०१

[[783]]

  • अथ परिशिष्टम्।

कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमः प्रपाठकः। नारायणोपनिषत्। ( तत्र प्रथमोऽनुवाकः।


ह॒रिः॒ ॐ स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। सह वी॑र्यं॑ करवा- वहै। ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै॑॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑। इति शान्तिः।


विचार्यं सर्ववेदान्तैः संचार्यं हृदयाम्बुजे। प्रचार्य सर्वलोकेषु आचार्यं शंकरं भजे॥ १॥ पद्मपादो विश्वरूपो हस्तामलकत्रोटकौ। अद्वैतदीक्षागुरवः साचार्याः पञ्च पान्तु माम्॥ २॥ एतानि पद्मपत्राणि चत्वारि हृदयाम्बुजे। मामकीने प्रकाशन्तां भुक्तिमुक्तिप्रसिद्धये॥ ३॥ नमो नमः कारणकारणात्मने नमो नमो मङ्गलमङ्गलात्मने॥ नमो नमोवेदविदां मनीषिणामुपासनीयाय नमो नमस्ते॥ ४॥ यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्॥ निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥ ५॥ वारुण्युपनिषद्युक्ता ब्रह्मविद्या सनातना॥ याज्ञिक्यां ख(खि)लरूपायां सर्वशेषोऽभिधीयते॥ ६॥

यथा बृहदारण्यके सप्तमाष्टमाध्यायौ खिलकाण्डत्वेनाऽऽचार्यैरुदाहृतौ तथेयं नारा-

  • अत्र ङ. पुस्तके मूले ॐ शंनो मित्रः शं वरुणः। ॰अवतु वक्तारण्। ॐ शान्तिः॥ ३॥ इत्यधिकम्। [[784]]

परिशिष्टत्वेन संगृहीनतः — [अनु॰ १] यणीयाख्या याज्ञिक्युपनिषदपि खिलकाण्डरूपा, तल्लक्षणोपेतत्वात्। कर्मोपा-सनाब्रह्मतत्त्वज्ञानेषु किंचिदवशिष्टं तस्य सर्वस्याभिधानेन प्रकीर्णरूपत्वं खिलत्वम्। बृहदारण्यके सप्तमाध्याये—“पूर्णमदः पूर्णम् " इत्यादिना ब्रह्मतत्त्वमभिहितम्। “ॐ खं ब्रह्म " इत्यादिभिरष्टमाध्यायगतैश्च “यो ह वै ज्यैष्ठ्यं(ज्येष्ठं) च श्रैष्ठ्यं(श्रैष्ठं) च वेद " इत्यादिभिर्वाक्यैर्नानाविधान्युपासनान्यभिहितानि। “अथ यः कामयेत महत्प्राप्नुयाम् " इत्यादिना मन्थाख्यं कर्माभिहितम्। तथा पुत्रविशेषादिकामनायुक्तानां तु तत्तत्कर्माण्यभिहितानि। एवमत्रापि “अम्भस्य पारे " इत्यादिना ब्रह्मतत्त्वमभिहितम्। “आदित्यो वा एष एतन्मण्डलम् " इत्यादिनोपासनमभिहितम्। “भूरन्नमग्नये पृथिव्यै स्वाहा " इत्यादिना कर्माण्यभिहितानि। तत्र कर्मणां बाहुल्याद्याज्ञिकीत्युच्यते। उपक्रमे ब्रह्मतत्त्वाभिधाना [*दुपसंहारे च तत्साधनानां सत्यादीनां संन्यासान्तानामभिधाना] दुपनिषदित्युच्यते। तदीयपाठसंप्रदायस्तु देशविशेषेषु बहुविध उपलभ्यते। तत्र यद्यपि शाखाभेदः कारणं तथाऽपि तैत्तिरीयशाखाध्यायकैस्तत्तद्देशनिवासिभिः शिष्टैरादृतत्वात्स- र्वोऽपि पाठ उपादेय एव। तत्र द्राविडानां चतुःषष्ठ्यनुवाकक्रमपाठः। कर्णाटकेषु केषांचिच्चतुःसप्ततिः(ति) पाठः। अपरेषां चाशीतिपाठः। तत्र वयं पाठान्तराणि सूचयन्तश्चतुःषष्ट्य(न्तोऽशीत्य)नुवाकपाठं प्राधान्येन व्याख्यास्यामः। [तत्र] प्रथमानुवाकस्याऽऽदौ काश्चिदृचो ब्रह्मतत्त्वं प्रतिपादयन्ति, तासु प्रथमामृचमाह– ॐ अम्भ॑स्य पा॒रे भुव॑नस्य॒ मध्ये॒ नाक॑स्य पृ॒ष्ठे म॑ह॒तो मही॑यान्। शुक्रेण॒ ज्योती ँषि समनु॒प्रवि॑ष्टः प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः, इति।

अम्भस्य बहुविधसमुद्रवर्तिजलस्य पारे परतीरे यो महान्प्रौढो लोकालोक-पर्वतादिस्ततोऽपि महीयान्महत्तरोऽयं महे(परमेःश्वरः। तथा भुवनस्य भूगोलस्य मध्ये महान्मेर्वादिस्ततोऽपि महत्तरः। नाकस्य पृष्ठे स्वर्गस्योपरि यो महान्ब्रह्मलोकादिस्ततोऽपि महत्तरः। तथा च च्छन्दोगा आमनन्ति—“ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः” इति। “स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः स एवेद ँ सर्वम् " इति [च ]। स परमेश्वरः शुक्रेण जीवचैतन्यरूपेण भासकेन ज्योतींषि निर्मलत्वेन भासकान्यन्तःकरणानि सम्यगनुप्रविष्टः। “तत्सृष्ट्वा तदेवानुप्राविशत् " इति श्रुतेः। गर्भे ब्रह्माण्डरूपेऽन्तर्मध्ये प्रजापतिर्विराड्रपो भूत्वा चरति प्रवर्तते। विराड्रूपमाथर्वणिका आमनन्ति—“अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः। वायुः प्राणो हृदयं विश्वमस्य पभ्द्यां पृथिवी " इत्यादि। अग्निः प्रकाशयुक्तो द्युलोकः।


  • त्रुटितमिदं चतुःषष्ट्यनुवाकानुरोधिभाष्यात्संगृहीतम्। प्रकृते तस्यास्य च तौल्यात्।

[[785]]

[अनु॰ १] सभाष्यो दशमप्रपाठकः। सर्वव्यापी परमेश्वरो वस्तुतस्तथाविध एव सन्मायावशाद्देहेषु जीवरूपेण ब्रह्माण्डे च विराड्रूपेणावस्थित इत्यर्थः। द्वितीयामृचमाह—- यस्मि॑न्निद ँ सं च॒ वि चैति॒ सर्वं॒ यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः। तदे॒व भू॒तं तदु॒ भव्य॑मा इ॒दं तद॒क्षरे॑ पर॒मे व्यो॑मन्, इति।

इदं सर्वं जगद्यस्मिन्नव्याकृते मूलकारणे समेति च [ व्येति च। ] सृष्टिकाले समुत्पन्नं सत्संगतमपि भवति। शं चेति पाठे सुखमपि प्राप्नोतीति व्याख्येयम्। संहारकाले विलीनं सद्विगतमपि भवति। अध्यधिका हिरण्यगर्भविराडादयो देवा विश्वे सर्वेऽ(र्वे य)स्मिन्नव्याकृते मूलकारणे निषेदुर्नितरामाश्रित्यावस्थिताः, तदेव सृष्टिसंहारयोर्देवानां चाऽऽधारभूतमव्याकृतमेवेत्यर्थः। [*भूतमतीतं जगत्। भव्यं भविष्यज्जगदिदं वर्तमानमपि जगत्तदु तदेवाव्याकृतम्।] आ इत्याश्चर्ये। प्रसिद्धिर्वा तस्यार्थः। तत्तादृश-मव्याकृतमक्षरेविनाशरहिते परम उत्कृष्टे व्योमन्नाकाशवदमूर्ते परमात्मनि वर्तत इति शेषः।

तृतीयामृचमाह— येना॑ऽऽवृ॒तं खं॑ च॒ दिवं॑ म॒हीं च॒ येना॑ऽऽदि॒त्यप॑ति॒ तेज॑सा॒ भ्राज॑सा च। यम॒न्तः स॑मु॒द्रे क॒वयो॒ वय॑न्ति॒ यद॒क्षरे॑ पर॒मे प्र॒जाः, इति। वाजसनेयिनो गार्गिब्राह्मणे परमात्मन्याश्रितं यदव्याकृतमधीयते—“एत- स्मिन्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च " इति तत्पूर्वस्यामृच्यभिहितम्। अस्यां तु तेनाव्याकृतेनोपहितं जगत्कारणं चैतन्यमभिधीयते। येन सच्चिद्रूपेण कारणेन खमन्तरिक्षलोको दिवं द्युलोको महीं भूलोक इत्येतत्सर्वमावृतं व्याप्तम्। चकाराभ्यां तत्तल्लोकवासिनो देहाः समुच्चीयन्ते। तेऽपि कारणेन व्याप्ताः। अत एवोक्ताः सर्वेऽपि सद्रूपतया भासन्ते। येन परमेश्वरेणानुगृहीत आदित्यस्तेजसा स्वकीयमण्डलान्तर्गतभास्वररूपेण भ्राजसा च प्रसारितरश्मिरूपया दीप्त्या च तपति सर्वमिदं जगदभितप्तं प्रकाशितं च करोति। कवयस्तत्त्वविदो यं परमात्मानं समुद्रेऽन्तः समुद्रोपलक्षितस्य कृत्स्नस्य जगतो मध्ये तन्तूनिव वयन्ति। यथा पटस्वरूपे तन्तवोऽनुगतास्तस्य कृत्स्नस्य मनुगतं पश्यन्ति। तच्च ब्रह्मतत्त्वमक्षरे विनाशरहिते परम उत्कृष्टे निजस्वरूपेऽवस्थाय प्रजा उत्पादतीति शेषः। स्वरूपेऽवस्थानं छन्दोगाः प्रश्नोत्तराभ्यामामनन्ति—


  • चतुःषष्ट्यनुवाकानुरोधिभाष्यात्संगृहीतं त्रुटितत्वात्प्राकृते तेनास्य विरो- धाभावात्। ९९

[[786]]

परिशिष्टत्वेन संगृहीत: — [अनु॰ १] “स भगवन्कस्मिन्प्रतिष्ठित इति स्वे महिम्नि " इति। आधारान्तरराहित्यमेव स्वस्मिन्नवस्थानम्। यदक्षर इति पाठेऽपि तच्छब्दार्थत्वेनैव व्याख्येयम्। चतुर्थीमाह— यतः॑ प्रसृ॒ता ज॒गतः॑ प्रसूती॒ तोये॑न जी॒वान्व्यच॑सर्ज॒ भूम्या॑म्। यदोष॑धीभिः पु॒रुषा॑न्प॒शू ँश्च॒ विवे॑श भू॒तानि॑ चराच॒राणि॑, इति।

पूर्वमन्त्रे जगत्कारणमव्याकृतोपहितं यच्चैतन्यमुक्तं तस्य त्रिजगदुत्पाद(पा- दा)नत्वं प्रपञ्च्यते। आत्मन आकाशः संभूत इत्यारभ्यान्नात्पुरुष इत्यन्तेन ग्रन्थेन पूर्वमभिहिता जगतः [प्रसूती] प्रसूतिः सृष्टिरुत्पत्तिर्यतो यस्मादव्या- कृताच्चैतन्यात्प्रसूता प्रवृत्ता तच्चैतन्यं क(का)रणभूतं तोयेन जलोपलक्षितेन भूतपञ्चकेन जीवान्मनुष्यगवादीञ्जीवदेहान्भूम्यां भूमौ व्यचसर्ज विशेषेणासृजत्। व्यससर्जेति पाठेऽपि तथैव व्याख्येयम्। तथा च चै(यच्चै)तन्यरूपं मायाविशिष्टं कारणमोपधीभिव्रींहियवादिभिरुपलक्षितमन्नं भूत्वा पुरुषान्मनुष्यान्पशूंश्च तदुपलक्षितानि स्थावरजङ्गमशरीराण्यपि प्रविवेश। वृक्षादिस्थावरेषु वृष्टिजलरूपेण प्रवेशः। तेन चैतन्येन सर्वं जगत्पालितमिति शेषः।

पञ्चमीमृचमाह— अतः॑ परं॒ नान्य॒दणी॑यस ँ हि॒ परा॑त्परं॒ यन्मह॑तो म॒हान्त॑म्। यदे॑कम॒व्यक्त॒मन॑न्तरूपं॒ विश्वं॑ पुरा॒णं तम॑सः॒ पर॑स्तात् (?), इति। पूर्ववाक्योक्तेन जगत्कारणत्वाकारेणोपलक्षितं शुद्धं वस्त्वत्र निरूप्यते। यद्वस्तु परादुत्कृष्टाद्धिरण्यगर्भादेरपि परमत्यन्तमुत्कृष्टम्, यच्च महत आकाशादेर्महान्तं महत्, यदप्येकं सजातीयविजातीयस्वगतभेदरहितम्, अव्यक्तमिन्द्रियागम्यम्, अनन्तरूपं देशकालवस्तुपरिच्छेदशून्यं, विश्वं जगदात्मकं, पुराणमनादिसिद्धं, तमसः परस्तादज्ञानात्पृथग्वर्तते। अतो वस्तुनोऽन्यद्वस्त्वणीयसमत्यन्तदुर्लक्ष्यं परमुत्कृष्टं नास्ति।

विश्वविशेषणेन यत्सर्वजगदात्मकत्वमुक्तं तदेतत्पष्ठीसप्तमीभ्यामृग्भ्यां प्रपञ्चयति— तदे॒वर्तं तदु॑ स॒त्यमा॑हु॒स्तदे॒व ब्रह्म॑ पर॒मं क॑वी॒नाम्। इ॒ष्टा॒पूर्वं ब॑हु॒धा जा॒तं जाय॑मानं वि॒श्वं बि॑भर्ति॒ भुव॑नस्य॒ नाभिः॑॥ तदे॒वाग्निस्तद्वा॒युस्तदु॑ च॒न्द्रमाः। तदे॒व शु॒क्रम॒मृतं॒ तद्ब्रह्म॒ तदापः॒ स प्र॒जाप॑तिः॥


  • पाठे सत्यपीति योज्यम्।

[[787]]

[अनु॰ १] सभाष्यो दशमप्रपाठकः। मनसा यथावस्तु चिन्तनमृतं वाचा तदुच्चारणं सत्यमेतदुभयमपि तदेवाधिष्ठानं ब्रह्मैव। कवीनां वेदशास्त्रपारं गतानां परमुत्कृष्टं प्रमाणत्वेनाऽऽदरणीयं यद्ब्रह्म वेदरूपं वस्तु तदपि स्वाधिष्ठानवस्तु(भूत)परब्रह्मात्मकमेव। इष्टं दर्शपूर्णमासादि श्रौतं कर्म पूर्तं वापीकूपादि स्मार्तं कर्म तदुभयमपि तदेव ब्रह्म। तथा बहुधा जातं पूर्वकल्पतत्पूर्वकल्पादिरूपेण बहुप्रकारमुत्पन्नमिदानीमपि तथा जायमानं विश्वा सर्व जगद्भुवनस्य नाभिश्चक्रमाभिवत्सर्वलोकस्याऽऽधारभूतः परमात्मा बिभर्ति। अत आधेयं सर्वमधिष्ठानस्वरूपमेव। अग्निवायुसूर्यचन्द्रमसोऽपि तदेव। तथा शुक्रं दीप्यमानं नक्षत्रादिकममृतं देवैः सेव्यं पीयुषमेतदुभयमपि तदेवाधिष्ठानरूपमेव। यद्ब्रह्म हिरण्यगर्भरूपं तदेतधिष्ठानात्मकमेव। याश्चाऽऽपो जलोपलक्षितानि पञ्च भूतानि यश्च प्रजापतिर्विराड्रूपस्तदुभयमप्यधिष्ठानरूपमेव। यद्यज्जगदविद्यादृष्ट्या नानाविधं प्रतीयते तत्सर्वं विद्यादृष्ट्याऽखण्डैकरसं ब्रह्मैव। अत एव दृष्टिद्वयमभिप्रेत्य वाजसनेयिनः समामनन्ति—“यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति” इत्यविद्यादृष्टिः। “यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् " इति विद्यादृष्टिः।

ननु—-“प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तम " इति विष्णुपुराणे कालस्य नित्यत्वाभिधानाद्विद्यादृष्ट्याऽपि ब्रह्मरूपत्वं नास्तित्याशङ्क्य पुराणस्याविद्यादृष्टिविषयत्वमभिप्रेत्य विद्यादृष्ठ्या कालस्य ब्रह्मत्वविवक्षया ब्रह्मणः सकाशादुत्पत्तिमष्टमीनवमीभ्यां दर्शयति— सर्वे॑ निमे॒षा ज॒ज्ञिरे॑ वि॒द्युतः॒ पुरु॑षा॒दधि॑। क॒ला मु॑हू॒र्ताः काष्ठा॑श्चाहोरा॒त्राश्च॑ सर्व॒शः॥ अ॒र्ध॒मा॒सा मासा॑ ऋ॒तवः॑ संवत्स॒रश्च॑ कल्पन्ताम्। स आपः॑ प्रदु॒घे उ॒भे इ॒मे अ॒न्तरि॑क्ष॒मथो॒ सुवः॑, इति॥ निमिर्नाम जनकस्य पूर्वज आद्यो मिथिलेश्वर आसीदित्युपनिषदि वर्तते। देवप्रसादाद्येष्वक्षिपक्ष्मपातेषु [स ] वर्तते [ते निमिषाः।] त एव निमेषा उच्यन्ते। पक्ष्मपा तपरिमिताः सूक्ष्माः कालविशेषा इत्यर्थः। ते सर्वे विद्युतः स्वयंप्रकाशमानात्पुरुषात्परमेश्वरादधिजज्ञिर आधिक्येनोत्पन्नः। निमेषेभ्योऽप्यधिकाः कालविशेषाः काष्ठास्ताभ्योऽप्यधिकाः कलास्ततोऽप्यधिका अहोरात्राः।

तथा च पूर्वग्रन्थकारैरुक्तम्— “अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला। तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम्॥ ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च।

[[788]]

परिशिष्टत्वेन संगृहीत: — [अनु॰ १] चकारावनुक्तसमुच्चयार्थौ। सर्वेऽपि कालविशेषाः समुत्पन्ना इत्यर्थः। लवत्रुट्यादिस्वरूपं पूर्वाचार्यैरुक्तम्—- “नलिनीपत्रसंहत्याः सूक्ष्मसूच्यभिभेदने। दले दले तु यः कालः स कालो लववाचकः॥ लवैस्त्रुटिः स्यात्त्रिंशद्भिः " इति।

अर्धमासाः शुक्लकृष्णरूपा मासाश्चैत्रवैशाखाद्या ऋतवो वसन्तग्रीष्माद्याः सर्वेऽपि परमेश्वरादधिजज्ञिरे। तथा संवत्सरश्च प्रभवादिरूपः कल्पन्तां परमेश्वरादुत्पन्नः*। अत एव स्वप्रयोजनसमर्थो भवति। कल्पन्तामिति +बहुवचनपाठे कालविशेषाः स्वस्वप्रयोजनयोग्या इति योज्यम्। (स) परमेश्वरः स्वनिर्मितेन कालविशेषेणोपलक्षितः संस्ततः कालौचित्येनाऽऽपः प्रदुघे जलापलक्षितां पृथिवीं दुग्धवान्। प्राणिनामपेक्षितं भोग्यजातं पृथिव्यां संपादितवानित्यर्थः। तथैवान्तरिक्षमेकं स्थानमथो अपि च सुवः स्वर्गोऽपरं स्थानमिमे उभे अपि स्थाने प्रदुघे, तयोरपि स्थानयोर्भेग्यं वस्तु संपादितवा-नित्यर्थः।

ननु काललोकादिसर्वकारणस्य सर्वत्रानुगतत्वात्कुतः प्राणिभिरसौ न गृह्यत इत्याशङ्क्यैतस्य परमात्मन ऊर्ध्वाद्याकारविशेषाभावाद्रूपाद्यभावाच्चेति मन्त्रद्वयेन दर्शयति— नैन॑मू॒र्ध्वं न ति॒र्यञ्चं॒ न मध्ये॒ परि॑जग्रभत्। न तस्ये॑शे॒ कश्च॒न तस्य॑ नाम म॒हद्यशः॑ (२)॥ न सं॒दृशे॑ तिष्ठति॒ रूप॑मस्य॒ न चक्षु॑षा पश्यति॒ कश्च॒नैन॑म्। हृ॒दा म॑नी॒षा मन॑सा॒ऽभिक्लृ॑प्तो॒ य ए॑नं वि॒दुरमृ॑ता॒स्ते भ॑वन्ति, इति।

कश्चिदपि पुरुष एनं परमात्मनं स्तम्भवदूर्ध्वाकारमुपरिस्थितक(शा)ला- वंशवत्तिर्यगाकारं वा गृहान्तर्वर्तिदेवदत्तवत्क्वचिन्मध्ये वा स्थितं न परिजग्रभत्, [न परिगृह्णाति] ऊर्ध्वत्वाद्याकाराणां तस्मिन्नभावात्। किंच तस्य परमात्मनः कश्चन कोऽपि पुरुषो नेशे नेष्टे नामग्रहणे सौकर्यार्थमीदृग्भवेति नियन्तुं न समर्थः। अत एव तस्य परमात्मनो महद्यश इति नाम संपन्नम्। अत्यन्तस्वतन्त्रत्वेन तदीययशसोऽभ्यधिकत्वांत्। किंचास्य परमात्मनो रूपं नीलपीतादिकं संदृशे प्राणिनां दृष्टिविषये न तिष्ठति। “अशब्दमस्पर्शमरूपम् " इत्यादिश्रुतेः। कश्चन कुशलोऽपि पुमानत्यन्तं पटुना चक्षुषैनं (न) पश्यति। कथं तर्हि गुरुशास्त्रोपदेशयुक्तो गृह्णातीति चेदुच्यते–हृदा


  • एकवचनस्थाने व्यत्ययेन बहुवचनमित्यभिप्रायेणेदम्। + कल्पन्तामिति यथाश्रुतं बहुवचनमेवेति स्वीकारेऽपि बाधकाभाव इति वक्तुमाह।

[[789]]

[अनु॰ १] सभाष्यो दशमप्रपाठकः। हृदयपुण्डरीकमध्यवर्तिना मनीषा लौकिकवस्तुगोचराणि मनांसीष्ट इति मनीट्तथाविधेन मनसाऽन्तःकरणेनाभिक्लप्तः सर्वतो निश्चितो भवति। योगयुक्तं हि मनो लौकिकीर्मनोवृत्तीर्नियमयति। तेन चान्तर्मुखेनै(णै)काग्रेण मनसा परमात्माऽनुभवितुं शक्यते। “दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः " इति श्रुतेः। ये पुरुषा एनं परमात्मानं मनसा विदुः साक्षात्कुर्वन्ति ते पुरुषा अमृता मरणरहिता भवन्ति। देहात्प्राणानामुत्क्रान्तिर्मरणं तच्च तत्त्वविदां नास्ति “न तस्य प्राणा उत्क्रमन्त्यत्रैव समवलीयन्ते” इति श्रुतेः। उक्तार्थदार्ढ्याय प्रदेशान्तरपठितान्मन्त्रानुदाहरति—- अ॒द्भ्यः संभू॑तो हिरण्यग॒र्भ इत्य॒ष्टौ, इति।

अद्भ्यः संभूतः पृथिव्यै रसाच्चेत्ययमनुवाकश्चातुर्होत्रि(त्री)यचयनमन्त्रप्रकरणे समाम्नातः, तस्यानुवाकस्य (प्र)दर्शनार्थमद्भ्यः संभूतं इति प्रतीकमिदं पठितम्। तस्मिन्ननुवाके तमेवं विद्वानमृत इह भवतीति परमात्मतत्त्वविदो मरणराहित्यमुक्तम्। “हिरण्यगर्भः समवर्तताग्ने " इत्यष्टावृचः संहितायाश्चतुर्थकाण्डे प्रथमप्रपाठके समाम्नातः*।

  • एतदग्नेऽधिको ग्रन्थो वर्तते स यथा—- अ॒द्भ्यः संभू॑तः पृथि॒व्यै रसा॑च्च। वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑। तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पेम॑ति॥ तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे॑, इति।

अद्भ्य उदकेभ्यंऋ पृथिव्यै पृथिव्याः। व्यत्ययो बहुलमिति पाणिनीयस्मरणादत्र विभक्तिव्यत्ययः। रसशब्द क्षीराज्याति(दिषु) प्रसिद्धः। आज्यस्य तेजस्त्वं " तेजो वा आज्यम् " इति श्रुतेः। अनया रीत्या रसात्तेजस इत्यर्थः संपद्यते। पृथिव्यप्तेजसां ग्रहणं वाय्वाकाशयोरुपलक्षणम्। तथा चायमर्थः। विश्वकर्मणो विश्वं ब्रह्माण्डं कर्म कार्यं यस्य तस्माद्विश्वकर्मणः पञ्चभूतद्वारा संभूत उत्पन्नः। यद्वा रसशब्दः परमात्मनो विशेषणं " रसो वै सः " इति वारुण्युपनिषद्युक्तत्वात्। आब्रह्मस्तम्बपर्यन्तानां देवतिर्यङ्मनुष्याणां पाञ्चभौतिकत्वप्रसिद्धेरादित्यस्यापि पाञ्चभौतिकत्वं प्रसिद्धम्। किंचैवंभूत आदित्यश्चन्द्रनक्षत्रग्रहतारकादितेजस्विदेवताभ्य इन्द्रादीतरदेवताभ्यश्चाध्य-धिकस्तेजसोत्कृष्टः समवर्तत बभूव। अपि च त्वष्टा देदीप्यमान आदित्यस्तस्य परमात्मनो रूपं तेजो विदधद्धरन्नेत्युदेत्युदयाचलमारोहतीत्यर्थः। सूर्यादिषु यत्तेजस्तत्परमात्मसंबन्धीति सर्ववेदान्तडिण्डिमः। य एवंविधः सविता तस्य पुरुषस्य पूर्णस्याग्ने दृष्टिपथे तत्प्रसिद्धमा समन्ताज्जायत इत्याजानं समस्तं विश्वं वर्तते इति शेषः। निखिलजगत्प्रतिभानं भगवदादित्याधीनमित्यभिप्रायः।

द्वितीयमन्त्रमाह— वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑म्। आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात्। तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति। नान्यः पन्था॑ विद्य॒तेऽय॑नाय, इति।

[[790]]

परिशिष्टत्वेन संगृहीत: — [अनु॰ १] कश्चन सूर्योपासकः स्वानुभवं प्रकटयति। एनमाकाशमण्डले दृश्यमानं पुरुषं पूर्णमादित्यस्य वर्ण इव वर्णः कान्तिर्यस्य तमादित्यवर्णमादित्यस्य समानोपमाभावात्। सो(स्वो)पमानं स्तुत्य प्रयुक्तं तमसोऽन्धकारात्परस्ताद्दृरे वर्तमानं भगवन्तं सवितारमहं वेद जानामि। किंच तं पूर्वोक्तविशेषणविशिष्टमेवं पूर्वोक्तविधया वक्ष्यमाणविधया च विद्वाञ्जानन्नमृतो भवति। अयनाय मोक्षमार्गा यान्यः पन्था न विद्यते।

तृतीयमन्त्रमाह— प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः। अ॒जाय॑मानो बहु॒धा विजा॑यते। तस्य॒ धीरा॒ परि॑जानन्ति॒ योनि॑म्। मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑, इति। प्रजानां पतिः पालको गर्भे रोदस्योर्मध्ये चरति संचरति। किंच स्वयमजाय- मानोऽनुत्पद्यमानो बहुधा चराचररूपेण विजायते। सूर्य एव सर्वात्मको जायत इत्यर्थः। ये पुण्यपुरुषा गुरुप्रकारस्य कर्तारो मरीचीनां वेदविशेषाणां पदं स्थानमिच्छन्ति ते धीरा वेधसो जगतां विधातुस्तस्य सूर्यस्य योनिं कारणं परमात्मानं परितः सर्वत्र पूर्णत्वेन जानन्ति जानीयुरित्यर्थः।

चतुर्थमन्त्रमाह— यो दे॒वेभ्य॒ आत॑पति। यो दे॒वानां॑ पु॒रोहि॑तः। पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः नमो॑ रु॒चाय॒ ब्राह्म॑ये, इति। यो देवेभ्यः कर्मानुष्ठानद्वारा देवानामुपकारार्थमातपति यो देवानां पुरोऽग्ने हितो हितकारी यः समस्तदेवेभ्यः पूर्वः प्रथमं जात उत्पन्नः सर्वदेवज्येष्ठस्तस्मै रुचाय देदीप्यमानाय ब्रह्मणः परमात्मनः पुत्रो ब्राह्मिस्तस्मै ब्राह्मये सूर्यदेवाय नमोऽस्तु। पञ्चमं मन्त्रमाह— रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः। दे॒वा अग्ने॒ तद॑ब्रुवन्। यस्त्वे॒वं ब्रा॑ह्म॒णो वि॒द्यात्। तस्य॑ दे॒वा अस॒न्वशे॑, इति।

देवा देवः परमात्माऽग्ने महान्सर्गादावृचमृग्वेदरूपं ब्राह्मं ब्रह्मणो देव(वेद?)- स्य संबन्धिनं सर्ववेदान्तवेद्यमित्यर्थः। सूर्यं जनयन्ति उत्पादयंस्तद्वक्ष्यमाणं वाक्यमब्रुवन्नब्रवीत्। पूज्यत्वात्परमात्मन एकवचने बहुवचनप्रयोगो वेदेन कृतः। ननु देवा इति बहुवचनमिन्द्रादिदेवतापरं किमर्थं न भवतीति चेन्न। तेषां सूर्यजनकत्वे मानाभावात्। पूर्वो यो देवेभ्य इत्यत्रेन्द्रादिभ्यः पूर्वं सूर्योत्पत्तिश्रवणाच्च। तद्वक्ष्यमाणवचनं दर्शयति—यो ब्राह्मणः। तुशब्द एवकारार्थः। एवं पूर्वोक्तरीत्या विद्याज्जानाति तस्य ब्राह्मणस्य वशे स्वाधीने देवाः शचीपतिप्रमुखा असन्भवन्ति। इति सूर्यनारायण(स्य) स्वरूपेण परिज्ञाने सर्वदेववशीकारः फलभिति भावः।

षष्ठमन्त्रमाह— ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ॑। अ॒हो॒रा॒त्रे पा॒र्श्वे। नक्ष॑त्राणि रू॒पम्। अ॒श्विनौ॒ व्यात्त॑म्। इष्टं म॑निषाण। अ॒मुं म॑निषाण। सर्व॑ मनिषाण, इति। पूर्वमन्त्रे सूर्यं परोक्षतया स्तुत्वैतन्मन्त्रेऽपरोक्षतयाऽभिष्टवीति। भो भगवन्नादित्य निखिलजगत्संजीवन ते तव लक्ष्मीरिन्दिरा हरीन्दिरा ह्रीर्हरति सौन्दर्येण मनांसीति ह्रीर्मनोहराऽतिसुन्दरी भारती। अनयैव व्युत्पत्त्या ह्रीशब्दः पार्वतीवाचकोऽपि द्रष्टव्यः। सरस्वती लक्ष्मीः पार्वती च पत्न्यौ भार्याः।

[[791]]

[अनु॰ १] सभाष्यो दशमप्रपाठकः। सूर्यस्य श्रुतिस्मृतिपुराणेषु त्रिमूर्त्यात्मकत्वेन प्रसिद्धत्वात्। [अहोरात्रे पार्श्वे। स्पष्टम्]। नक्षत्राणि रूपमाकारः। अश्विनौ व्यात्तं मुखम्। चक्राभ्यां सर्वं ब्रह्माण्डं तदवयवभूतमित्यर्थः। एवमभिष्ठितो भगवाञ्श्रीसूर्यो भक्ताय प्रत्यक्षो भूत्वा ब्रवीति। भो भक्तेष्टमभीष्टं मन्मत्त इषाणेच्छ प्रार्थय। अमुं परलोकमिषाण। यद्यन्मनसि वर्तते तत्सर्वमिषाण। अत्र दैर्घ्यं छान्दसम्। अनित्यतन्त्र एकतवर्गनिष्ठत्वात्तकारस्थाने नकारप्रयोगश्छान्दसः। एवं सूर्योणोक्तो भक्तस्तत्सर्वं प्रार्थितवान्। सूर्योऽपि दत्तवान्। अयमपि कृतार्थो जातः। [अथ] प्रथमामृचमाह— हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्ने॑। भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत्। स दाधार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम, इति।

यस्मात्परमात्मनः सकाशाद्धिरण्यर्भश्चतुर्मुखो ब्रह्माऽग्ने सृष्टयादौ समवर्तत संभूतो जातः। स च यत्प्रसादाद्भूतस्य भुवनजातस्यैक एव पतिरासीत्। स परमात्मा पृथिवीं द्याभिमां प्रत्यक्षामुतापि दाधार धृतवान्। तं परमात्मानं विनाऽन्यस्मै कस्मै हविषा हविष्मता यज्ञेन विधेम विध्यनुष्ठानं कुर्मो न कस्मैचित्किंतु तस्यैव प्रीत्यर्थं सर्वं श्रौतं स्मार्तं कर्म कुर्मः।

द्वितीयामाह— यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑। य ईशे अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम, इति। यः परमात्मा प्राणतः प्राणवतो निमिषवतो निमिषवतो जङ्गमस्य स्थावरस्य मध्ये विद्यमानान्द्विपदो मनुष्यपक्ष्यादींश्चतुष्पदो गोमहिष्यादीनीशे शिक्षयति सर्वप्राणिहृदयपुण्डरीके स्थित्वाऽन्तर्यामितया जगत्सर्वं पुण्यषापेषु प्रेरयति, तं परमात्मानं विनेत्यादि पूर्ववत्।

तृतीयामाह— य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ देवाः॒। यस्य॑ छा॒याऽमृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम, इति। य आत्मानं जीवरूपं ददातीत्यात्मदो बलमन्नादिपुष्टिं ददातीति बलद उभयत्र दैर्घ्यं छान्दसम्। यस्य परमात्मनः प्रशिषमाज्ञां विश्वे सर्वे मनुष्याः सर्वेऽपि देवा उपासते मूर्ध्ना परिपालयन्ति। यस्य परमात्मनश्छायाऽऽश्रयः शरणागतत्वममृतं मोक्षहेतुर्यस्याशरणागतत्वं मृत्युर्नरकहेतुः। तं परमात्मानं विनेत्यादि पूर्वंवत्।

चतुर्थीमाह— यस्ये॒मे हिमव॑न्तो महित्वा यस्य॑ समुद्र ँ रसया॑ स॒हाऽऽहुः। यस्येमाः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ द॒वाय॑ ह॒विषा॑ विधेम, इति। इमे भूण्डले विद्यमाना हिमवन्तो हिमवत्पर्वतप्रभृतिमहामेरुर्विन्ध्ये सह्यत्रिकूटाचलप्रभृतिपर्वताः, यस्य परमात्मनो महित्वा महित्वानि विभूतयः। हिमवन्त इत्यत्र हिमाचलस्य सर्वपर्वतराजन्यत्वात्तन्नामपूर्वकं छत्रिन्यायेनेतरेषां ग्रहणम्। यतो जगन्माता भागीरथी च तदुत्तरौ (तत्र स्थिता?) तस्मादित्यर्थः। किंच रसाशब्दो नदीवाची। जातावेकवचनम्। रसया नद्या गङ्गादिसर्वनदीभिः

[[792]]

परिशिष्टत्वेन संगृहीत: — [अनु॰ १] [सह] समुद्रं लवणादिसमुद्रान्यस्य परमात्मनो विभूतिमाहुर्वेताः कथयन्ति। इमाश्चतस्रः प्राच्यदिदिशो यस्य परमात्मनोऽवयवाः। प्रदिशो विदिश आग्नेय्याद्या यस्य परमात्मनो बाहू। अनया रीत्या गिरिनदीवृक्षादि सर्व परमात्मनो विभूतिरित्युक्तम्। तं परमात्मानं विनेत्यादि पूर्ववत्।

अथ पञ्चमी— यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने। यत्राधि॒ सू॒र उदि॑तौ॒ व्येति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ ह॒विषा॑ विधेम, इति।

यत्र ययोर्द्यावापृथिव्योरध्यन्तराले सूरः सूर्य उदितः सन्व्येति शिशुमारचकं परितो भ्राम्यति। ते द्यावापृथिव्यौ कीदृश्यौ, क्रन्दसी अतिवृष्टिविद्युत्पातादिना प्रलयाधारत्वेन च क्रन्दनस्य प्राणिरोदनस्य हेतुभूते। एतेन लयकारणत्वमुक्तम्। किंचावसा रक्षकेणान्नेन तस्तभाने जीवानां स्थितिं कुर्वाणे। एतेन जीवनहेतुत्वमुक्तम्। एतदुपलक्षणमुत्पत्तेरपि। जगदुत्पत्तिस्थितिलयकारणभूते। रेजमाने विराजमाने। एवंविधे रोदस्यौ यं परमात्मनं मनसा निर्मलमनोवृत्त्याऽभितः सर्व(त ऐक्षेता-) माध्यायतः। तं परमात्मानं विनेत्यादि पूर्ववत्।

अथ षष्ठी— येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृढे॒ येन॒ सुवः॑ स्तभि॒तं येन॒ नाकः॑। यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम, इति। अग्राऽशनिपातादिना क्रूरा द्यौः पृथिवी च येन परमात्मना (दृढे) दृढीकृते सर्वप्राणिधारणपोषणक्षमे कृते। येन परमात्मना सुवरादित्यमण्डलं स्तभितमन्तरिक्षे निराधारं स्थापितम्। अत एव भूमौ न पतति। येन परमात्मना नाकः स्वर्गनिष्ठविशेषः पुण्यात्मनामुपभोगाय निर्मितः। यः परमात्माऽन्तरिक्षे भुवर्लोके रजसो वृष्टिरूपोदकस्य विमानो निर्माणकर्ता तं परमात्मनं विनेत्यादिपूर्ववत्।

अथ सप्तमीमाह— आपो॑ ह॒ यन्म॑ह॒तीर्विश्व॒मायं॒ दक्षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम्। ततो॑ दे॒वानां॒ निर॑वर्त॒तासु॒रेकः॒ कस्मै॑ द॒वाय॑ ह॒विषा॑ विधेम, इति।

यद्यदा जगतीं निर्मातुं संकल्पितवांस्ततस्तदा परमात्माऽऽप उदकानि निर- वर्ततोत्पादयामास। आप इत्यत्र प्रथमाया द्वितीयायां तात्पर्यम्। आपः कीदृशीर्महतीः पूज्याः समुद्रादिरूपेण महापरिमाणा वा। पुनः कीदृशीरा समन्तादयः शुभावहो विधिर्यस्य तदायं दक्षं समस्तप्राणिधारणपोषणक्षमं विश्वं दधाना धारयन्तीः। अग्निं जनयन्ती। परमात्मा कीदृश एकोऽद्वितीयो देवादीनामसुर्ब्रह्मादीनां प्राणभूतो ह किल। निरवर्ततेत्यत्रान्तर्णिच्प्रत्ययार्थो बोध्यः। तं परमात्मानं विनेत्यादि पूर्ववत्।

अथाष्टमीमाह— यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒दृक्षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम्। यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ देवाय॑ ह॒विषा॑ विधेम, इति।

[[793]]

अनु॰ १] सभाष्यो दशमप्रपाठकः। दक्षं श्रौतस्मार्तकर्मानुष्ठानक्षममग्निं दधाना अग्निं जनयन्तीः। वडवाग्नेः समुद्रोदके विद्यमानत्वात्। आप उदकानि चिच्चिद्रूपो यः परमात्मा महिना महिम्ना। मलोपश्छान्दसः। पर्यपश्यन्निखिलजीवजीवने साधनत्वेनापश्यत्। यः परमात्मा सर्वेषु देवेष्वध्यधिकत्वेनैको देव आसीत्। तं परमात्मानं विना कस्मै देवाय हविषा विधेम न कस्मैचित्किंतु तत्प्रीत्यर्थमेव। सप्त पाकयज्ञाः सप्त हविर्यज्ञाः सप्त सोमसंस्था आहत्यैकविंशसंस्था अन्यत्पूर्तवापीकूपतटाकगोदानभूदानादि चानुष्ठाय समर्पयामः। व्याख्यातमन्यद्यत्किंचित्। )

अथेदानीं यथा हिरण्यगर्भादयः परमात्मन उपलक्षकास्तथा परमात्मना सृष्टं दिगादिकं जगादिकं जगद्विस्फूर्तिश्च परमात्मानमुपलक्षयतीति मन्त्रद्वयेन दर्शयति— ए॒ष हि दे॒वः प्र॒दिशोऽनु॒ सर्वाः॒ पूर्वो॑ हि जा॒तः स उ॒ गर्भे॑ अ॒न्तः। स वि॒जाय॑मानः स जनि॒ष्यमा॑णः प्र॒त्यङ्मुखा॑स्तिष्ठति वि॒श्वतो॑मुखः॥ वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात्। सं बा॒हुभ्यां॒ नम॑ति॒ सं पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑, इति।

[ एष ] विद्वद्भिरनुभूयमानो देवः स्वप्रकाशः परमात्मा प्रदिशः प्रकृष्टाः प्राच्याद्या आग्नेय्याद्याश्च दिशः सर्वा अनुप्रविश्यावस्थितः। प्रवेशस्य श्रुत्यन्तरप्रसिद्ध्यर्थो हिशब्दः। तथा पूर्वो जातो हिरण्यगर्भरूपत्वेनायमेव प्रथममुत्पन्नः। हिशब्देन हिरण्यगर्भः समवर्ततेतिमन्त्रप्रसिद्धिः सूच्यते। स उ स एव परमेश्वरो गर्भेऽन्तर्ब्रह्माण्डरूपस्य गर्भस्य मध्ये वर्तते। स एव विजायमानो देवतिर्यगादिरूपेणेदानीं जायते इतः परमपि जनिष्यमाणः स एव। स च प्रत्यङ्ङन्नमयादिकोशेभ्य आन्तरः। मुखा देहेन्द्रियाध्यक्षत्वेन मुख्यः। विश्वतः सर्वतो मुखानि रूपाद्युपल्धिद्वाराणि चक्षुरादीनि यस्यासौ विश्व-तोमुखस्तादृशोऽयं जगदधिष्ठानत्वेन तिष्ठति। स च ब्रह्माणडरूपदेहवत्त्वात्सर्वप्राणिनां च तद्देहस्वरूपत्वात्तदीयैः सर्वैश्चक्षुरादिभिर्युक्त इति विश्वतश्चक्षुरित्यदिभिः पदैरभिधीयते। तत्तल्लोकनिवासिनां प्राणिनां चक्षूंषि तत्र तत्र स्थितान्येवैतदीयानि भवन्ति। अतोऽस्य सर्वतश्चक्षुप्मत्त्वम्। एवं विश्वतोमुखत्वादिकं द्रष्टव्यम्। स च परमेश्वरो बाहुभ्यां संनमति बाहुसदृशाभ्यां धर्माधर्माभ्यां निमित्तकारणाभ्यां सर्वं जगद्वशी करोति। तथा संपतत्रैः पतनशीलैः पञ्चीकृतपञ्चमहाभूतैः संनमति सर्वं जगदुत्पादयति। एवमयं द्यावापृथिव्यादिकं कृत्स्नं जगदुत्पादयन्नेक एवावष्ठिते।

उक्तार्थे श्रद्धातिशयमुत्पादयितुं मन्त्रद्वयेन गन्धर्ववृत्तान्तं दर्शयति— वे॒नस्तत्पश्य॒न्विश्वा॒ भुव॑नानि वि॒द्वान्यत्र॒ विश्वं॒ भव॒त्येक॑नीळम्। यस्मि॑न्नि॒द ँ सं च॒ चैक॒ ँ स ओतः॒ प्रोत॑श्च मि॒भु प्र॒जासु॑॥ १००

[[794]]

परिशिष्टत्वेन संगृहीत: — [अनु॰ १ प्र तद्वोचे अ॒मृतं॒ नु वि॒द्वान्ग॑न्ध॒र्वो नाम॒ निहि॑तं॒ गुहा॑सु॥ त्रीणि॑ प॒दा निहि॑ता॒ गुहा॑सु॒ यस्तद्वेद॑ सवि॒तुः पि॒ता स॑त् (३), इति।

वेनो नाम गन्धर्वः सर्वप्राणिनां गुहासु बुद्धिषु निहितममृतं विनाशरहितं तद्वस्तु स्वानुभवेन विद्वान्प्रवोचे नु शिष्येभ्यः प्रोवाच खलु। कीदृशो वेनः। यत्र यस्मिन्परमात्मवस्तुनि विश्वं जगदेकनील(ळं) भवत्येकत्वेन विश्वमवस्थितं सत्तादात्म्यं प्राप्नोति तद्वस्तु गुरुशास्त्रप्रसादेन पश्यन्साक्षात्कुर्वन्विश्वा भुवनानि सर्वानपि लोकान्विद्वाञ्जानन्वर्तते। आत्मसाक्षात्कारे हि सर्वं जगत्तदात्मकमित्यवगतिर्भवति। किंच वेनेन दृष्टे यस्मिन्वस्तुनि परमात्मनीदं जगत्सं(च वि) चैति स्वयमुत्पद्यते विलीनं च भवति। एकमद्वितीयतत्त्वरूपः (स) परमात्मा विभुर्व्यापी सन्प्रजासु दीर्घतन्तुव-दोतस्तिर्क्तन्तुवत्प्रोतश्चावतिष्ठते। गुहासु प्राणिनां बुद्धिषु त्रीणि पदा जाग्र-त्स्वप्नसुषुप्तिरूपाणि त्रीणि स्थानानि निहिताऽवस्थितानि। योऽयं गन्घर्वस्तज्जागकाद्यनु(धि)ष्ठानं वेद स गन्धर्वः सवितुरुत्पादकस्य स्वकीयजनकस्यापि पिता सज्जनको भवति। लोकप्रसिद्धः पिता पुत्रस्य देहमात्रं जनयति ब्रह्मतत्त्वाभिज्ञास्तु परमात्मरूपेण सर्वजगदुत्पादकत्वाल्लोकप्रसिद्धस्य स्वजनकस्यापि स्वयमुत्पादको भवति। “यस्ता विजानात्सवितुः पिता सत् " इति श्रुत्यन्तरात्।

तस्य परमेश्वरस्य व्यवहारकाले सर्वप्राण्युपकारकत्वं परमात्मदर्शिनो मुक्तिप्रदत्वं च मन्त्रद्वयेन दर्शयति— स नो॒ बन्धु॑र्जनि॒ता स वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑। यत्र॑ दे॒वा अ॒मृत॑मानशा॒नास्तृ॒तीये॒ धामा॑न्य॒भ्यैर॑यन्त॥ परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः परि॑ लो॒कान्परि॒ दिशः॒ परि॒ सुवः॑ ऋ॒तस्य॒ तन्तुं॑ विततं वि॒चृत्य॒ तद॑पश्य॒त्तद॑भवत्प्र॒जासु॑, इति॥

स परमेश्वरो नोऽस्माकं सर्वेषां बन्धुः। अस्मदनुष्ठितसुकृतानुसारेण हितकारित्वात्। जनितोत्पादकः। भोक्तृ(स्रष्टृ)त्वात्। स च विधाता जगतो निर्माता सन्विश्वा भुवनानि सर्वानुत्तमाधमलोकान्धामानि तेषु देवादीनां योग्यानि स्थानानि च वेद जानाति। यत्र तृतीये लोके देवा इन्द्रादयोऽमृतमानशानाः सुधां पिबन्तो धामानि स्वकीयस्थानान्यभ्यैरयन्त सर्वतः प्राप्तवन्तः। तत्सर्वं विदित्वा तत्तदनुष्ठितकाम्यकर्मानुसारेण फलं प्रयच्छतीत्यर्थः। इह तु मुमुक्षवस्ते सर्वे विदिततत्त्वाः सन्तो द्यावापृथिवी लोकद्वयं सद्यः परियन्ति। बन्धमोक्ष(बोधक्षण) एव सर्वतो व्याप्नुवन्ति। तथा लोकनव(शि-ष्टा)नन्तरिक्षादीन्परियन्ति। दिशः प्राच्याद्याः परियन्ति। सुवः स्वर्गलोकभोगं परियन्ति। सर्वात्मकत्वेन सर्वव्याप्तिरुपपन्ना। ऋतस्य

[[795]]

अनु॰ १] सभाष्यो दशमप्रपाठकः। सत्यस्य परब्रह्मणस्तन्तुमविच्छेदेनावस्थानं विततं विस्तीर्णं यथा भवति तथा [विचृत्य] विवृत्य गुरुशास्त्रमुखान्निश्चित्य तद्ब्रह्मतत्त्वमपश्यद्यः साक्षात्कृतवान्स एव प्रजासु मध्ये तद्ब्रह्मतत्त्वमभवत्। तथा च श्रुत्यन्तरम्—“ब्रह्मविद्ब्रह्मैव भवति” इति।

अम्भस्येत्यादिना तदभवत्प्रजास्वित्यन्तेन ग्रन्थेन प्रतिपादितां ब्रह्मविद्यामुपसंहरति— प॒रीत्य॑ लो॒कान्प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॒ सर्वाः॑ प्र॒दिशो॒ दिश॑श्च। प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्या॒ऽऽत्मना॒ऽऽत्मान॑म॒भिसंब॑भूव, इति। ऋतस्य सत्यस्य ब्रह्मणः प्रथमजाः प्रथमकार्यभूतः प्रजापतिर्हिरण्यगर्भो रूप(लोका)न्भूरादीन्भूतानि देवमनुष्यादिप्राणिदेहान्प्रदिश आग्नेय्याद्या दिशश्च प्राच्याद्याः (परित्य) सर्वतो व्याप्य सृष्टिकाले सृष्ट्वा पुनरपि परीत्य स्थितिकाले रक्षित्वाऽऽत्मना स्वस्वरूपेण तद्विषयतत्त्वज्ञानेनेत्यर्थः। आत्मानं सत्यज्ञानादिलक्षणमभिसंबभूव सम्यक्सर्वतः प्राप्तवान्।

तदेवं ब्रह्मविद्या प्रतिपादिता। अतस्तत्प्राप्तिसाधनभूताः सोपाधिकब्रह्म-ज्ञानजपस्नानादिकर्माङ्गभूता मन्त्राः कर्मकाण्डे पूर्वमनुक्ता अस्मिन्खिल-काण्डेऽभिधीयन्ते। तत्रैकेन मन्त्रेण ब्रह्मप्राप्त्यर्थ[ *मन्तर्यामिणं प्रार्थयते— सद॑स॒स्पति॑मद्भुतं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म्। सनिं॑ मे॒धाम॑यासिषम्, इति।

सीदत्यस्मिन्नव्याकृते कारणे सर्वं जगदिति सदः, तस्य पतिं पालकमन्तर्या- मिणमयासिषमहं प्राप्तवानस्मि। शीघ्रं प्राप्तवानित्यनया विवक्षया भूतार्थ]-निर्देशः। कीदृशं सदसस्पतिमद्भुतमाश्चर्यरूपम्। मनसाऽप्यचिन्त्यरचनारूपस्य जगतोऽनायासेन निर्मातृत्वमद्भुतत्वम्। इन्द्रस्य देवराजस्यापि प्रियम्। सोऽप्यन्तर्यामिणं कदा प्राप्स्यामीत्येवमाशास्ते। अत एव सर्वैरन्यैः काम्यमपेक्षणीयम्। सनिं कर्मफलस्य दातारम्। मेधां श्रुत्यादि(ताधीत)ग्रन्थधारणशक्तिं प्रयच्छन्तमिति शेषः।

अथ वह्न्युपादिकं परमेश्वरं प्रतीष्टप्राप्तिं प्रार्थयते— उद्दी॑प्यस्व जातवेदोऽप॒घ्नन्निर्ऋ॑तिं॒ मम॑ (४)। प॒शू ँश्च॒ मह्य॒माव॑ह॒ जीव॑नं च॒ दिशो॒ दिश, इति।

जाते प्राणिशरीरे जाठराग्निरूपेण विद्यतेऽवतिष्ठत इति (जातवेदाः। हे) जातवेदो मदनुग्रहार्थमुत्कर्षेण दीप्यस्व। किं कुर्वन्। ममानिष्टकारिणी निर्ऋतिं पापदेवताम-


  • एतच्चिह्रान्तर्गतं चतुःषष्ट्यनुवाकभाष्यात्संगृहीतम्। प्रकृते तस्यास्य च साम्यात्।

[[796]]

परिशिष्टत्वेन संगृहीत: — [अनु॰ १] पघ्नन्विनाशयन्। तां विनाश्य ततो (मंह्य) मदर्थं पशून्गवाश्वादीञ्जीवनं दीर्घायुष्यं चकाराभ्यामन्यदपि सर्वं *गजाश्वादीनां भोगजातमावह संपादय। ततः सुखनिवासार्थं दिशः प्राच्याद्या निवासयोग्यानि तत्तद्दिगादिस्थानानि दिश देहि।

संपादितानां गवाश्वादीनामविनाशं प्रार्थयते— मा नो॑ हि ँसीज्जातवेदो॒ गामश्वं॒ पुरु॑पं॒ जग॑त्। अबि॑भ्र॒द॒ग्र आग॑हि श्रि॒या मा॒ परि॑पाताय, इति।

हे जातवेदस्त्वत्प्रसादान्नोऽस्मदीयं गवादिकं गृहक्षेमा(त्रा)दिकं च मा हिंसीन्मा विनाशयतु। जगच्छब्देन गवादिव्यतिरिक्तं गृहक्षेत्रादिकं विवक्षितम्। हेऽग्ने त्वमबिभ्रदधारयन्नस्मदपराधं मनस्यधारयित्वाऽऽगहि, अस्मदनुग्रहार्थमागच्छ। ततो मां श्रिया धनधान्यादिसंपदा परिपातय सर्वतः प्रापय।

इत ऊर्ध्वमेका(र्ध्वं द्वा)दशभिर्गायत्रीमन्त्रैः परब्रह्मसाक्षात्कारद्वारभूतास्तत्तल्लिङ्गोक्ता देवता मुमुक्षुरभ्यर्थयते। तत्राऽऽदौ विश्वरूपधरं रुद्रं प्रार्थयते—- पुरु॑षस्य विद्म सहस्रा॒स्य॑ महा॒देवस्य॑ धीमहि तन्नो॑ रुद्रः पिरचो॒दया॑त्, इति। विश्वतश्चक्षुरित्यादिमन्त्रोक्तो विराट्पुरुषः सहस्रक्ष(स्त)स्य पुरुषस्य स्वरूपं विद्म जानीमहि लभेमहि वा। तदर्थं तस्य विराड्रूपस्य महादेवस्य स्वरूपं धीमहि ध्यायेम। त(त्त)त्र ध्याने नोऽस्मान्नुद्रो विराड्रूपो महादेवः प्रचोदयात्प्रचोदयतु प्रेरययतु।

अथ “बिभ्राद्दोर्भिः कुठारं मृगमभयक(व)रौ सुप्रसन्नो महेशः " इत्या- गमेन(मप्र)सिद्धमूर्तिधरं महेशं प्रार्थयते— तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि। तन्नो॑ रुद्रः प्रचो॒दया॑त्, इति।

सर्वत्र गायत्रीमन्त्रेषु बहुलं लिङ्गादिव्यत्ययः। तत्पुरुषाय तमागम(प्र)सिद्धं पुरुषाकारं महादेवं जानीमो ध्यायेम। तत्तस्मिन्ध्यानेऽस्मान्नुद्राः प्रेरयतु। “बीजापूरगदेषु(क्षु)कार्मुक " इत्यागम(प्र)सिद्धमूर्तिधरं विनायकं प्रार्थ- यते—- तत्पुरु॑षाय वि॒द्महे॑ वक्रतुण्डाय॑ धीमहि। तन्नो॑ दन्तिः प्रचो॒दया॑त्, इति।


  • इदं पदमधिकप्रायम्।

[[797]]

[अनु॰ १] सभाष्यो दशमप्रपाठकः। गजसमानवक्त्रत्वेन दीर्घस्य तुण्डस्य रत्नकलशादिधारणार्थं वक्रत्वम्। दन्तिर्महादन्तः।

[नन्दिकेश्वरं प्रार्थयते—-] तत्पुरु॑षाय वि॒द्महे॑ चक्रतु॒ण्डाय॑ धीमहि (५)। तन्नो॑ नन्दिः प्रचो॒दया॑त्, इति। तद्यं परमशिववाहनरूपं नन्दिकेश्वरं वयं विद्महे (धीमहि च)। कथंभूतम्। पुरुषाय पुरुषं कामरूपित्वाज्जातुचित्स्वेच्छया तिर्यक्त्वं परिहाय च्छ(धृ)तदिव्यपुरुषविग्रहम्। पुनश्चक्रतुण्डाय चक्रतुण्डं चक्रमिव तुण्डं यस्य। यथा चक्रायुधं विष्णुप्रयुक्तं समु(द्य)द्रक्षांसि हन्ति तथा स्वारूढपरमशिवस्य रक्षोभिः सह संगरप्रसङ्गे स्वमुखेन तान्यत्तीत्यर्थः। तत्स नन्दिर्नन्दी नः प्रचो- दयात्।

[षडाननं प्रार्थयते—-] तत्पुरु॑षाय वि॒द्महे॑ महासे॒नाय॑ धीमहि। तन्नो॑ नन्दिः प्रचो॒दया॑त्, इति। तद्यं वयं विद्महे धीमहि च तत्स पण्मुखः तिल(कार्ति)कस्वामी नः प्रचोदयात्। यं कथंभूतम्। पुरुषाय पुरुषम्। अनया(न्तर्या)मितया सर्वासु पूर्षु पूर्णत्वात्। [महासेनाय ] महती देवसेना यस्य तस्मै। तमिच्यर्थः।

[गरुडं प्रार्थयते—-] तत्पुरु॑षाय वि॒द्महे॑ सुवर्णप॒क्षाय॑ धीमहि। तन्नो॑ गरुडः प्रचो॒दया॑त्, इति। स्पष्टोऽयं मन्त्रः। [ब्रह्म प्रार्थयते—-] वे॒दा॒त्म॒नाय वि॒द्महे॑ हिरण्यग॒र्भाय॑ धीमहि। तन्नो॑ ब्रह्म प्रचो॒दया॑त्, इति।

त(य)द्ब्रह्म णः(नः) पुण्यापुण्येषु कर्मसु प्रेरयति तद्वयं विद्महे, गुरुकुले क्लिष्टा वेदान्तश्रवणादिना जानीमहे। ज्ञात्वा च निदिध्यासनर्यं वध(नार्थ-त्वधि)या सततं धीमहि, अखण्डं तदेवाममिति दिवानिशं मामृते(?) ध्याया- मः। तत्कथंभूतम्। वेदात्मनाय वर्णव्यत्ययेन वेदात्मकाय, शाखोपशाखोपे-तसर्ववेदस्वरूपमित्यर्थः। हिरण्यगर्भाय चतुर्मुखब्रह्मस्वरूपमित्यर्थः। वेदहिरण्यगर्भयोरुपलक्षकत्वेन सर्वात्मकमिति यावत्। सेयं परमागायत्री।

[[798]]

परिशिष्टत्वेन संगृहीत: — [अनु॰ १] [नारायणं प्रार्थयते—-] ना॒रा॒य॒णाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि। तन्नो॑ विष्णुः प्रचो॒दया॑त्, इति। ततो(द्यो) विष्णुर्नः प्रचोदयति तं विद्महे धीमहि च। कथंविधम्। भक्तानां नराणां समूहो नारं तस्यायनमाधार(स्त)म्। वसुदेवस्यापत्यं पुमान्वासुदेवस्तम्।

[नरसिंहं प्रार्थयते—-] व॒ज्र॒न॒खाय॑ वि॒द्महे॑ तीक्ष्मद॒ ँष्ट्राय॑ धीमहि (६)। तन्नो॑ नारसि ँहः प्रचो॒दया॑त्, इति। नरसिंह एव नारसिंहः। वज्रनखाय तीक्ष्णदंष्ट्राय तस्मै प(येत्येतत्प)दयो- जना पूर्ववत्सेयम्(ज्ज्ञेया)। अयसा(कस्मा)त्स्तम्भादवतीर्य स्वनखैर्हिरण्य-कशिपुजठरभेत्तुः कृत(त्त?)तदीयान्त्रयज्ञोपवीतस्य भगवतो नरकण्टीरवगाय (रूपस्य) [वज्रनखत्वं तीक्ष्णदंष्ट्रत्वं च युक्तमेव ]। [आदित्यं प्रार्थयते—-] भा॒स्क॒राय॑ वि॒द्महे॑ महद्युतिक॒राय॑ धीमहि। तन्नो॑ आदित्यः प्रचो॒दया॑त्, इति। अदितेर्देवमातुरयमादित्यः। भा भूर्लोकावे(क ए)व दीप्तिस्तत्कर्ता भास्कारः। आन्महत इत्यादिना प्राप्तस्याऽऽ[त्वस्य] लोपश्छान्दसः। अव्यदतीतवद्योजयितव्यम्।

अग्निं प्रार्थयते— वै॒श्वा॒न॒राय॑ वि॒द्महे॑ लाली॒लाय॑ धीमहि। तन्नो॑ अग्निः प्रचो॒दया॑त्, इति।

स्वस्मिन्दत्तानि हव्यानि यथाभागं स्वयमश्नन्नन्यदेवताभ्यो नयतीत्यग्निः। विश्वेभ्यो नरेभ्यो हितो वैश्वानरः। लौकिकवैदिकव्यापारानुकूल्येन सर्वप्राणिहित इति यावत्। लालीलायेत्यत्र पृषोदरादेराकृतिगणत्वाद्ध इति नणो(वर्णो) लुप्यते। (हे)लालीलायेत्यर्थः। हेला स्या(स्वा)कुटुम्बिकी क्रीडा लीला सर्वदेवताग्रगण्यत्वलक्षणा च क्रीडा यस्य(स्या)[स्ति] स हेलाली(ल)स्तस्मै हेलालीलाय। यद्वा वैश्वानराय विद्म हेलालीलायेत्यक्त(त्येवं) पदच्छेदः। तथा च मन्त्रान्तरप्रयोगः। यद्वा घा सत्यमुत यन्न विद्मेति। पूर्वत्राऽऽत्मनेपदमत्र परस्मैपदम्। उभयत्र बहुवचनमेवात एवार्थैक्यम्। अन्यदतिक्रान्तवद्योजयितव्यम्।

[[799]]

[अनु॰ १] सभाष्यो दशमप्रपाठकः। आदिशक्तिं प्रार्थयते— का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि। तन्नो॑ दुर्गिः प्रचो॒दया॑त्, इति। छान्दसप्रयोगं लोकानुसारेण व्याख्यास्यामः। दाक्षायणी सती किल दक्षस्य पितुर्याज्ञिके पावके भाविगिरिराजन्यभागधेयोदयवशेन दिव्यं परममङ्गलास्पदं कायं तिरश्चक्रे। ततः परमयोगिन्यां मेनकायां प्रालेयाचलादाविश्चक्रे। जनित्वाऽऽदौ (?) कन्या चासौ प्राक्परिणयात्कुमारी चेति कन्यकुमारी तत्संबुद्धौ हे कन्यकुमारि। [यद्वा ] कनति देदीप्यत इति कन्या। कन कान्तौ। कुत्सितं प(पा)रतन्त्र(न्त्र्य)दिलक्षणं बाल्यं मारयति, क्रीडावशेन करपल्लवाभ्यां पदपङ्गजाभ्यां च कुं भूमिं मारयतीति वा कुमारी। हे कन्यकु- मारि भो हैमवति भो मैनकेयि त्वां विद्महे, हरिहरविरिञ्च्यादिभिराराध्यां सर्वत उत्कृष्टां भक्त्यैकसुलभां जानींमहे। विदित्वा च रात्रिंदिवं धीमहि। भुक्तिमुक्तिप्रदात्रीमिति शेषः। कस्मै, कात्यायनाय स्वपित्रे। यथा रामकृष्णादिरूपेणावतीर्णस्य भगवतो बहवो मातामितरस्तथा भगवत्या अपि देवकार्यचिकीर्षया ज[ग]दनुजिधृक्षया चावतीर्णायाः। राक्षसैर्दुःखेन गम्या दुर्गा(र्गिः)। इकारान्तत्वं छान्दसम्।

एवं द्वादश गायत्र्यो व्याख्याताः। अथ स्नानाङ्गभूता मन्त्र उच्यन्ते। तत्र शिरसि मृत्तिकया सह दूर्वां धारयितुं दूर्वाभिमन्त्रणमन्त्रानाह— सहस्रपर॑मा दे॒वी॒ श॒तमू॑ला श॒ताङ्कु॑रा। सर्व ँ॑ हरतु॑ मे पा॒पं॒ दू॒र्वा दुः॑स्वप्न॒नाशि॑नी, इति।

येयं दूर्वाभिमानिनी देवता सा मे पापं सर्वं हरति। कीदृशी। सहस्रसंख्याकेभ्यः पावनहेतुभ्यो द्रव्येभ्यः परमोत्कृष्टा। सा च देवी द्योतनात्मिका। शतसंख्याकानि मूलानि यस्याः सा शतमूला। तथा शताङ्कुरा। शतशब्देन बहुत्वमात्रमुपलक्ष्यते। दुःस्वप्रकृतमनिष्टं नाशयतीति दुःस्वप्ननाश(शी)नी।

काण्डा॑त्काण्डात्प्र॒रोह॑न्ती॒ पुरु॑षः परुषः॒ परि॑ (७)। ए॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॑ च, इति॥ काण्डादिति। दूर्वति हिनस्ति पातकमिति दूर्वा तत्संबुद्धौ हे दूर्वे। दुर्वी हिंसायाम्। हे तृ(ण)विशेष त्वं नोऽस्माञ्शतेन सहस्रेण च पौत्रदौहित्राद्यनेकप्रकारैः प्रतनु प्रकृष्टं सर्वोत्कृष्टं यथा [भवति तथा] विस्तारय। त्वं किंभूता। परुषः [परुषः ] परि प्रतिपर्व परितः प्ररोहन्ती। काण्डात्काण्डात्प्रतिमूलात्सकाशाच्च प्ररोहन्तीति


१ घ. ङ. ०नाशनी।

[[800]]

परिशिष्टत्वेन संगृहीतः — [अनु० १] [संबन्धः] (*अयमभिप्रायः।) दूर्वाया एप स्वभावः। प्रतिपर्व भूसंपर्कवशात्पादप्रसारः। पादेषु प्रसृतेषु तदेव पर्व मूलं भवति तस्मादेव मूलात्पुनरङ्कुरोदयस्त एवाङ्कुराः पुनर्दूर्वा-लतायन्ते ताभ्यो लताभ्यः पुनः पर्वपरम्पेरति। एवा, एवं प्रकारेणोत्पद्यमानेत्यर्थः। एवमित्यव्ययविभक्तेराङादेशश्छान्दसः। [अयमभिप्रायः —] हे दूर्वे यथा पूर्वोक्तभङ्ग्या त्वद्वंशवृद्धिस्तथाऽस्मद्वंशं वर्धयेति। या श॒तेन॑ प्रत॒नोषि॑ सु॒हस्रे॑ण वि॒रोह॑सि। तस्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम्, इति। या शतेनेति। हे देवि पिशङ्गया कान्त्या देदीप्यमाने। इष्टैर्मन्त्रैर्भक्तैः कायते शब्द्यते स्तूयत इतीष्टका तत्संबुद्धौ हे इष्टके। कै गै शब्दे सूत्वा (?)। ते तव संबन्धिनीं परिचर्यां वयं हविषा हविष्प्रदानैर्विधेम कुर्मः। ते किंविधायास्तस्याः। सा का या त्वं शतेन स्वान्वयं प्रतनोषि सहस्रेण च विरोहस्युत्पद्यसे। एतद्भावार्थः पूर्वमन्त्रे प्रपञ्चितः। अथ मृत्तिकाभिमन्त्रणमन्त्राः। तत्र प्रथममन्त्रमाह — अश्व॑क्रा॒न्ते र॑थक्रा॒न्ते॒ वि॒ष्णुक्रा॑न्ते व॒सुंध॑रा। शिरसा॑ धार॑यिष्या॒मि॒ र॒क्ष॒स्व मीं पद॒ पदे, इति। येयं भूमिस्तामश्वाः शुद्धिहेतवः स्वपदैराक्रामन्ति तादृशी भूमिरश्वक्रान्ता। अग्निचयन उखानिर्माणर्थमृत्स्था [प]नप्रदेशस्था(स्या)श्वाक्रमणविधानादश्वपदानां मृच्छुद्धिहेतुत्वं गम्यते। तथा रथक्रान्ता रथचरणेन क्षुण्णा सती शुद्धा भवति। तथा त्रिविक्रमावतारे विष्णुः स्वपदेन भूमिमाक्रामति ततोऽपि शुद्धत्वम्। अश्वरथविष्णुभिः क्रान्ते शुद्धे हे भूमे वसुंधरा सर्वाणि वसूनि धारयतीति तथा [तादृशीं त्वां] स्नान-कर्मण्येतस्मिन्मदीयशिरसा [धारयिष्यामि] धारिता देवी [च] द्योतमाना [सती] त्वं मां स्नानार्थं गच्छस्तं पदे [पदे] रक्षस्व। द्वितीयमन्त्रमाह — भूमिर्धेनुर्धरणी लो॑कधा॒रिणी। उ॒द्धृता॑ऽसि व॑राहे॒ण॒ कृ॒ष्णे॒न श॑तवा॒हुना, इति। हे मृत्तिके त्वं प्रलयकाल एकार्णवीभूतायां सप्तार्णव्यां निमग्ना सती कृष्णवर्णेन शतसंख्याकबाहुयुक्तेन वराहावतारेण पूर्वमुद्धृताऽसि। कीदृशी भूमिः, धेनुः कामधेनुवत्प्रीणयित्री। धरणी सस्यानां धारयित्री। लोकधारिणी प्राणिनामपि धारयित्री।

  • धनुश्चिह्रान्तर्गतो ग्रन्थोऽधिकः।

[[801]]

[अनु० १] सभाष्यो दशमप्रपाठकः। तृतीयमन्त्रमाह — मृ॒त्तिके॑ हन॑ मे पा॒पं॒ य॒न्म॒या वु॑ष्कृतं॒ कृतम्। मृ॒त्तिके॑ ब्रह्म॑दत्ता॒ऽसि॒ का॒श्यपे॑नाभि॒मन्त्रि॑ता। मृ॒त्तिके॑ देहि॑ मे पु॒र्ष्टि॒ त्व॒यि स॑र्वं प्र॒तिष्ठि॑तम् ( ८ ) इति।

षट्पादेयमृङ्महापङ्क्तिच्छन्दस्का। हे मृत्तिके प्रशस्तमृद्यन्मया दुष्कृतमकर्तव्यं पापं कृतं तद्धन विनाशय। किंच यतस्त्वं ब्रह्मणा परमात्मना दत्ता भूमिरूपेण स्थापिता ब्रह्मदत्ताऽसि। ननु मामेवमभिमन्त्र्य कः स्नाति स्मेत्यत आह — काश्यपेन शिष्टाचार-प्राप्तत्वाद्वयम[प्य]भिमन्त्रयाम इति भावः। किंच मे मह्यं पुष्टिं देहि। यतः पृथिवीरूपायां त्वयि सर्वं चतुर्विधं भूतजातं प्रतिष्ठितं वर्तते। अतस्त्वय्यधिष्ठिचाय मह्यं पुष्टिं देहीत्यर्थः। अनन्यपदेन संबुद्धित्रयं भक्त्यतिशयप्रयोजनम्। चतुर्थमन्त्रमाह — मृ॒त्तिके॑ प्रतिष्ठि॑ते स॒र्वं॒ त॒न्मे नि॑र्णुद॒ मृत्ति॑के। तया ह॒तेन॑ पापे॒न॒ ग॒च्छा॒मि प॑रमां॒ गतिम्, इति। प्रतितिष्ठान्ति प्राणिनोऽस्यामिति प्रतिष्ठिता तत्संबुद्धौ हे प्रतिष्ठिते मृत्तिके मे मत्संबन्धि तत्प्रसिद्धं सर्वं पापं निर्णुद विनाशय। हे मृत्तिके तया प्रसिद्धया त्वया पापेन हतेन सता सति तृतीया। पापे हते सतीत्यर्थः। परमां गतिमपवर्ग गच्छामि। एवं दूर्वां मृत्तिकां च दक्षिणहस्ते गृहीत्वा मन्त्रैरभिमन्त्र्याथेन्द्रादप्यभयादिकं प्रार्थ्यते द्वाभ्यां मन्त्राभ्याम्। [तत्र प्रथमं मन्त्रमाह — ] यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि। मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ उ॒तये॒ विद्विषो॒ विमृधो॑ जहि, इति। हे इन्द्र मघवन्यतोऽस्मात्पाप्मनो रिपोर्निरयाद्व(च्च व)यं भयामहे बिभेम ततः पापादिभ्यः सकाशान्नोऽस्मभ्यमभयं कृधि कुरु। निष्पापा निःशत्रवो निर्निरयाश्च त्वत्प्रसादाद्भविष्याम इति भावः। न केवलं पाप्मादित्रितयादभयप्रदानमपि तु तत्पाप्मादित्रितयं शग्धि शातय विनाशयेति यावत्। किंच भक्तत्वेन तव संबन्धिनां नोऽस्माकमूतये रक्षणाय विद्विषोऽन्तर्बहिः शत्रूञ्जहि संहर कथंभूतान्। विमृध्नन्ति पीडयन्तीति विमृधस्तान्। क्विपि द्वितीयाबहुवचनम्। १०१

[[802]]

परिशिष्टत्वेन संगृहीतः — [अनु० १] [द्वितीयं मन्त्रमाह — ] स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा विमृधो॑ व॒शी। वृषेन्द्रः॑ पु॒र ए॑तु नः स्वस्ति॒दा अ॑भयंक॒रः, इति।

इन्द्रः स्नानार्थमुद्युक्तानां नोऽस्माकं पुरः पुरस्तात्समक्षमेतु रक्षितुमागच्छतु। कथंभूतः। स्वस्तीहलोकसंबन्धिसौख्यं ददातीति स्वस्तिदः(दा)। सारोजा(डा)देशः। विशो भक्तायाः प्रजायाः पतिः पालकः। वृत्रं हन्तीति वृत्रहा। विमृधः शत्रून्वशति स्वाधीनी करोतीति वशी वशीकृतरक्षःसंघ इत्यर्थः। वृषति पुष्करावर्चकादीन्मेघाना-ज्ञाप्या सिञ्चति भूमिमिति वृषा। स्वस्ति परलोकसंबन्धि कल्याणं ददातीति स्वस्तिदाः। ददातेः क्विप्। अभयंकरः स्पष्टम्। अघैकेन मन्त्रेणेन्द्रादिभ्यः स्वस्तिपोषो याच्यते स्नानावसरे नक्रग्रहादिजन्या पीडा मा भूदिति — स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒पा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो बृह॒स्पति॑र्दधातु, इति। इन्द्रो नोऽस्मभ्यं स्वस्ति दधातु पोषयतु। किंविधः, वृद्धश्रवाः समृद्धयशाः। पूपा नः स्वस्ति दधातु। किंविधः, विश्ववेदा बहुज्ञानो बहुधनो वा। तार्क्ष्यो गरुडो नः स्वस्ति दधातु। किंविधः, अरिष्टनेमिः। द्राघीयसा पथा गमनेऽपि राक्षसैर्वाऽनुपहिंसितरथः। रथैकदेशवाचिना नेमिशब्देन [रथ] उपलक्ष्यते। बृहस्पतिरिन्द्रपुरोधा नः स्वस्ति दधातु। निगदव्याख्यानम्। अथैकेन मन्त्रेण सोमेन्द्रौ प्रार्थ्येते — आप॑न्तमन्युस्तृ॒पल॑प्रभर्मा॒धुनिः॒ शिमी॑वा॒ञ्‍च्छरु॑मा ँ ऋजी॒षी। सोमो॒ विश्वा॑न्यत॒सा वना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः, इति। सोमश्चन्द्रमा विश्वानि सर्वाणि वनान्योषधीवनस्पतीन्पुष्णातीति शेषः। वनशब्देनात्रोद्भिज्जमात्रं लक्ष्यते। केन साधनेन पुष्णाति। अतसा, गगनमण्डले स्वकीयसंततगमनेन। अत सातत्यगमने। सोमः कथंभूतः। आपान्तमन्युः। नुमागम-स्याऽऽर्षत्वादापातमन्युः। उपर्युपरि क्रोधवानित्यर्थः। यथा मातापित्रादयः शिशुषु वाचा व्याकुप्यन्ति जातुचित्कायेन च नतु कदाचिदप्यन्तरङ्गेण, तथा भगवान्नक्षत्रवल्लभोऽपि भक्तेष्वनुजिधृक्षयैतादृक्कोप आपान्तमन्युरित्युच्यते। अहो इदमापातरमणीय-मित्यादावापातशब्द उपर्युपरि पर्यायतया प्रयुज्यते। पुनः कथंभूतः। तृपलानां चन्द्र-कान्तशिलानां प्रभेव प्रभा यस्य सभाष्यो दशमप्रपाठकः। तृपलप्रभः। मधुनो माक्षि-कादेः प्रियो माधुनिः(?)।

[[803]]

[अनु० १] सभाष्यो दशमप्रपाठकः। मघोर्वसन्तस्य वा। वसन्ते खलु रोहिणीनायकः सम्यगवभासते। पर्जन्यस्य पटलहि-माद्रेस्तदानीमभावात्। शमीवृक्षो यस्य प्रियत्वेन वर्तते [स शिमीवान्]। शमीवानिति वक्तव्ये शिमीवानिति प्रयोगश्छान्दसो द्रष्टव्यः। यथा बिल्ववृक्षः शैवस्तथा शमीवृक्षो-ऽपि शैव इति हेतोर्बिल्वपत्रवच्छमीपत्राण्यपि चन्द्रशेखरमस्तके समर्प्यन्त इति शमीचन्द्रयोरेकाधिकरणत्वादन्योन्यप्रियत्वम्। तथ शरुमान्बहुसौख्यवान्। तथजींषी, अतिदीप्तिमान्। एवं सोमं स्तुत्वेन्द्रं स्तौति — अर्वाग्वचनव्यत्ययः। अर्वाञ्चि। इन्द्रापेक्षया यान्यर्वाचीनानि प्रतिमानान्युपमानानि [तानि] गुणपराक्रमादिभिरिन्द्रं न देभुः। दम्भु हिंसायाम्, अस्माल्लिटि *बहुवचनम्। न पीडयन्ति स्मेत्यर्थः। लोके खलु स्वस्यान्यदुपमानं दुःखावहं मत्तुल्यं वर्तत इति चिन्तासंपादकत्वात्। तदभावे मत्सदृशो नास्तीति निरतिशयमहिमप्राप्तेः। एवमनुपमानोऽनन्यतुल्यः शचीपतिरस्मानवत्विति वाक्यशेषः। अथैकेन परमात्मा प्रार्थ्यते — ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः। स बु॒ध्निया॑ उप॒मा अस्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑, इति। पर(रं) ब्रह्म त्रिलोकाचित्रिया(कान्प्रति व्या)वः स्वप्रकाशेन विवृतानकरोत्। “व्यवहिताश्च” इत्युपसर्गक्रिययोर्व्यवधानम्। लोकान्कीदृशः। सुतरां रोचन्ते शोभन्त इति सुरुचस्तान्। ब्रह्म कीदृक्। प्रथमं सर्वदेवतादिमम्। तथा पुरस्तात्प्राच्यां दिशि सूर्यरूपेण जज्ञानं जायमानम्। विराजादिजनेः पुरस्तात्प्राग्धरण्यगर्भरूपेण वा जज्ञानम्। जनेः शानचि शपः श्लौ सति जज्ञानमिति रूपम्। तथा वेनः। व्यत्ययेन वेनं सर्वकमनीयम्। “वी कान्त्यादौ”। किमारभ्य सीमतः। द्वितीयायां तसिल्(यान्तात्तसिः)। सीमानं मर्यादाम्। भूलोकमध्यभागमारभ्य सुरुचस्रील्लोँकान्व्यावः प्रकाशितवानि(वदि)ति भावः। वी कान्त्यादावस्माद्याङ्पूर्वाल्ल(ल्लु)ङि मध्यमैकवचनेऽपि व्यत्ययेन प्रथमपुरुषो ग्राह्यः। त्रैलोक्यप्रकाशमेव स्फुटी करोति। सव्यत्ययेन तद्ब्रह्म बुघ्नियाः प्राच्याद्या दिशः सतो विद्यमानस्य घटपटादेर्योनिं स्थानमसतोऽमूर्तस्य वाय्वादेश्च योनिं प्रभवं विवः प्रकाशयति। वृणोतेः शपि लुप्ते लगुणे (?)च विवरिति रूपम्। अमाङ्योगेऽपि तिङोऽप्राप्तिश्छान्दसी। बुध्नियाः कीदृशः। उप समीपे मान्ति तिष्ठन्ति भूतानि यासु ता उपमाः सावकाशा इत्यर्थः। माङ्याने वर्तने चेति धातुपाठः अत एवास्य जगतो विष्ठा विविधस्थानभूताः। विविधं

  • प्रथमपुरुषस्येति शेषः। +वेवेतेर्लङि शपि लुप्ते द्वित्वेऽत्वेऽगुणे चेति वक्तुं युक्तम्। १ ङ. ०रब्रह्मदेवत्या त्रिष्टुब्याज्ञवल्क्यो दृष्ट्टा(द्रष्टा) ब्र०

[[804]]

परिशिष्टत्वेन संगृहीतः — [अनु० १] तिष्ठन्ति यास्विति व्युत्पत्तिः। अम्बाम्बागोभूमीत्यादिना षत्वम्। एतादृग्बुध्नियाः सदसद्योनिं च ब्रह्मैव प्रकाशयति “तस्य भासा सर्वमिदं विभाति” इति मन्त्रान्तरादिति भावः। बुध्ना (बुध्निया) वै दिश इति श्रुतेः(तिः)। अथ पुनर्द्वाभ्यां पुनर्गृहीतमृत्तिकाशुद्ध्यर्थं पृथिवी प्रार्थ्यते। [तत्र प्रथममाह] — स्यो॒ना पृ॑थिवि॒ भवा॑ नृक्ष॒रा नि॒वेश॑नी। यच्छा॑ नः॒ शर्म॑ स॒प्रथाः॑, इति। हे पृथिवि विशाले भूमे त्वं नोऽस्मभ्यं स्योना। षोऽन्तकर्मणि। दुःखान्तकर्त्री भव। शर्मैहिकामुष्मिकसुखमपि यच्छ देहि।छान्दसं दीर्घत्वम्। कथंभूता। नॄन्मनुष्यांस्त-दुपलक्षितचतुर्विधभूतग्रामं क्षारयत्युत्पादयतीति नृक्षरा। उत्पादितान्ग्रामारण्यादिस्थानेषु निवेशयति यथायथं स्थापयतीति निवेशनी। प्रथया मलमूत्रगण्डूषनिष्ठीवनादि-सहिष्णुतालक्षणया कीर्त्या सह वर्तमाना सप्रथाः। द्वितीयमाह — ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी॑म्। ई॒श्वरी ँ॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम्, इति। या पूर्वोक्तरीत्या मयाऽभिष्टुता तां भूदेवतामिहास्मिन्स्नानकर्मण्युपह्वये समीपमाह्वयामि। कथंभूताम्। श्रीयते चतुर्विधैर्जनुष्मद्भिरिति श्रीस्तां श्रियम्। गन्धो द्वारमनुमापकलिङ्गं यस्याः सा गन्धद्वारा ताम्। इयं पृथिवी भवितुमर्हति गन्धवत्त्वादि-त्यनुमानगम्यामित्यर्थः। दुराधर्षां कुद्दालखननाद्युपायसहस्रैरप्यप्रकम्प्याम्। नित्यं नानाविधैः सस्यैर्नगरग्रामादिभिर्गिरिनदीसमुद्रद्वीपादिभिश्च पुष्टा नित्यपुष्टा नित्या चासौ पूर्वोक्तैः पुष्टेति वा ताम्। करीषिणीं कृषीवलैर्बीजावापाय कृष्यमाणाम्। करीषं गोमयमस्यामस्तीति करीषिणी ताम्। करिणो(करीषा) [लक्षणया] गवादिपशवो यस्यां सन्ति सा करीषिणी तामिति वा। नानाविधचतुष्पाद्वतीमित्यर्थः। सर्वभूतानामीश्वरीम्। स्पष्टम्। एतैर्मन्त्रैरभिमन्त्रितां मृत्तिकामापादतलमस्तकमुपलिप्य जलप्रवेशनार्थान्प्रार्थ-नामन्त्रानाह — श्री॑र्मे भ॒जतु। अलक्ष्मी॑र्मे न॒श्यतु। विष्णु॑मुखा॒ वै दे॒वाश्छन्दो॑भिरि॒माल्लोँ॒कान॑नपज॒य्यम॒भ्य॑जयन्। म॒हा ँ इन्द्रो॒ वज्र॑बाहुः षोड॒शी शर्म॑ यच्छतु ( १० ), इति। १. छ. ०भ्या परिगृही०।

[[805]]

[अनु० १] सभाष्यो दशमप्रपाठकः। मे मां श्रीर्गजान्तलक्ष्मीर्भजतु। मे मत्संबन्धिन्यलक्ष्मीर्ज्येष्ठा देवी नश्यतु। अस्मत्तोऽस्मत्कुलीनतोऽस्मद्बन्धुवर्गतोऽस्मद्ग्रामतोऽस्मद्राष्ट्रतो बहुयोजनान्तरितं दुरिप्त(दूरी म) वत्वित्यर्थः। किंच ये विष्णुमुखा लक्ष्मीपतिप्रधाना देवाश्छन्दोभिर्वेद-विहितैः साधनैरिमानृ(न)ध्यक्षांश्चतुर्दशसंख्याकाल्लोँकानभ्यजयन्। चिरायोपभोगा-यलेभिरे। अभिपूर्वो जयतिर्लब्धिकर्मा। कथम्। अनपजय्यं रक्षोनायकैरपजेतुमशक्यं यथा तथा । ते ना (चा) भीष्टप्रदा भूयासुरिति वाक्यशेषः। वै प्रसिद्धौ । अपि च वज्राबाहुरिन्द्रोऽपि नः शर्म यच्छतु। कीदृशः। महांस्त्रिलोकीपूज्यः। षोडश कला अस्य सन्तीति षोडशी राकाचन्द्रः। लुप्तोपमा, स यथा सर्वाभीष्ट[प्रद] स्तथेन्द्र इति। यद्वा षोडशीति षोडशाक्षरा श्रीविद्योच्यते तज्जयीय(पस्य)पूर्वक[र्तृ]त्वादिन्द्रोऽपि षोडशी तज्जपप्रभावाद्देवपतिरैन्द्रीं पदवीमाजगामेति प्रसिद्धेः। स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॒ पा॒प्मानं॒ यो॑ऽस्मान्द्वेष्टि॑, इति। स्वस्तीति। यजुः। मघवा शचीपतिर्वः स्वस्ति करोतु। यः पाप्माऽस्मान्द्वेष्टि तं पाप्मानं हन्तु। सो॒मानँ॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते। क॒क्षीव॑न्तं॒ य औ॑शि॒जम्। शरी॑रं यज्ञशम॒लं कुसी॑दं॒ तस्मि॑न्त्सीदतु॒ यो॑ऽस्मान्द्वेष्टि॑, इति। सोमानमिति। हे ब्रह्मणस्पते शाखोपशाखासहितानां वेदानां परिपालक हे परमात्मन्मां सोमानं सोमलताभिषोतारं स्वरणं सर्वशाखासूदात्तादिखरनेतारं च कृणुहि कुरुष्व। त्वदनुग्रहात्स्वरादियुक्तं वेदानधीत्य सोमादिक्रतून्करिष्यामीत्यर्थः। किंच। उशिङ्नाम माता तस्या अपत्यं पुमानौशिजः। नामतः [कक्षीवन्तं] कक्षीवान्। विभक्तिव्यत्ययः। यः परमर्षिः स मम शरीरं यज्ञशमलं यज्ञक्रतुविषयं [शमं] श्रमं श्रमसहिष्णुत्वं लाति स्वी करोतीति यज्ञशमलं [तादृशं] करोतु। किंच यः शत्रुरस्मा-न्द्वेष्टि स तस्मिन्सीदतु चिरकालं तिष्ठतु। कस्मिन्यत्कुसीदं नरकम्। कुत्सितं यथा तथा सीदन्ति पापिनोऽस्मिन्निति व्युत्पत्तिः। जानुदघ्ने जले प्रविश्य जप्यौ मन्त्रावाह — चर॑णं प॒वित्रं॒ विततं पुरा॒णं येन॑ पू॒तस्तर॑ति दुष्कृ॒तानि॑। तेन॑ प॒वित्रे॑ण शु॒द्धेन॑ पू॒ता अति पा॒प्मान॒मरा॑तिं तरेम, इति॥ अनेन मन्त्रेण लक्ष्मीपतिचरणारविन्दं स्तूयते। तेन वैष्णवेन चरणेन पूताः पवि-त्रान्तःकरणा वयमरातिं नरकहेतुत्वेन शत्रुभूतं पाप्मानमतितरेम। तेन कीदृशेन। १ छ. तज्जापीय०।

[[806]]

परिशिष्टत्वेन संगृहीतः — [अनु० १] पवित्रेण शुद्धेन स्पष्टम्। तेन केन येन पूतो मर्त्यो दुष्कृतानि तरति। यञ्च चरणं पवित्रम्। विततं विस्तृतम्, भूम्यन्तरिक्षस्वर्गाणामाक्रान्तत्वात्। पुराणं पुरातनम्। विष्णोः पुराण-पुरुषत्वात्तदवयवानामपि पुराणत्वम्। अयमेव मन्त्रो ब्राह्मणचरणक्षालनेऽपि विनि-युज्यते। स॒जोषा॑ इन्द्र॒ सगणो म॒रुद्भिः॒ सोमं॑ पिब वृत्रहञ्छूर वि॒द्वान्। ज॒हि शत्रूँ॒ रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः, इति॥ सजोषा इति। हे वृत्रहन्हे शूर हे इन्द्रास्मदधिकृतेष्वग्निष्टोमादिक्रतुषु समागत्याग्नौ हूयमानं सोमं पिब। त्वं कथंभूतः। समानाऽऽस्थान्तःकरणवृत्त्यनुरूपा जोषा प्रीतिर्यस्यासौ सजोषाः। गणैः स्वकीयपरिचारकैः सह वर्तत इति सगणः। विद्वान्सर्वज्ञः। कैः सह, मरुद्भिः सह देवताभिः सह। मरुच्छब्दोऽत्रि देवतामात्रवचनः। अपि(जहि) शत्रू ँ रप मृघ इत्यत्र “दीर्घादटि समानपादे” इति नस्य रुत्वं पूर्वस्य सानुनासिकत्वं च। तथा च शत्रून[प]मृध इति पदच्छेदः। शत्रूञ्जाहि। मृधः क्विपि द्वितीयाबहुवचनम्। सङ्ग्रामानपनुदस्व विनाशय। अथानन्तरं नोऽस्मभ्यं विश्वतः सर्वतोऽभयं कृणुहि। नाभिद्वयसजले स्थित्वा जप्यान्मन्त्रानाह — सु॒मि॒त्रा न॒ आप॒ ओष॑धयः सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒र्यो॑ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः, इति। नोऽस्मान्प्रत्याप ओषधयश्च सुमित्राः सुहृदः सन्तु। योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तस्मै दुर्मित्रा दुर्हृदो भूयासुः। अस्मभ्यं सुखं शत्रुभ्यो दुःखं चाब्देवता ओषधि-वनस्पतिदेवताश्च कुर्वन्त्वित्यभिप्रायः। आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ( ११ )। म॒हे रणा॑य॒ चक्षसे। यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒- हं नः॑। उ॒श॒तीरि॑व मा॒तरः॑। तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ। आपो॑ ज॒नय॑था च नः, इति। आप इति। हि ष्ठेत्यत्र ‘हि’ ‘स्थ’ इति पदच्छेदः। हे आपो हि यस्मात्कारणाद्या यूयं मयोभुवः स्थ स्नानपानादिहेतुत्वेन सुखं प्रापयित्र्यो भवथ तस्मात्कारणाद्यू(त्ता थू)यं नो युष्मद्भक्तानस्मान्दधातन पोषयत। कस्मै प्रयोजनाय, चक्षसे परमात्मदर्शनाय। कथं-भूताय। रणाय रमणीयाय। तथा मह्यते पूज्यत इति मट्तस्मै महे १. ङ. सुथप्रा०।

[[807]]

[अनु० १] सभाष्यो दशमप्रपाठकः। मोक्षरूपफलत्वान्महते, *भुक्तिमुक्तिप्रयोजनायास्मान्पोषय। अन्यथा जीवनं व्यर्थ-मित्यभिप्रायः। किंच हे आपो वो युष्माकं यः शिवतमः कल्याणतमो रसो माधुर्यलक्ष-णोऽस्ति तस्येहास्यां भुवि विद्यमानान्नोऽस्मान्भाजयत पवित्रयत(पात्रयत) स्थानं कुरुतेत्यर्थः। यथा भाजने जलं तिष्ठति तथा युष्मदीयो रसोऽस्मासु तिष्ठत्विति भावः। अत्र निदर्शनं प्रदर्शयति। [मातर] इव यथा मातरः स्वापत्यमुत्तमगुडादि प्रापयन्ति तथा। कथंभूताः। उशतीरुशत्योऽपत्यवृद्धिं कामयमानाः। पुत्रदुहित्रादिस्नेहवत्य इति यावत्। किंच हे आपो वो युष्मान्वयमर[मल]मत्यर्थ शरणं गमाम प्राप्नुमः। कस्मै प्रयोजनाय शरणीकरणम्, यस्माद(यस्या)स्मदीयस्य पापजालस्य क्षयाय विप्रणाशाय यूयं जिन्वथ प्रीतिं कुरुथ, म(त)स्मै तत्क्षयार्थमेव। युष्माभिरपि भक्त[प्रिय]त्वादस्मत्पापक्षयार्थमेव यत्नः क्रियतेऽस्माभिरप्येतदर्थमेव युष्मच्चरणं शरणं क्रियते। अन्यथा कथ-मस्मत्पापक्षयार्थे युष्माभिरुद्यम्यतामित्यभिप्रायः। किंच भो अब्देवता नोऽस्माञ्जनयथ पुत्रदुहित्रादिजननसमर्थान्कुरुथ। इतःपरं द्वाभ्यां मन्त्राभ्यां वरुणाभिधानामधिष्ठानदेवतां प्रार्थयते — हिर॑ण्यशृङ्गं॒ वरु॑णं॒ प्रप॑द्ये ती॒र्थं मे॑ देहि॒ याचि॑तः। य॒न्मया॑ भु॒क्तम॒साधूनां पा॒पेभ्यश्च प्र॒तिग्र॑हः॥ यन्मे॒ मन॑सा वा॒चा॒ क॒र्म॒णा वा दु॑ष्कृतं॒ कृतम्। तन्न॒ इन्द्रो॒ वरु॑णो॒ बृह॒स्पतिः॑ सवि॒ता च॑ पुनन्तु॒ पुनः॑ पुनः, इति। सुवर्णमयशृङ्गवदुपर्यवस्थितं मुकुटं यस्यासौ हिरण्यशृङ्गस्तादृशं वरुणं जलाधिपतिं प्रपद्येष अनुग्रहार्थं प्राप्नोमि। तादृशो वरुणस्त्वं [ मे ] मया याचितः प्रार्थितः संस्तीर्थमावरणस्थानं देहि। किंचासाधूनां पापिनां गृहे मया यद्भुक्तम्, तथा पापेभ्यः पापिनां सकाशात्प्रतिग्रहश्च यः कृतः, अन्यदपि यद्दुष्कृतं मानसं वाचिंक कायिकं चानुष्ठितं मे मदीयं तत्सर्वमिन्द्रादयो देवास्तदशेषं( दा तदा ) पुनन्तु शोधयन्तु। जलावस्थितदेवान्प्रति नमस्कारमन्त्रं दर्शयति — नमो॒ऽग्नेये॑ऽप्सु॒मते॒ नम॒ इन्द्रा॑य॒ नमो॒ वरु॑णाय॒ नमो वारुण्यै॑ नमो॒ऽद्भयः ( १२ ), इति। आपो यस्याग्नेः सन्ति सोऽयमप्सुमाञ्जलमध्ये निगूढ इत्यर्थः। [तथाविधायाग्नय] इन्द्राय वरुणाय वारुण्यै वरुणपत्न्यै जलाभिमानिदेवताभ्यश्च नमस्कारोऽस्तु।

  • अत्र भुक्तिशब्दोऽधिक इव भाति।

[[808]]

परिशिष्टत्वेन संगृहीतः — [अनु० १] निमज्जनप्रदेशे दुष्टजलापनयन[मन्त्र]माह — यद॒पां क्रू॒रं यद॑मे॒ध्यं यद॑शा॒न्तं तदप॑गच्छतात्, इति। अपां संबन्धि यत्क्रूरं रूपं मरणकारणमावर्तादिकं यच्चामेध्यं नीष्ठीवनादिदुष्टं यदप्यशान्तं वातश्लेष्मादिजनकं तत्सर्वमस्मान्निमज्जनप्रदेशादपगच्छतु। निमज्जनमन्त्रानाह — अ॒त्या॒श॒नाद॑तीपा॒ना॒द्य॒च्च उ॒ग्रात्प्र॑ति॒ग्रहा॑त्। तन्नो॒ वरु॑णो रा॒जा॒ पा॒णिना॑ ह्यव॒मर्श॑तु॥ सो॑ऽहम॑पा॒पो वि॒रजो॒ निर्मु॒क्तो मु॑क्तकि॒ल्बिषः। नाक॑स्य पृष्ठमारु॑ह्य॒ गच्छे॒द्ब्रह्म॑ सलो॒कताम्, इति। देवर्षिपितृमनुष्यादियज्ञमतीत्य भुक्तमत्याशनम्। देवर्षिपितृतर्पणमतीत्य पीत-मुदकमतिपानम्। इच्छावर्ती यः पुमांस्तस्माद्यो धनप्रतिग्रहः सभाष्यो दशमप्रपाठकः। उग्रः। एतैर[त्य]शनातिपानदुष्प्रतिग्रहैः संपादितं यत्पापं मदीयं तत्पू(त्स)र्वं वरुणो राजा जलस्वामी स्वकीयेन पाणिनाऽपनयतु। ततः पापरहितः सोऽहं रजोगुणरहितः संसारकारणरागद्वेषादिदोषान्निर्मुक्तोऽत एवानुष्ठिता(ष्ठास्यमाना)त्यशनातिपानपापरहितः स्वर्गस्योपरिभागमारुह्य ब्रह्मणा हिरण्यगर्भेण समानलोकत्वं गच्छे [द्गच्छे]यम्। यश्चा॒प्सु वरु॑णः॒ सम पु॒नात्व॑घमर्ष॒णः, इति। यश्चेति। यजुः। अप्सु सप्तसमुद्रोदकेषु नानाविधमहानदीनददीर्घिकाकूपाद्युदकेषु च यो वरुणोऽधिष्ठितः सन्वर्तते सभाष्यो दशमप्रपाठकः। नः पुनातु। कथंविधः। अघं महापातकमपि कर्षति(मर्षयति) विनाशयतीत्यघमर्षणः। तीर्थभूतानां गङ्गादीनामावाहनमन्त्रमाह — इ॒मं में गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमँ॑ सचता॒ परु॒ष्णिया। अ॒सि॒क्नि॒या म॑रुद्वृधे वि॒तस्त॒याऽऽर्जी॑कीये शृणु॒ह्या सु॒षोम॑या, इति। हे गङ्गे विश्वनाथराजधानीसमीपस्थे भागीरथी हे यमुन आदित्यतनये हे सरस्वति नदीरूपेण विद्यमाने ब्रह्मपत्नि हे शुतुद्येतन्नामसरिद्वरे हे आर्जीकीय एतन्नाम्ना सरिद्वरे हे मरुद्वृध एतन्नामसरिद्वरे यूयं मे व्यत्ययेन शृणुत। श्रुत्वा च युष्मद्युष्मत्स्थानेभ्य आसचत। उपसर्गव्यवधानं सचतेर्दैर्घ्यं च च्छान्दसम्। आगच्छत। मां पावयितुं यथावाञ्छितं दातुं च प्रकृतस्नानस्थानजलमध्यभागं * प्रतीति शेषः। संनिधद्ध्वं च।

  • प्रति संनिधद्ध्वं चेति शेष इत्यादिपाठो युक्तः।

[[809]]

[अनु० १] सभाष्यो दशमप्रपाठकः। काभिः सह। परुष्णी नाम नदी तया परुष्णिया। असिक्नी नाम नदी तयाऽसिक्निया। उभयत्र तृतीयायामक्षरविश्लेषश्छान्दसः। वितस्त्वां(स्ता) नाम नदी तया वितस्तया सह। सुषोमा नाम नदी तथा सुषोमया सह। प्रार्थयितुरयमाशयः — यद्यप्यहमेतन्मन्त्रो-क्तानामनुक्तानां च महानदीनां रोधांसि गत्वा चिरकालं स्थित्वा स्नात्वा पीत्वा च दिवसानपनेतुमक्षमस्तथाऽप्यहं यत्र कुत्रचिद्ध्रदकूपाद्युदकेन स्नानं कुर्वाण एतेन मन्त्रेण गङ्गाद्या नदीरुपतिष्ठ उपस्थिताश्चाऽऽगत्य संनिदधतां संनिधाय च मदीयानां महतामप्येनसां विनाशं विदधतां विधाय चैवं मामभिदधतां पूतोऽसि शुद्धोऽसि भुङ्क्ष्व भौमान्भोगान्सकुटुम्बः सपरिवारः साश्रितवर्गश्च भुक्त्वा चान्ते यथेच्छं पुण्यकृतां लोकानाप्नुहीति। जले निमग्नस्य प्राणायामार्थमघमर्षणसूक्तमाह — ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽघ्य॑जायत। ततो॒ रात्रि॑रजायत॒ ततः॑ समु॒द्रो अ॑र्णवः ( १३ )। स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत। अ॒हो॒रा॒त्राणि॑ *मि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी॥ सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत्। दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ सुवः॑, इति। तिसृणामृचामेकैव पदयोजना। अभित इद्धोऽभीद्धः। ञिइन्घी दीप्तौ। सर्वतो देदीप्यामानः परमात्मा। तस्माद्भीद्धात्परमात्मनः सकाशादृतं यावज्ज्ञानोदयस्तावत्तथ्यं पृथिव्यादिभूतपञ्चकमजायतोत्पन्नम्। किंच सत्यं यावज्ज्ञानोदयस्तावत्तथ्यं भुवनचुतदर्शकमजायतोत्पन्नम्। पञ्चभूतानां चतुर्दशभुवनानां च सत्यत्वस्य ज्ञानोद-यावधित्वात्। ज्ञानोत्तरकालं मिथ्यात्वाङ्गीकारात्। चकारद्वयं तदन्तर्वर्तिप्राणिवर्गं समु-च्चिनोति। ननु भूतपञ्चकं भुवनचतुर्दशकं च कदा समुत्पन्नमिति चेच्छृणु। तपसोऽधि पर्यालोचनादूर्घ्वम्। अहं ब्रह्माण्डमेवमेवमुत्पादयामीत्थमित्थं जीवयामीतिपर्यालोच-नानन्तरमजायतेत्यर्थः। तथाच श्रुतिः — “सोऽकामयत बहु स्यां यदिदं किंच” इति। तप पर्यालोचन इति घातुपाठादत्र तपःशब्देन पर्यालोचनमुच्यते। लोकानुभवोऽपि कुलालो घटमुत्पादयामीत्यालोच्य घटमुत्पादयति [शरावमुत्पादयामी]त्यालोच्य शरावमुत्पा-दयतीत्याद्यः। ततो भूतभुवनोत्पत्त्यनन्तरं रात्रिस्त्रियामाऽजायत। औपलक्षण्येना[ह]-रप्यजायतेति मन्तव्यम्। ततोऽह्न उत्पत्तिमनु समुद्रः सप्तधा भिन्नः पारावारोऽजायत। अर्णांस्य-

  • विदधदित्यपि पाठः प्रसिद्धो वैदिकेषु। १ ङ. ०नारण्यं जा०। १०२

[[810]]

परिशिष्टत्वेन संगृहीतः — [अनु० १] म्भांसि विद्यन्तेऽस्मिन्नित्यर्णवो वापीकूपतटाकादिरजायत। समुद्रादर्णवादधि समुद्रा-र्णवजन्मनः पश्चात्संवत्सर एकादशमासात्मको द्वादशमासात्मकस्त्रयोदशमासात्म-कश्चाजायत। संवत्सरः कथंभूतः। अहोरात्राणि औपलक्षण्येन घटिकामुहूर्तप्रहरादिं-(दीं)श्च विदधद्विदधानः कुर्वाण इति यावत्। पुनः कथंभूतः। वशी स्वाधीनकर्ता। कस्य, विश्वस्य जगतः। कथंभूतस्य, मिषतो निमेषं कुर्वतः। उपलक्षणमेतदनिमिषत इत्यत्र-(स्त्र)। व्यापारं कुर्वतोऽकुर्वतश्चराचरात्मकस्येति भावः। संवत्सरात्मा कालः परमा-ऽत्मनः सकाशादुत्पन्नः सन्सर्वं जगद्वशी करोतीत्यभिप्रायः। नन्वाधाराधेयभावेन विद्यमानं सर्वं ब्रह्माण्डं परमात्मोत्पादयामासेत्युक्तं तत्कथमाकारमुत्पादयामासेत्यत्रा-ऽऽह। धाता परमेश्वरः सूर्याचन्द्रमसौ पुष्पवन्तौ पृथिवीमन्तरिक्षं दिवं सुवर्लोकत्रयस्थं भोग्यजातम्। अथो अध इत्येतस्मिन्नर्थ ओदन्तमव्ययम्। अघस्ताद्विद्यमानं लोकसप्त-कमपि यथापूर्वं पूर्वपूर्वकल्पेषु यथा यथाऽकल्पयदजनयत्तथा तथेदानींतने कल्पेऽप्य-कल्पयदित्यर्थः। चकारावुक्तमनुक्तं समुच्चिन्वाते। केचित्तु ऋतं यथार्थभाषणं सत्यं यथार्थं संकल्पनमिति व्याचक्षते। तेषां व्याख्याने भूतभुवनोत्पत्त्यनन्तरमित्यादावध्याहर्तव्यम्। अन्यथा भूतानि भुवनानि च नोत्पन्नानि चेत्कुतः प्राणिनः कुतो वा वाङ्मनसादिव्यापारः कथं वा समुद्राद्युत्पत्तिः, अस्मदुक्तं वा श्रद्धेयम्। अघमर्षणं कृत्वाऽत ऊर्ध्वमवगाहनार्था ऋचो दर्शयति — यत्पृ॑थि॒व्या ँ रजः॑ स्व॒मान्तरि॑क्षे वि॒रोदसी। इ॒मा ँस्तदा॒पो व॒रुणः पु॒नात्व॑घमर्ष॒णः॥ पु॒नन्तु॒ वस॑वः पु॒नातु॒ वरु॑णः पु॒नात्व॑घमर्ष॒णः। ए॒ष भू॒तस्य॑ म॒ध्ये भुव॑नस्य गो॒प्ता॥ ए॒ष पु॒ण्यकृ॑तां लो॒का॒ने॒ष मृ॒त्योर्हि॑र॒ण्मय॑म्। द्यावा॑पृथि॒व्योर्हि॑र॒ण्मयँ॒ स ँश्रि॑तँ॒ सुवः॑ ( १४ )। स नः॒ सुवः॒ स ँ शि॑शाधि, इति।

पृथिव्यां वर्तमानानामस्माकं [खं] रजः स्वकीयं पापं यदस्ति। आन्तरिक्षे सर्व-तोऽन्तरिक्षलोके विरोदसी द्यावापृथिव्योर्यत्पापमस्ति। अत्र रोदस्योः पृथगुक्तत्वात्पृ-थिव्यामितिपदेन भूमेरधस्ताद्वर्तमानः पाताललोको विवक्षितः। सर्वेष्वपि लोकेषु तत्त-ज्जन्मान्यनुभवतामस्माकं यत्पापमस्ति तत्सर्वं पापं तदनुष्ठातॄनिमानस्मांश्च वरुणः पुनातु शोधयतु। पापं विनाश्य शुद्धानस्मान्करोतु। कीदृशो वरुणः। आपो जलस्वामित्वेन तद्रूपः। अघानि मर्षयति विनाशयतीत्यघमर्षणः। किंच वसवः पुनन्तु।

[[811]]

[अनु० १] सभाष्यो दशमप्रपाठकः।

वरुणः पुनातु। अघमर्षणनामर्षिः पुनातु। तादृश एष वरुणो भूतस्यातीतस्य भुवनस्य प्राणिजातस्य गोप्ता रक्षिता। तथा भूतस्य भव्यस्य भविष्यतोऽपि(?) जगतो गोप्ता। एष एव वरुणः पुण्यकृतां ज्योतिष्टोमादिकारिणां लोकान्प्रयच्छतीति शेषः। एष वरुणो मृत्योः सर्वप्राणिमारकस्य संबन्धिनं हिरण्मयं लोकविशेषं प्राणि(पापि)नां प्रयच्छतीति शेषः। यत्तु हिरण्मयं ब्रह्माण्डरूपं सुवः स्व[र्ग]शब्दाभिधेयं द्यावापृथिव्योर्द्युलोकभूलोकयोः संश्रितं वर्तते, हे वरुण स त्वं नोऽस्मान्प्रति सुवस्तादृशं स्वर्गलोकं संशिशाधि सभ्यगनुगृहाण। स्नातवतः पुरुषस्याऽऽचमनमन्त्रानाह — आर्द्रं॒ ज्वल॑ति॒ ज्योति॑र॒हम॑स्मि। ज्योति॒र्ज्वल॑ति॒ ब्रह्मा॒हम॑स्मि। यो॑ऽहम॑स्मि॒ ब्रह्मा॒हम॑स्मि। अ॒हम॑स्मि॒ ब्रह्मा॒हम॑स्मि। अ॒हमे॒वाहं मां जु॑होमि॒ स्वाहां, इति। यदेतदुदकरूपमार्द्रं तदेतत्स्वाधिष्ठानचैतन्येन ज्वलति प्रकाशते। तच्चाधिष्ठान-चैतन्यरूपं[ज्योतिरहमस्मि] तदेवोपपाद्यते। यज्ज्योतिर्ज्वलतीत्युक्तं तज्ज्योतिर्ब्रह्मैवातो ज्योतिरहमस्मीति वाक्येन ब्रह्माहमस्मीत्युक्तं भवति, नतु पूर्ववज्जीवशिवात्मनः स्वरूपं विनाश्य रूपान्तरस्य ब्रह्म[त्व]लक्षणस्य प्राप्तिर्भवति। किं तर्हि योऽहं पुरा जीवोऽस्मि एवेदानीमहं ब्रह्मास्मि। वस्तुतो ब्रह्मण्येव मयि पूर्वमज्ञानाज्जीवत्वमारोपितमासीत्त-स्मिन्नज्ञाने विवेकेनापनीते सति वस्तुतः पूर्वसिद्धमेव ब्रह्मरूपत्वमिदानीमनुभवतो न तु नूतनं किंचिद्ब्रह्मत्वमागतम्। अहमहमेवाहंकारसाक्ष्येव(वा)[स्मि] न त्वहंकारस्वरूपः, अहं ब्रह्मास्मि, तस्मादहमेव, अहं ब्रह्मतत्त्वानुभववेलायामपि पूर्वसिद्धोऽहमेव। नतु योषित्यग्निध्यानवदुपचरितं ब्रह्मत्वम्। तादृशोऽहं जलरूपं मां जुहोमि। आधा(उद)राग्नौ प्रक्षिपामि। हविष्प्रदानवाची स्वाहाशब्दः। मद्देहवर्तिभ्यः प्राणाद्यभिमानिभ्यो देवेभ्यो जलरूपं हविर्दत्तमित्यर्थः। आचमनादूर्ध्वं पुनरपि स्नाने मन्त्रमाह — अ॒का॒र्य॒का॒र्य॑वकी॒र्णी स्ते॒नो भ्रू॒॑णहा गु॑रुत॒ल्पगः। वरु॑णो॒ऽपाम॑घमर्ष॒णस्तस्मा॑त्पा॒पात्प्रमु॑च्यते, इति॥ अकार्यं शास्त्रप्रतिषिद्धं कलञ्जभक्षणादिकं तत्कर्तुं शीलं यस्यासावकार्यकारी। प्रतिषिद्धस्त्रीगमनवानवकीर्णी। ब्राह्मणसुवर्णहर्ता स्तेनः। वेदवेदाङ्गविद्ब्राह्मणो गर्भो वा [भ्रूण]स्तं हन्तीति भ्रूणहा। गुरुदारगामी तु गुरुतल्पगः। एतादृशपापकारिणमपि मामघमर्षणः पापविनाशकोऽपां स्वामी वरुणस्तस्मात्सर्वस्मात्पापात्प्रमुच्यते मोचयतु।

[[812]]

परिशिष्टत्वेन संगृहीतः — [अनु० १] रहस्यपापाक्षयार्थे स्नानमन्त्रमाह — र॒जोभूमि॑स्त्व॒ मा ँ रोद॑यस्व॒ प्रव॑दन्ति॒ धीराः॑, इति। यजुः। हे परमात्मन्नहं यद्यपि रजोभूमिः पापस्थानं तथाऽपि तु(त्व)। अनुस्वार-लोपश्छान्दसः। त्वं मां न रोदयस्व। नकारोऽध्याहर्तव्यः। मदीयपापफलं मां भोजयितुं न रोदय किंतु पापं विनाश्यानुगृहाणेति धीरा धीमन्तः शास्त्रपारं गताः प्रवदन्ति। य(त) तोऽहमपि प्रवदामीत्यर्थः। स्नानादूर्ध्वं जप(प्यं) मन्त्रमाह — आक्रा॑न्त्समु॒द्रः प्र॑थ॒मे विध॑र्मञ्‍ज॒- नय॑न्प्र॒जा भुव॑नस्य॒ राजा॑। वृषा॑ प॒वित्रे॒ अधि॒ सानो॒ अव्ये॑ बृ॒ह- त्सोमो॑ वावृधे सुवा॒न इन्दुः॑ ( १५ ) इति। पुर॑स्ता॒द्यशो॒ गुहा॑सु॒ मम॑ चक्रतु॒ण्डाय॑ धीमहि तीक्ष्णदँ॒ष्ट्राय॑ धीमहि॒ परि॑ प्र॒तिष्ठि॑तं देभुर्यच्छतु दधातना॒द्भयोऽर्ण॒वः सुवो॒ राजैकं॑ च॥ १॥ रुद्रो॑ रु॒द्रश्च॑ दन्ति॒श्च॒ न॒न्दिः ष॑ण्मुख॒ एव॑ च। ग॒रुडो॑ ब्रह्म॑ विष्णु॒श्च॒ ना॒र॒- सि ँह॑स्तथै॒व च। आ॒दित्यो॑ऽग्निश्च॑ दु॒र्गि॒श्च॒ क्र॒मे॒ण द्वा॑दशा॒म्भसि। *म म॑ व च॒ म सु॑ वे॒ ना व॒ भा वै॑ कात्याय॒नाय॑॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि प्रथमोऽनुवाकः॥ १॥

समुद्रवत्प्रौढत्वादसङ्गात्मनः परमानन्दस्वभावत्वाद्वा समुद्रः परमात्मा। स च सर्वं जगदा[क्राना]क्रान्तवान्व्याप्तवान्। किं कुर्वन्। प्रथमे सृष्टेरादिकाले प्रजा जनयन्। कीदृशे प्रथमे काले, विधर्मान्विधर्मणि। प्राणिभिः पूर्वकल्पेऽनुष्ठिता विविधा धर्मा यस्मिन्काले स्वफलदानार्थमुद्बोध्यन्ते सोऽयं विधर्मा तस्मिन्। स च परमात्मा भुवनस्य पालकत्वाद्राजा । स्वभक्तानां कामानां वर्षणहेतुत्वाद्वृषा । ईश्वरः(दृशः) सर्वत्र व्याप्तवान्। सानो सानौ पर्वतपार्श्वभागे। श्रुत्यन्तरे ‘तं ब्रह्मगिरिरित्याचक्षते’ इति श्रवणाद्ब्रह्मावबोधयोग्योऽयं देहो गिरिस्तदवयवः सानुर्हृदयपुण्डरीकम्। तच्च पवित्रं बाह्यदेहावयववदुच्छिष्टस्पर्शादिदोषाभावाच्छुद्धम्। अधि पुरुषार्थहेतुभूत[ध्यान]स्थानत्वादितरावयवेभ्योऽप्यधिकम्। अत एव ध्यातॄणामवनस्य पालनस्य हेतुत्वादव्यम्। हिमवत्पुत्र्या गौर्या ब्रह्मविद्याभिमानित्वाद्गौरीवाचक उमाशब्दो ब्रह्मविद्यामुपलक्षयति। अत

  • एतत्प्रभृतिकात्यायनायेत्यन्तं ज. पुस्तके नास्ति।

[[813]]

[अनु० १] सभाष्यो दशमप्रपाठकः। एव तलवकारोपनिषदि ब्रह्मविद्यामूर्तिप्रस्तावे ब्रह्मविद्यामूर्तिः पठ्यते — बहुशोभमाना-मुमां हैमवतीं तां होवाच इति। तद्विषयः परमात्मा तयोमया सह विद्यमानत्वात्सोमः, स च सानौ हृदयपुण्डरीके बृहद्ब्रह्म यथा भवति तथा वावृधे वृद्धिं प्राप्तः। पूर्वमविद्यावृत-त्वेन संकुचितो जीवो भूत्वा तस्यामविद्यायां विद्ययाऽपनीतयां ब्रह्मत्वाविर्भावात्स वृद्धः इत्यवभासत इत्यर्थः। स च सोमः सुवानो जनानां धर्माधर्मयोः प्रेरकः। इन्दुः फलदानेन चाऽऽह्लादहेतुः॥ इति कृष्णयजुर्वेजीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोपनि- षदि भाष्ये प्रथमोऽनुवाकः॥ १॥