्तत्र प्रथमामृचमाह — जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो निद॑हाति॒ वेदः॑। स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः, इति। वेदांसि वेदनानि ज्ञानानि तानि जातान्युत्पन्नानि यस्मादग्नेः सोऽयं जातवेदाः। आधानेन संस्कृतेऽग्नौ पश्चात्कर्तव्यविषयाणि ज्ञानान्युत्पद्यन्ते तस्मै जातवेदसे यागकाले लतात्मकं सोमं सुनवामाभिषुतं करवाम। स्वयं सर्वं वेत्तीति वेदाऽग्निः, स चारातीयतोऽस्मास्वरातित्वं कर्तुमिच्छतः पुरुषान्निदहाति नितरां भस्मी करोति। किंच सोऽग्निर्नोऽस्माकं विश्वा दुर्गाणि सर्वा आपदोऽतिपर्षत्, अतिशयेन नाशितवानित्यर्थः। किंच यथा लोके नावा सिन्धुं समुद्रं [नाविकस्तारयति तथाऽग्निर्दुरिता दुरितानि पापान्यतिशयेन] तारयतीति शेषः। द्वितीयामृचमाह — ताम॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा॑म्। दुग्रां दे॒वी ँ शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः॑, इति। येयं वन(?)दुर्गाकल्पादिषु वन(?)शास्त्रेषु प्रसिद्धा तां दुर्गां शरणं प्रपद्ये। कीदृशीम् [अग्निवर्णाम्,] अग्निसमानवर्णाम्। तपसा स्वकीयेन संतापेन ज्वलन्ती-मस्मच्छत्रून्दहन्तीम्। विशेषेण रोचते स्वयमेव प्रकाशते इति विरोचनः परमात्मा तेन दृष्टत्वाद्वैरोचनीम्। कर्मफलेषु स्वर्गपशुपुत्रादिषु निमित्तभूतेषु जुष्टामुपासकैः सेविताम्। हे सुतरसि सुष्टु संसारतरणहेतो देवि तरसे तारयित्र्यै तुभ्यं नमोऽस्तु।
[[814]]
परिशिष्टत्वेन संगृहीतः — [अनु० १] तृतीयामाह — अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान्त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑। पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शंयोः, इति। हेऽग्ने नव्यः स्तोतव्यस्त्वमस्मान्स्वस्तिभिः क्षेमकारिभिरुपायैर्विश्वा दुर्गाण्यति सर्वा आपदोऽतिशयेन लङ्घयित्वा पारय संसारपारं(पर)तीरं नय। नोऽस्माकं त्वत्प्र- सादात्पूश्च निवासयोग्या पुरी पृथ्वी सा विस्तीर्णा भवतु। उर्वी सस्यनिष्पादनयोग्या भूमिरपि बहुला भवतु। त्वं च तोकाय तनयायास्मदपत्याय तदीयपुत्राय च शंयोर्भव सुखस्य मिश्रयिता भव। चतुर्थीमाह — विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धुं॒ न ना॒वा दु॑रि॒ताऽति॑पर्षि। अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नो॑ऽस्माकं बोध्यवि॒ता त॒नूना॑म्, इति। हे जातवेदो दुर्गहा सर्वासामापदामपहन्ता विश्वानि त्वं दुरिता सर्वाणि पापानि नावा सिन्धुं न समुद्रमिव नोऽस्मानतिपर्षि, अतिशयेन तारयसि। हेऽग्नेऽत्रिवदाध्या-त्मिकादितापत्रयरहितत्वेनात्रिशब्दवाच्यो जीवन्मुक्तो महर्षिः “आत्मौपम्येन भूतानां दयां कुर्वीत मानवः” इत्येतच्छास्त्रमनुसृत्य “सर्वे च सुखिनः सन्तु सर्वे सन्तु निरामयाः” इत्येवं मनसा यथा सर्वदा भवति (भावयति) तथा त्वमपि मनसा गृणान उच्चारयन्भा-वयन्नस्माकं तनूनामविता रक्षिता भूत्वा बोधि बुध्यस्व सावधानो भवेत्यर्थः। पञ्चमीमाह — पृ॒त॒ना॒जितँ॒ सह॑मानमु॒ग्रम॒ग्नि ँ हु॑वेम पर॒मात्स॒धस्था॑त्। स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वो अति॑दुरि॒ताऽत्य॒ग्निः, (*१)। पृतना परकीयसेना तां जयतीति पृतनाजित्तम्। अत एव सहमानं शत्रूनभिभ-वन्तमुग्रं भीतिहेतुमग्निं परमादुत्कृष्टात्सधस्थात्स्वकीयैर्भृत्यैः सहावस्थानदेशाद्धुवे ऽऽह्वयामः। स न इत्यादि पूर्ववत्। किंचाग्निर्देवः क्षामदस्मानपराधिनः क्षममाणो-ऽतिदुरिताऽतिशयितानि पातकानि ब्रह्महत्यादीन्यति लङ्घयतीति शेषः। षष्ठीमृचमाह — प्र॒त्नोषि॑ क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑। स्वां चा॑ग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒माय॑जस्व, इति॥
- घ. पुस्तकेऽयमङ्को नास्ति। १ ङ. ०हर्ता त्वं।
[[815]]
[अनु० १] सभाष्यो दशमप्रपाठकः। हेऽग्ने त्वमध्वरेषु यागेष्वीड्यः स्तुत्यः सन्कं प्रत्नोषि प्रतनोषि विस्तारयसि। सनाच्च कर्मफलस्य दाताऽपि सन्हो[ता हो]मनिष्पादको नव्यः स्तुत्योऽपि भूत्वा सत्सि सीदसि यागदेशे तिष्ठसि। अतो हेऽग्ने स्वां च स्वकीयामपि तनुवं पिप्रयस्व स्वकीयहविषा प्रीणय। ततोऽस्मभ्यं च सौभगं शोमनभाग्योपनीतत्वमायजस्व सर्वतो देहि। सप्तमीमृचमाह — गोभि॒र्जुष्ट॑म॒युजो॒ निषि॑क्तं॒ तवे॑न्द्र विष्णो॒रनु॒संचरेम। नाक॑स्य पृ॒ष्ठम॒भि सं॒वसा॑नो॒ वैष्ण॑वीं लो॒क इ॒ह मा॑दयन्ताम्*॥इति। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यते दशमप्रपाठके नारायणोपनिषदि द्वितीयोऽनुवाकः॥ २॥ हे इन्द्र वयं तव व्यत्ययेन त्वामनुसंचरेम। भृत्या इव त्वत्सेवका भवेमेत्यर्थः। तव कथंभूतस्य। न युज्यते पापैर्दुःखैश्चेत्ययुक्तस्यायुजः। तथा विष्णोः सर्वयागेशु व्यापक-शीलस्य। किमुद्दिश्य, गोभिर्धेनुभिर्जुष्टं निषेवितममृतधाराभिर्निषिक्तं महाभाग्यमुद्दिश्येति शेषः। किंच सर्वे देवा मां मादयन्तां वञ्छितप्रदानैर्हर्षयन्तु। कुत्र। इह लोके भूमौ। सर्वे देवाः कथंविधाः, नाकस्य पृष्ठमुपरिभागमभि सर्वतः संवसानो व्यत्ययेन संवसाना आश्रित्य विद्यमानाः। मां कथंभूतम्, वैष्णवीं विष्णु संबन्धिनीं भक्तिं कुर्वाणमिति शेषः॥ कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये द्वितीयोऽनुवाकः॥ २॥